| YouTube Channel

महानिम्बः (mahAnimbaH)

 
Wordnet
Sanskrit
Synonyms:
महानिम्बः, कैटर्यः, पवनेष्टः, पार्वतः
noun
निम्बजातीयः वृक्षविशेषः।
"महानिम्बस्य पत्रपुष्पफलचर्माणि औषधरूपेण उपयुज्यन्ते।"
शब्दकल्पद्रुमः
Sanskrit
महानिम्बः,
पुं,
(महांश्चासौ निम्बश्चेति ।) निम्ब-वृक्षविशेषः घोडा निम इति भाषा तत्-पर्य्यायः कैटर्य्यः पवनेष्टः पार्व्वतः ।इति रत्नमाला
(यथा, --“मृतसूताभ्रनागञ्च स्वर्णं तुल्यं प्रकल्पयेत् ।महानिम्बस्य चूर्णतु चतुर्भिः सममाहरेत् ।मधुना लेहयेन्माषं लालामेहप्रशान्तये
”इति वैद्यकरसेन्द्रसारसंग्रहे प्रमेहाधिकारे
)अस्य गुणाः परमग्राहित्वम् कषायत्वम् ।अम्लत्वम् शीतलत्वञ्च इति राजवल्लभः
(तथास्य पर्य्यायान्तरं गुणाश्च ।“महानिम्बः स्मृतोद्रेका रम्यको विषमुष्टिकः ।केशामुष्टिनिम्बकश्च कार्म्मुको जीव इत्यपि
महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषा-यकः ।कफपित्तभ्रमच्छर्दिकुष्ठहृल्लासरक्तजित् ।प्रमेहश्वासगुल्मार्शो मूषिकाविषनाशनः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)