मसूरिका (masUrikA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
Englishमसूरिका - masUrikA - - measles
मसूरिका - masUrikA - - lentil
मसूरिका - masUrikA - - mosquito-curtain
मसूरिका - masUrikA - - procuress
मसूरिका - masUrikA - - smallpox
मसूरिका - masUrikA - - eruption of lentil-shaped pustules
मसूरिका - masUrikA - - mosquito-curtain
नीशार - nIzAra - - mosquito curtains
चतुष्क - catuSka - - bed or mosquito-curtain
मशकहरी - mazakaharI - - bed-curtain for protection against mosquitoes
मसूरिका - masUrikA - - smallpox
सञ्चारिचुण्डिका - saJcAricuNDikA - - smallpox
पापरोग - pAparoga - - smallpox
मसूरी - masUrI - - kind of smallpox
मसूरिका masUrikA measles
खारी khArI quintal [ a measure of weight ]
मान mAna measure
मापनं करोति mApanaM karoti verb 8 measure
यव yava measure of length
प्रमाणक pramANaka measure
मात्रा mAtrA measure
निर्मा nirmA measure
परिमा parimA measure
मिति { मिति } miti { miti } measure
उन्मिति unmiti measure
परिच्छित्ति paricchitti measure
परिमिति parimiti measure
मानी mAnI measure
वाराही vArAhI measure
उन्मा unmA measure
प्रमा pramA measure
प्रतिमा pratimA measure
कर kara measure
कुम्भक kumbhaka measure
मसूरिका masUrikA measles
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishमसूरिका [masūrikā], 1 A kind of small-pox (erection of small pustules).
A mosquito-curtain.
A procuress, bawd.
Apte 1890
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiमसूरिका
- "मसूर + कन् + टाप्, इत्वस्"
"एक प्रकार का शीतला रोग, खसरा"
मसूरिका
- -
मसहरी
मसूरिका
- -
"कुट्टिनी, दूती"
Shabdartha Kaustubha
Kannadaमसूरिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸೊಳ್ಳೆಪದದೆ /ಸೊಳ್ಳೆತೆರೆ
प्रयोगाः - > "दंशाश्च मशकांश्चैव वर्षाकाले निवारयेत् । मसूरिकाभिः प्रावृत्त्य मञ्चशायिनमच्युतम् ॥"
उल्लेखाः - > पाद्मपु०
मसूरिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತಲೆಹಿಡಕಿ /ಕುಂಟ್ಲಗಿತ್ತಿ
मसूरिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಡುