| YouTube Channel

महत्तत्त्वं (mahattattvaM)

 
शब्दकल्पद्रुमः
Sanskrit
महत्तत्त्वं,
क्ली,
(महच्च तत् तत्त्वञ्चेति ।) चतु-र्विंशतितत्त्वान्तर्गतद्वितीयतत्त्वम् तत्तु प्रकृते-रुत्पन्नम् समष्टिबुद्धिस्वरूपम् तत्पर्य्यायः ।यथा, --“महानात्मा मतिर्व्विष्णुर्ज्जिष्णुः शम्भुश्च वीर्य्य-वान् ।बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः ।पर्य्यायवाचकैः शब्दैर्म्महानात्मा विभाव्यते ।तं जानन् ब्राह्मणो विद्वान् प्रमोहं नाधि-गच्छति
”इति महाभारते आश्वमेधिकपर्व्व
अपि ।“एका मूर्त्तिस्तयो भागा ब्रह्मविष्णुमहेश्वराः ।सविकारात् प्रधानात्तु महत्तत्त्वं प्रजायते
महानिति यतः ख्यातिर्लोकानां जायते सदा ।अहङ्कारश्च महतो जायते मानवर्द्धनः
”इति मात्स्ये अध्यायः