| YouTube Channel

महादेवः (mahAdevaH)

 
Apte Hindi
Hindi
महादेवः
पुं*
महा-देवः -
शिव का नामान्तर
Wordnet
Sanskrit
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
Tamil
Tamil
மஹாதே3வ: : சிவன்.
शब्दकल्पद्रुमः
Sanskrit
महादेवः,
पुं,
(महांश्चासौ देवश्चेति यद्वा, महतां देवादीनां देवः ।) शिवः इत्यमरः ।१ ३४
अष्टमूर्त्त्यन्तर्गतसोममूर्त्तिरयम् ।यथा, महादेवाय सोममूर्त्तये नमः इतिशिवपूजापद्धतिः
*
अस्य व्युत्पत्तिर्यथा --“ब्रह्मादीनां सुराणाञ्च मुनीनां ब्रह्मवादिनाम् ।तेषाञ्च महतां देवो महादेवः प्रकीर्त्तितः
भहती पूजिता विश्वे मूलप्रकृतिरीश्वरी ।तस्या देवः पूजितश्च महादेवः स्मृतः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५३ अध्यायः
तस्य पञ्चवक्त्रत्वत्रिनेत्रत्वकारणं यथा, --“अतीव कमनीयाङ्गं किशोरं श्यामसुन्दरम् ।अहो निर्व्वचनीयञ्च दृष्ट्वा रूपमनुत्तमम् ।न बभूव वितृष्णश्च लोचनाभ्यां त्रिलोचनः
पश्यन्निमेषरहित इति मत्वा स्वमानसे ।भक्त्युद्रेकान्महाभक्तो रुरोद प्रेमविह्वलः
सहस्रवदनोऽनन्तो भाग्यवांश्च चतुर्म्मुखः ।वहुभिर्लोचनैर्दृष्ट्वा तुष्टाव बहुभिर्मुखैः
पश्यामि किं वा किं स्तौमि संप्राप्य नाथ-मीदृशम् ।आस्यैकेन लोचनाभ्यां चतुर्धा पुनः पुनः
स्वमानसे कुर्व्वतीदं शङ्करे तपस्विनि ।तद्वभूव चतुर्व्वक्त्रं पूर्व्वेण सह पञ्चमम्
एकैकवक्त्रं शुशुभे लोचनैश्च त्रिभिस्त्रिभिः ।बभूव तेन तन्नाम पञ्चवक्त्रस्त्रिलोचनः
चक्षूंषि गुणरूपाणि तस्य ब्रह्मस्वरूपिणः ।सत्त्वं रजस्तम इति तस्य हेतुं निशामय
सत्त्वांशेन दृशा शम्भुः पश्यन् पाति सात्त्विकान् ।राजसेन राजसिकान् तामसेन तामसान्
चक्षुषस्तामसात् पश्चात् ललाटस्थाद्धरस्य ।संहारकाले संहर्त्तुरग्निराविर्भवेत् क्रुधा
कोटितालप्रमाणश्च सूर्य्यकोटिसमप्रभः ।लेलिहानो दीर्घशिखस्त्रैलोक्यं दग्धुमीश्वरः
”तस्य भस्मधारणकारणं यथा, --“विभूतिगात्रः विभुः सतीसत्कारभस्मना ।धत्ते तस्या अस्थिमालां प्रेमभावेन भस्म
स्वात्मारामो यद्यपीशस्तथापि पूर्णमब्दकम् ।सतीशवं गृहीत्वा भ्रामं भ्रामं रुरोद
प्रत्यङ्गाङ्गञ्च तस्याश्च पपात यत्र यत्र ।सिद्धपीठस्तत्र तत्र बभूव मन्त्रसिद्धिकृत्
तदा शवावशेषञ्च कृत्वा वक्षसि शङ्करः ।पपात मूर्च्छितो भूत्वा सिद्धक्षेत्रे राधिके !
