| YouTube Channel

महान्तः (mahAntaH)

 
शब्दकल्पद्रुमः
Sanskrit
महान्तः,
पुं,
(महत् + प्रथमाबहुवचनरूपम् ।)नवधाभक्तियुक्तकृष्णभक्ताः ते शिवशेषधर्म्मा-दयः यथा, --“शिवः शेषश्च धर्म्मश्च ब्रह्मा विष्णुर्महान्विराट् ।सनत्कुमारः कपिलः सनकश्च सनन्दनः
वोढुः पञ्चशिखो दक्षो नारदश्च सनातनः ।भृगुर्म्मरीचिर्दुर्वासाः कश्यपः पुलहोऽङ्गिराः
मेधसो लोमशः शुक्रो वशिष्ठः क्रतुरेव ।बृहस्पतिः कर्द्दमश्च शक्त्रिरत्रिः पराशरः
मार्कण्डेयो बलिश्चैव प्रह्रादश्च गणेश्वरः ।यमः सूर्य्यश्च वरुणो वायुश्चन्द्रो हुताशनः
अकूपार उलूकश्च नाडीजङ्घश्च वायुजः ।नरो नारायणः कूर्म्म इन्द्रद्युम्नो विभीषणः
नवधाभक्तियुक्ताश्च कृष्णस्य परमात्मनः ।एते महान्तो धर्म्मिष्ठा भक्तानां प्रवरास्तथा
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६० अध्यायः