| YouTube Channel

महानीलः (mahAnIlaH)

 
Apte Hindi
Hindi
महानीलः
पुं*
महा-नीलः -
एक पेअकार का नीलम या पन्ना
शब्दकल्पद्रुमः
Sanskrit
महानीलः,
पुं,
(महान् नीलः नीलवर्णः ।) भृङ्ग-राजः नागविशेषः मणिविशेषः इतिमेदिनी ले, १६१
(यथा, शिशुपालवधे ।१ १६ ।“महामहानीलशिलारुचः पुरोनिषेदिवान् कंसकृषः विष्टरे
”“सिंहलस्याकराद्भूता महानीलास्तु ते स्मृताः
इति भगवानगस्त्यः
इति तट्टीकायां मल्लि-नाथः
) तस्य लक्षणं यथा, --“यस्तु वर्णस्य भूयस्त्वात् क्षीरे शतगुणे स्थितः ।नीलतां तनुयात् सर्व्वं महानीलः उच्यते
”इति गारुडे ७२ अध्यायः
(गुग्गुलुजातिभेदः तद्यथा, --“महिषाक्षो महानीलः कुमुदः पद्म इत्यपि ।हिरण्यः पञ्चमो ज्ञेयो गुग्गु लोः पञ्च जातयः
महानीलस्तु विज्ञेयः स्वनामसमलक्षणः ।महिषाक्षो महानीलो गजेन्द्रानां हितावुभौ
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
सुमेरोर्दक्षिणपार्श्वस्थपर्व्वतविशेषः यथा, मार्क-ण्डेये ५५ ।“शीतार्त्तश्चक्रमुञ्जश्च कुलीरोऽथ सुकङ्कवान् ।मणिशैलोऽथ वृषवान् महानीलो भवाचलः
”)