तदा गत्वा महेशन्तं कृत्वा क्रोडे प्रबोध्य ।अददं दिव्यतत्त्वञ्च तस्मै शोकहरं परम्
तदा शिवश्च सन्तुष्टः स्वलोकञ्च जगाम ।मूर्त्त्यन्तरेण कालेन तां संप्राप प्रियां सतीम्
”तस्य दिगम्बरत्वजटाधारित्वकारणं यथा, --“दिग्वस्त्रधारी योगेन नेच्छाऽनित्ये पटे विभोः ।जटास्तपस्याकालीना धत्तेऽद्यापि विवेकतः
चेच्छा केशसंस्कारे स्वाङ्गवेशेन योगिनः ।समता चन्दने पङ्के लोष्ट्रे रत्ने मणीश्वरे
”तस्य नागभूषणत्ववृषवाहनत्वकारणं यथा, --“गरुडद्वेषिणो नागाः शङ्करं शरणं ययुः ।बिभर्त्ति कृपया स्वाङ्गे तानेव शरणागतान्
वाहनं वृषरूपोऽहमन्यस्तं वोढुमक्षमः ।त्रिपुरस्य वधे पूर्व्वं मत्कलांशसमुद्भवः
”तस्य धुस्तूरपुष्पविल्वपत्रप्रियत्वव्याघ्रचर्म्मधारित्व-श्मशानस्थायित्वकारणं यथा, --“पारिजातादिकं पुष्पं सुगन्धिचन्दनादिकम् ।मयि संन्यस्य तेष्वेव प्रीतिर्नास्ति कदाचन
धुस्तूरे तत् सदा प्रीतिर्व्विल्वपत्रानुलेपने ।गन्धहीने प्रसूने योगेष्टे व्याघ्रचर्म्मणि
दिव्यलोके दिव्यतल्पे जनतायां तन्मनः ।श्मशानेऽतीवरहसि ध्यायते मामहर्न्निशम्
”तस्य महिमादि यथा, --“आब्रह्मतृणपर्य्यन्तं स्वप्नवन्मन्यते शिवः ।ममानिर्व्वचनीयेऽत्र रूपे तन्मग्नमानसम्
ब्रह्मणः पतनेनापि शूलपाणेः क्षणो भवेत् ।तस्यायुषः प्रमाणञ्च नाहं जानामि का श्रुतिः
ज्ञानं मृत्युञ्जयं शूलं धत्ते मत्तेजसा समम् ।विना मया कश्चित्तं शङ्करं जेतुमीश्वरः
शङ्करः परमात्मा मे प्राणेभ्योऽपि परः शिवः ।त्र्यम्बके मन्मनः शश्वन्न प्रियो मे भवात् परः
संवसामि गोलोके वैकुण्ठे तव वक्षसि ।सदाशिवस्य हृदये निबद्धः प्रेमपाशतः
स्रष्टुं शक्तो हि नष्टुञ्च भ्रूभङ्गलीलया हि यः ।ब्रह्माण्डनिकरं योगान्न योगी शङ्करात् परः
दिव्यज्ञानेन यः स्रष्टुं नष्टुं भ्रूभङ्गलीलया ।मृत्युकालादिकं शक्तो ज्ञानी शङ्करात् परः
मम भक्तिञ्च दास्यञ्च मुक्तिञ्च सर्व्वसम्पदम् ।सर्व्वसिद्धिं दातुमीशो दाता शङ्करात् परः
पञ्चवक्त्रेण मन्नाम यशो गायत्यहर्निशम् ।मद्रूपं ध्यायते शश्वन्न भक्तः शङ्करात् परः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३६ अध्यायः
शिवनैवेयभक्षणदोषकारणादिकं यथा, --राधिकोवाच ।“एवंभूतस्य विभोः सर्व्वेशस्य महात्मनः ।न शस्तं कथमुच्छिष्टं ब्रूहि सन्देहभञ्जन !
