| YouTube Channel

महाधनं (mahAdhanaM)

 
शब्दकल्पद्रुमः
Sanskrit
महाधनं,
क्ली,
(महत् अनेकं धनं मूल्यत्वेनास्य ।)बहुमूल्यवस्त्रम् इत्यमरः ११३
सुवर्णम् सिह्लकम् इति मेदिनी ने, २०१
चारुवस्त्रम् इति हेमचन्द्रः
कृषिः इतिशब्दरत्नावली
(महदनेकं धनमस्मात् ।संग्रामः इति निघणुः १७
यथा, ऋग्वेदे ६४ १२ ।“मा नो अस्मिन्महाधने परावर्गभारभृद्यथा
”“महाधने संग्रामे ।” इति तद्भाष्ये सायनः
महच्च तद्धनच्चेति प्रभूतधनम् यथा, ऋग्-वेदे ।“इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे
”“महाधने प्रभूतधननिमित्तम् ।” इति तद्भाष्येसायनः
बहुमूल्ये, त्रि यथा, किरातार्ज्जु-नीये ३८ ।“पुराधिरूढं शयनं महाधनंविबोध्यसे यः स्तुतिगीतिमङ्गलैः ।अदभ्रदर्भामधिशय्य संस्थलींजहासि निद्रामशिवः शिवारुतैः
”)अतिशयधनयुक्ते, त्रि