| YouTube Channel

महागुरु (mahAguru)

 
Capeller Eng
English
महागुरु
m.
a very venerable person.
Monier Williams Cologne
English
महा—गुरु
m.
a very venerable person,
ĀśvGṛ.
KālP.
&c.
Shabdartha Kaustubha
Kannada
महागुरु
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತಾಯಿ ತಂದೆ ಮತ್ತು ಆಚಾರ್ಯ
विस्तारः - > "पिता माता तथाचार्यो महागुरुरिति स्मृतः" ಇವರು ಮಹಾಗುರುಗಳು. ಹೆಂಗಸರಿಗೆ ಪತಿಯು ಮಹಾಗುರು. ಅವಿವಾಹಿತಕನ್ಯೆಗೆ ತಾಯಿ ತಂದೆಗಳು.
Lanman
English
mahā-guru, a. exceedingly reverend
[1279]
as m. person worthy of unusual
honor.
शब्दकल्पद्रुमः
Sanskrit
महागुरुः,
पुं,
(महांश्चासौ गुरुश्चेति ।) अति-गुरुः पुरुषस्य पिता माता आचार्य्यश्च ।स्त्रियाः पतिः अदत्तकन्यायाः पिता माताच यथा त्रयः पुरुषस्यातिगुरवो भवन्तिमाता पिताचार्य्यश्चेति इति विष्णुसूत्रम्
पत्युर्महागुरुत्वमाह रामायणे ।“नातो विशिष्टं पश्यामि बान्धवं वै कुलस्त्रियाः ।पतिर्ब्बन्धुर्गतिर्भर्त्ता दैवतं गुरुरेव
”शातातपः ।“गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।पतिरेको गुरुः स्त्रीणां सर्व्वत्राभ्यागतो गुरुः
”एकपदेन दत्तस्त्रीणां पितृमातृव्यावृत्तिः
*
सपिण्डमरणं प्रकृत्य आश्वलायनः त्रिरात्र-मक्षारलवणान्नाशिनः स्युर्द्वादशरात्रं महा-गुरुषु आचार्य्यश्च उपनीय ददद्वेदमाचार्य्यःस उदाहृतः इति याज्ञवल्क्योक्तः तन्म-रणे त्रिरात्राशौचित्वेन नैतादृङ्नियमः
आश्वलायनः नैतस्यां रात्रावन्नं पचेयुः ।अन्नं पचेयुरित्यनेनोपवासः सूचितः अघ-स्रस्तरे त्र्यहमनश्नन्त आसीरन् इति वक्ष्य-माणवचनात् अघस्रस्तरः कटादिः अक्षार-लवणं क्षारमृत्तिकादिकृतलवणभिन्नं तत्तुसैन्धवं साम्भरि इति शुद्वितत्त्वम्
*
महागुरुमरणे संवत्सरपर्य्यन्तं निषिद्धकर्म्माणियथा, कर्म्मलोचने ।“महागुरुनिपाते काम्यं किञ्चिन्न चाचरेत् ।आर्त्विज्यं ब्रह्मचर्य्यञ्च यावत् पूर्णो वत्सरः
अन्यश्राद्धं परान्नञ्च गन्धं माल्यञ्च मैथुनम् ।वर्ज्जयेद्गुरुपाते यावत् पूर्णो वत्सरः
तीर्थयात्रां विवाहञ्चाध्यापनं तर्पणन्तथा ।संवत्सरं कुर्व्वीत महागुरुनिपातने
”अपि ।“विशेषतः शिवापूजां प्रमृतपितृको द्विजः ।यावद्वत्सरपर्य्यन्तं मनसापि चाचरेत्
महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् ।आर्त्विज्यं ब्रह्मयज्ञञ्च श्राद्धं देवयुतञ्च यत्
”इति कालिकापुराणे ५४ अध्यायः
वाचस्पत्यम्
Sanskrit
महागुरु
पु०
कर्म० “त्रयः पुरुषस्यातिगुरवो भवन्तिपिता माता चाचार्य्यश्च” स्मृत्युक्ते पुरुषस्य पित्रादौ“पतिरेकोगुरुः स्त्रीणा” मित्युक्ते दत्तकन्याया भर्त्तरिअदत्तकन्यायाः पितरि, मातरि “महागुरुनिपाते चकाम्यं किञ्चिन्नचाचरेत्” स्मृतिः
Capeller
German
महागुरु
m.
eine sehr ehrwürdige Person.