श्रीकृष्ण उवाच ।शृणु देवि ! प्रवक्ष्येऽहमितिहासं पुरातनम् ।पापेन्धनानां दहने ज्वलदग्निशिखोपमम्
सनत्कुमारो वैकुण्ठमेकदा जगाम ।ददर्श भुक्तवन्तञ्च नाथं नारायणं द्बिजः
तुष्टाव गूढैः स्तोत्रैश्च प्रणम्य भक्तितो मुदा ।अवशेपं ददौ तस्मै सन्तुष्टो भक्तवत्सलः
प्राप्तमात्रेण तत्रैव भुक्तं तेनापि किञ्चन ।किञ्चिद्ररक्ष बन्धूनां भक्षणाय दुर्लभम्
सिद्धाश्रमे तद्दत्तं गुरवे शूलपाणिने ।भक्त्युद्रेकाच्च तत् सर्व्वं भुक्तञ्च प्राप्तिमात्रतः
भुक्त्वा सुदुर्लभं वस्तु ननर्त्त प्रेमविह्वलः ।पपात डमरुर्हस्तात् शृङ्गञ्च व्याघ्रचर्म्म
स्वयं निपत्य पश्चाच्च रुदन्मूर्च्छामवाप ।एतस्मिन्नन्तरे देवी दुर्गा दुर्गतिनाशिनी
मुदा जगाम शीघ्रं तत्प्रसन्नवदनेक्षणा ।रुदन्तं मूर्च्छितं दृष्ट्वा निपतन्तञ्च भक्तितः ।प्रहस्य वार्त्तां पप्रच्छ कुमारं शूलपाणिनः
सर्व्वं तां कथयामास कुमारः संपुटाञ्जलिः ।श्रुत्वा चुकोप सा देवी शिवं प्रस्फुरिताधरा
श्रुत्वा मनोहरं स्तोत्रं शशाप शिवं शिवा ।दुष्टं चक्रे तदुच्छिष्टमभक्ष्यं विदुषामपि
सुचिरञ्च तपस्तप्त्वा मया लब्धस्त्वमीश्वरः ।त्वया विष्णोः प्रसादेन वञ्चिताहं कथं विभो !
यतो दत्तं नैवेद्यं विष्णोर्मह्यं त्वयाधुना ।अतो मत्तो गृहाणैतत् फलमेव महेश्वर !
अद्य प्रभृति ये लोका नैवेद्यं भुञ्जते तव ।ते जन्मैकं सारमेया भविष्यन्त्येव भारते
इत्युक्त्वा पार्व्वती मानाद्रुरोद पुरतो विभोः ।दृष्टिः पपात तत्कण्ठे नीलकण्ठो बभूव सः
अपूर्व्वं तव नैवेद्यं जन्ममृत्युजराहरम् ।कृतं दुष्टं यतस्तस्मात् पश्य देहं त्यजामि
लिङ्गोपरि यद्दत्तं तदेवाग्राह्यमीश्वर ! ।सुपवित्रं भवेत्तत्र विष्णोर्नैवेद्यमिश्रितम्
इत्येवं कथितं सर्व्वं त्वया पृष्टं सुरेश्वरि ! ।अभिशस्तं शङ्करस्य निर्म्माल्यं येन हेतुना
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३७ अध्यायः
तस्यावतारा यथा, --सूत उवाच ।“वेदव्यासावताराणि द्वापरे कथितानि तु ।महादेवावताराणि कलौ शृणुत सुव्रताः
आदौ कलियुगे श्वेते देवदेवो महाद्युतिः ।नाम्ना हिताय विप्राणामभूद्वैवस्वतेऽन्तरे
हिमवच्छिखरे रम्ये छगले पर्व्वतोत्तमे ।तस्य शिष्याः शिखायुक्ता बभूवुरमितप्रभाः
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ।चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः
सुभावो दमनश्चाथ सुहोत्रः कङ्कणस्तथा ।लोकाक्षिरथ योगीन्द्रो जैगीषव्यस्तु सप्तमे
अष्टमे दधिबाहुः स्यान्नवमे वृषभः प्रभुः ।भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रपरः स्मृतः
द्वादशेऽत्रिः समाख्यातो वाली चाथ त्रयोदशे ।चतुर्द्दशे गौतमस्तु वेदशीर्व्वा ततः परम्
गोकर्णश्चाभवत्तस्माद्भहारामः शिखण्ड्यथ ।जटामाल्यश्च हासश्च दारुको लाङ्गली क्रमात्
श्वेतस्तथा परः शूली तिण्डी मुण्डी वै क्रमात् ।सहिष्णुः सोमशर्म्मा कुलीशो चान्तिमे प्रभुः
वैवस्वतेऽन्तरे शम्भोरवतारास्त्रिशूलिनः ।अष्टाविशतिविख्याता ह्यन्ते कलियुगे प्रभोः ।तीर्थकार्य्यावतारः स्याद्देवेशो नकुलीश्वरः
”इति कौर्म्मे ५० अध्यायः
*
तस्याष्टषष्टिनामानि क्षेत्राणि यथा, --मनुरुवाच ।“मन्दरस्थं महादेवं ब्रह्मा पृच्छति शङ्करम् ।केषु केषु स्थानेषु द्रष्टव्योऽसि मया प्रभो !
