| YouTube Channel

महर्लोकः (maharlokaH)

 
शब्दकल्पद्रुमः
Sanskrit
महर्लोकः,
पुं,
(महश्चासौ लोकश्चेति कर्म्म-धारयः ।) भूरादिसप्तलोकान्तर्गतचतुर्थलोकः ।यथा, --“भूर्भुवः स्वर्म्महश्चैव जनश्च तप एव ।सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः
चतुर्मुखदिनस्यान्ते जगदेतच्चराचरम्
तदा हि दह्यते सर्व्वं त्रैलोक्यं भूर्भुवादिकम् ।जनं प्रयान्ति तापार्त्ता महर्लोकनिवासिनः
”इति वह्निपुराणम्
“चतुर्थे तु महर्लोके तिष्ठन्ते कल्पवासिनः
”इति देवीपुराणम्