| YouTube Channel

महाजम्बूः (mahAjambUH)

 
शब्दकल्पद्रुमः
Sanskrit
महाजम्बूः,
स्त्री,
(महती चासौ जम्बूश्चेति ।)बृहज्जम्बुः तत्पर्य्यायः राजजम्बुः स्वर्ण-माता महाफला पिकप्रिया कोकिलेष्टा६ महानीला बृहत्फला अस्य गुणाः ।उष्णत्वम् मधुररसत्वम् कषायत्वम् श्रम-हरत्वम् झटित्यास्यजडिमनाशित्वम् स्वर-करत्वम् विष्टम्भित्वम् शोषशमनत्वम् ।भ्रमातीसारार्त्तिवर्द्धकत्वम् श्वसितकफकास-प्रशमनत्वञ्च इति राजनिर्घण्टः
अपि ।“फलेन्द्रः कथितो नन्दो राजजम्बुर्महाफला ।तथा सुरभिपत्रा महाजम्बूरपि स्मृता
राजजम्बूफलं स्वादु विष्टम्भि गुरु रोचनम्
”इति भावप्रकाशः