ईश्वर उवाच ।वाराणस्यां महादेवं प्रयागे तु महेश्वरम् ।नैमिषे देवदेवञ्च गयायां प्रपितामहम्
कुरुक्षेत्रे विदुः स्थाणुं प्रभासे शशिभूषणम् ।पुष्करे तु अपोगन्धिं विश्वञ्च विमलेश्वरे
अट्टहासे महानादं महेन्द्रे तु महाव्रतम् ।उज्जयिन्यां महाकालमाकोटे तु महोत्कटम्
शङ्कुकर्णे महातेजं गोकर्णे महाबलम् ।भैरवे भैरवाकारं भवं वस्त्रापदे विदुः
उग्रं कनखले चैव भद्रकर्णाह्रदे शिवम् ।देवदारुवने दिण्डिं चण्डीशं मध्यमङ्गले
ऊर्द्धरेतं त्वरण्डे तु सकलाण्डे कपर्द्दिनम् ।कृत्तिवाससमेकाग्रे सूक्ष्मं ताम्रातिकेश्वरे
कालञ्जरे नीलकण्ठं श्रीकण्ठं मण्डलेश्वरे ।ध्यानं सिद्धेश्वरे योगी गायत्त्रीञ्चोत्तरेश्वरे
विजयं नाम काश्मीरे जयन्तं मरुकेश्वरे ।हरिश्चन्द्रे हरिञ्चैव पुरिश्चन्द्रे तु शङ्करम्
जटावासेश्वरे विद्यां सौम्यं कुब्जटकेश्वरे ।भूतेश्वरे भस्मगात्रं जललिङ्गे जलेश्वरम्
भिक्षुकं कर्णिकायान्तु वाराहं बिन्ध्यपर्व्वते ।ताम्रं पश्चिमसन्ध्यायां विरजायां त्रिलोचनम्
दृप्तेश्वरे त्रिशूलन्तु श्रीशैले त्रिपुरान्तकम् ।जललिङ्गे विदुः कालिं कापालिं करवीरके
दीप्तचक्रेश्वरे वेदं नेपाले पशुपतिं पतिम् ।श्रीकारारोहणे कूटं दैविकायामुमापतिम्
गङ्गायां सागरे त्वमरमोङ्कारममरकण्ठके ।सप्तगोदावरे भीमं स्वयम्भुं नकुलेश्वरे
कर्णिकारे गणाध्यक्षं कैलासे गणाधिपम् ।हेमकूटे विरूपाक्षं भूर्भुवं गन्धमादने ।सिद्धेश्वरन्तु आकाशे पाताले चट्टकेश्वरम्
अष्टषष्टिश्च नामानि देवदेवस्य धीमतः ।पुराणे चोपगीतानि ब्राह्मणस्य स्वयम्भुवा
यः पठेत् प्रातरुत्थाय स्नातो वा यदि वाशुचिः ।मुच्यते सर्व्वपापेभ्यः शिवलोकं गच्छति
”इत्याद्ये देवीपुराणे अष्टषष्टिनामानि महा-देवस्य
*
तस्य द्वादशनामस्तोत्रम् ।“प्रथमस्तु महादेवो द्वितीयस्तु महेश्वरः ।तृतीयः शङ्करो ज्ञेयश्चतुर्थो वृषभध्वजः
पञ्चमः कृत्तिवासाश्च षष्ठः कामाङ्गनाशनः ।सप्तमो देवदेवेशः श्रीकण्ठश्चाष्टमः स्मृतः
ईश्वरो नवमो ज्ञेयो दशमः पार्व्वतीपतिः ।रुद्र एकादशश्चैव द्बादशः शिव उच्यते
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।कृतघ्नश्चैव गोघ्नश्च ब्रह्महा गुरुतल्पगः
स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः ।मुच्यते सर्व्वपापेभ्यो रुद्रलोकं गच्छति
