| YouTube Channel

महानाटकं (mahAnATakaM)

 
शब्दकल्पद्रुमः
Sanskrit
महानाटकं,
क्ली,
(महच्च तत् नाटकञ्चेति ।)नाटकविशेषः तस्य लक्षणं यथा, --“एतदेव यदा सर्व्वैः पताकास्थानकैर्युतम् ।अङ्कैश्च दशभिर्धीरा महानाटकमूचिरे
एतदेव नाटकम् यथा, बालरामायणम् ।”इति साहित्यदर्पणः
स्वनामख्यातहनूमद्रचित-रामचरितग्रन्थविशेषः यथा, --“एष श्रीलहनूमता विरचिते श्रीमन्महानाटकेवीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धृते विक्रमैः ।मिश्रश्रीमधुसूदनेन कविना सन्दर्भ्य सज्जीकृतेस्वर्गारोहणनामकोऽत्र नवमो यातोऽङ्कएवेत्यसौ
”इति तस्यान्तिमः श्लोकः