| YouTube Channel

महागदः (mahAgadaH)

 
शब्दकल्पद्रुमः
Sanskrit
महागदः,
पुं,
(महांश्चासौ गदश्चेति ।) ज्वरः ।इति राजनिर्घण्टः
(महारोगः यथा, सुश्रुते ।१ ३३ अध्याये ।“वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरः ।अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् ।अष्टावेते प्रकृत्यैव दुश्चिकित्सा महागदाः
”औषधविशेषः यथा, सुश्रुते कल्पस्थाने ५अध्याये ।“एषोऽगदो हन्ति विषं प्रयुक्तःपानाञ्जनाभ्यञ्जननस्ययोगैः ।अवार्य्यवीर्य्यो विषवेगहन्तामहागदो नाम महाप्रभावः
”महती गदास्येतिविग्रहे महागदाविशिष्टे, त्रि ।यथा, श्रीमद्भागवते १८ ।“परानुषक्तं तपनीयोपकल्पंमहागदं काञ्चनचित्रदंशम् ।मर्म्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैःप्रचण्डमन्युः प्रहसंस्तं बभाषे
”)