| YouTube Channel

महकः-हिका (mahakaH-hikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मह पूजायाम्”@} 2 अदन्तः, कथादिश्च।
‘महयेत् महतीत्येते पूजायां णौ शपि क्रमात्।’ 3 इति देवः।
4 महकः-हिका, मिमहयिषकः-षिका
महयिता-त्री, मिमहयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचहयतिवत् 5 बोध्यानि।
6 महः-मही, 7 मघवन्, इति रूपाणि विशेषेण भवन्ति इति ज्ञेयम्।
8 णमुलि महम् २, महयित्वा २, इत्येकमेव रूपम्।
प्रासङ्गिक्यः
01
=>
(१२३७)
02
=>
(१०-चुरादिः-१८६८। सक। सेट्। उभ।)
03
=>
(श्लो। १९६)
04
=>
[[५। अस्य धातोः अदन्तेषु पाठसामर्थ्यात् अल्लोपस्य स्थानिवद्भावेन णिच्परत्वा- भावात् ‘अत उपधायाः’ (७-२-११६) इति वृद्धिर्नेति ज्ञेयम्।]]
05
=>
(५१५)
06
=>
[[६। ‘पुंसि संज्ञायां घः--’ (३-३-११८) इति घप्रत्यये रूपमेवम्। स्त्रियां गौरादिपाठात् (४-१-४१) ङीषि मही इति सिद्ध्यति।]]
07
=>
[[७। ‘श्वन्नुक्षन्…’ (द। उ। ६-५५) इति कनिन्प्रत्यये घकारेऽन्तादेशे वुगागमे निपातिते रूपमेवम्।]]
08
=>
[पृष्ठम्१०१३+ २७]