| YouTube Channel

महाकुष्ठं (mahAkuSThaM)

 
शब्दकल्पद्रुमः
Sanskrit
महाकुष्ठं,
क्ली,
(महच्च तत् कुष्ठञ्चेति ।) बृहत्-कुष्ठरोगः तत् सप्तविधं यथा, --“पूर्व्वत्रिकं तथा सिध्मं ततः काकणकं तथा ।पुण्डरीकर्क्षजिह्वे तु महाकुष्टानि सप्त
पूर्व्वत्रिकं कपालौदुम्बरमण्डलाख्यम् सिध्म-शब्दोऽकारान्तो नपुंसकलिङ्गः ननु कथंसिध्मस्य महाकुष्ठेषु गणना सुश्रुतेन क्षुद्र-कुष्ठेषुक्तत्वात् उच्यते त्वङ्मात्रगता सिध्म-पुष्पिका सुश्रुतेन क्षुद्रकुष्ठेषूक्ता धातुषु प्रवि-ष्टन्तु सिध्मं महाकुष्ठमेव एवंविधस्य सिध्मस्यचरकेण महाकुष्ठेषु दर्शितत्वात् एषांमहाकुष्ठत्वञ्च शीघ्रमुत्तरोत्तरधात्ववगाहनात्उल्वणदोषजन्यत्वात् चिकित्साबाहुल्याच्च ।”इति भावप्रकाशः
(एषां चिकित्सा क्षुद्रकुष्ठ-शब्दे द्रष्टव्या
)