| YouTube Channel

महाकाव्यं (mahAkAvyaM)

 
शब्दकल्पद्रुमः
Sanskrit
महाकाव्यं,
क्ली,
(महच्च तत्काव्यञ्चति ।) काव्य-शास्त्रविशेषः तत्पर्य्यायः सर्गबन्धः इतित्रिकाण्डशेषः
तस्य लक्षणं यथा, --“सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः ।सद्वंशः क्षत्त्रियो वापि धीरोदात्तगुणान्वितः
एकवंशभवा भूपाः कुलजा बहवोऽपि वा ।शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते
अङ्गानि सर्व्वेऽपि रसाः सर्व्वे नाटकसन्धयः ।इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम्
चत्वारस्तत्र वर्गाः स्युस्तेष्वेकञ्च फलं भवेत् ।आदौ नमस्क्रियाशीर्व्वा वस्तुनिर्द्देश एव वा
क्वचिन्निन्दा खलादीनां सताञ्च गुणकीर्त्तनम् ।एकवृत्तमयः पद्यैरवसानेऽन्यवृत्तकैः
नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ।नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते
सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ।सन्ध्यासूर्य्येन्दुरजनीप्रदोषध्वान्तवासराः
प्रातर्मध्याह्रमृगयाशैलर्त्तुवनसागराः ।सम्भोगविप्रलम्भौ मुनिस्वर्गपुराध्वराः
रणप्रयाणोपयममन्त्रपुत्त्रोदयादयः ।वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह
कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ।नामास्य सर्गोपादेयकथया सर्गनाम तु
”इति साहित्यदर्पणे परिच्छेदः
*
महाकाव्यग्रन्था यथा, कालिदासकृतकुमार-सम्भवरघुवंशप्रभृतयः भर्त्तृहरिकृतभट्टि-काव्यम् भारविकृतकिरातार्ज्जुनीयम् श्रीहर्ष-कृतनैषधीयचरितम् माघकृतशिशुपालवध-श्चेत्यादयः