”इति स्कन्दपुराणम्
*
तन्नामोच्चारणफलं यथा, --“कोटयो ब्रह्महत्यानामगम्यागमकोटयः ।सद्यः प्रलयमायान्ति महादेवेति कीर्त्तनात्
महादेव महादेव महादेवेति वादिनम् ।वत्सं गौरिव गौरीशो धावन्तमनुधावति
”इति पुराणम्
*
तस्य प्रणाममन्त्रः ।“नमस्ये त्वां महादेव ! लोकानां गुरुमीश्वरम् ।पुंसामपूर्णकामानां कामपूरामराङ्घ्रिपम्
”इति श्रीभागवतम्
“महादेवं महात्मानं महायोगिनमीश्वरम् ।महापापहरं देवं मकाराय नमो नमः
”इति तन्त्रम्
*
तस्य कालरूपवर्णनं यथा, --नारद उवाच ।“कालरूपी त्वया ख्यातः शम्भुर्गगनगोचरे ।लक्षणञ्च स्वरूपञ्च सर्व्वं व्याख्यातुमर्हसि
पुलस्त्य उवाच ।स्वरूपं त्रिपुरघ्नस्य वदिष्ये कालरूपिणः ।अश्विनी भरणी चैव कृत्तिका प्रथमांशकम्
मेषकं हि विजानीयात् कुजक्षेत्रमुदाहृतम् ।आग्नेयांशास्त्रयो ब्रह्मन् ! प्राजापत्यं कवेर्गृहम्
सौम्यार्द्धं वृषनामेदं वदनं परिकीर्त्तितम् ।मृगार्द्धमार्द्रादित्यांशास्त्रयः सौम्यगृहन्त्विदम्
मिथुनं भुजयोस्तस्य गगनस्थस्य शूलिनः ।आदित्यांशश्च पुष्यञ्च अश्लेषा शशिनो गृहम्
राशिः कर्कटको नाम पार्श्वेन खविलासिनः ।पित्रर्क्षं भगदैवत्यं उत्तरांशश्च केशरी
सूर्य्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिकीर्त्तितम् ।उत्तरांशास्त्रयः पाणिश्चित्रार्द्धं कन्यका त्विदम्
सोमपुत्त्रस्य सद्मैतत् द्वितीयं जठरं विभोः ।चित्रांशद्वितयं स्वाती विशाखायांशकत्रयम्
द्वितीयं शुक्रसदनं तुलानाभिरुदाहृतम् ।विशाखांशमनुराधा ज्येष्ठा भौमगृहं त्विदम्
द्वितीयं वृश्चिको राशिर्मेढ्रं कालस्वरूपिणः ।मूलं पूर्व्वोत्तरांशश्च देवाचार्य्यगृहं धनुः
ऊरुयुगलमीशस्य अमरर्षे ! प्रगीयते ।उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने !
धनिष्ठार्द्धं शनिक्षेत्रं जानुनी परिकीर्त्तिते ।धनिष्ठार्द्धं शतभिषा प्रोष्ठपद्यांशकत्रयम्
सौरं सद्मापरमिदं कुम्भो जङ्घे विश्रुते ।प्रोष्ठपद्यांशमेकन्तु उत्तरा रेवती तथा
द्वितीयं जीवसदनं मीनस्तु चरणावुभौ
एवं कृत्वा कालरूपं त्रिनेत्रोयज्ञं क्रोधान्मार्गणैराजघान ।विद्धश्चासौ वेदनाबुद्धियुक्तःखे सन्तस्थौ तारकाभिश्चिताङ्गः
”इति वामनपुराणे अध्यायः