| YouTube Channel

महर्षिः (maharSiH)

 
Apte Hindi
Hindi
महर्षिः
पुं*
महा-ऋषिः -
"बड़ा ऋषि या सन्त (मनु* १।३४ में यह शब्द मानवजाति के मूलपुरुष या दस प्रजापतियों के लिए प्रयुक्त हुआ है, परन्तु यह ‘बड़ा ऋषि’ के सामान्य अर्थ में भी प्रयुक्त होता है)"
महर्षिः
पुं*
महा-ऋषिः -
शिव का नाम
Wordnet
Sanskrit
Synonyms:
महर्षिः
noun
एकः रागः।
"श्रोतारः सङ्गीतज्ञं महर्षिं श्रावयितुं न्यवेदयन्।"
Synonyms:
महर्षिः
noun
श्रेष्ठः ऋषिः।
"स्वामी-दयानन्दस्य महर्षिः इति उपाधिः अपि अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
महर्षिः,
पुं,
(महांश्चासौ ऋषिश्चेति ।) व्यासादिः ।इति त्रिकाण्डशेषः
अस्य व्युत्पत्त्यादिर्यथा, --“ऋषिर्हिंसागतो धातुर्व्विद्यासत्यतपःश्रुतैः ।एष सन्निचयो यस्माद् ब्राह्मणश्च ततस्त्वृषिः
विवृत्तिसमकालन्तु बुद्ध्या व्यक्तिमृषिस्त्वयम् ।ऋषते परमं यस्मात् परमर्षिस्ततः स्मृतः
गत्यर्थादृषतेर्धातोर्नामनिर्वृतिकारणम् ।यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता
तेनेश्वराः स्वयम्भूता ब्रह्मणो मानसाः सुताः ।विवर्द्धमानैस्तैर्ब्बुद्ध्वा महान् परिगतः परः
यस्मादृषिः परत्वेन महांस्तस्मान्महर्षयः ।ईश्वराणां सुतास्तेषां मानसाश्चौरसाश्च वै
ऋषयस्तत्परत्वेन भूतादिऋषयस्ततः ।ऋषिपुत्त्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवात्
परत्वेनर्षयस्ते वै भूतादिऋषिकास्ततः ।ऋषीकाणां सुता ये वै विज्ञेया ऋषिपुत्त्रकाः
श्रुत्वा ऋषं परत्वेन नाम तस्मात् श्रुतर्षयः ।अव्यक्तात्मा महानात्माहङ्कारात्मा तथैव
भूतात्मा चेन्द्रियात्मा तेषान्तु ज्ञानमुच्यते ।इत्येवमृषिजात्यस्तु पञ्च तान् नामभिः शृणु
भृगुर्म्मरीचिरत्रिश्च अङ्गिराः पुलहः क्रतुः ।मनुर्द्दक्षो वशिष्ठश्च पुलस्त्यश्चेति ते दश
ब्रह्मणो मानसा ह्येते उत्पन्नाः स्वयमीश्वराः ।परत्वेनर्षयस्तस्माद्भूतास्तस्मान्महर्षयः
”इति मात्स्ये १२० अध्यायः