| YouTube Channel

महापञ्चमूलं (mahApaJcamUlaM)

 
शब्दकल्पद्रुमः
Sanskrit
महापञ्चमूलं,
क्ली,
(पञ्चानां विल्वादिमूलानांसमाहारः ततः महच्च तत् पञ्चमूलञ्चेति ।)बृहत् पञ्चमूलम् तद्यथा, --“विल्वोऽग्निमन्थः श्योनाकः काश्मर्य्यः पाटलातथा ।सर्व्वैस्तु मिलितैरेतैः स्यान्महापञ्चमूलकम्
”इति राजनिर्घण्टः
(यथा, सुश्रुते चिकित्सितस्थाने २० अध्याये ।“विनिर्गमार्थं वायोश्च स्वेदयेच्च मुहुर्मुहुः ।क्षीरं महापञ्चमूलं मूषिकां चान्त्रवर्ज्जिताम्
”)