| YouTube Channel

महापातकी (mahApAtakI)

 
शब्दकल्पद्रुमः
Sanskrit
महापातकी, [न्] त्रि, (महापातकमस्त्य-स्येति महापातक + इनिः ।) पञ्चप्रकार-महापातकयुक्तः पतितः यथा, --“महापातकिनो ये पतितास्ते प्रकीर्त्तिताः ।पतितानां दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः
चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकंक्वचित् ।एतानि पतितानान्तु यः करोति विमोहितः
तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्न चान्यथा
”इति शुद्धितत्त्वधृतविष्णुपुराणवचनम्
पारिभाषिकमहापातकी यथा, --“कृतप्राणप्रतिष्ठाञ्च नीचैर्यां प्रतिमां द्विज ! ।दुर्गां प्रणमेद्यस्तु महापातकी स्मृतः
”इति देवीपुराणे व्यासनारदसंवादः
अपि ।“पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् ।यो पुष्णाति कापट्यात् महापातकीशिव !
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः
(यथा महानिर्व्वाणतन्त्रे ९२ ।“जातिभेदो कर्त्तव्यः प्रसादे परमात्मनः ।योऽशुद्धबुद्धिं कुरुते महापातकी भवेत्
”)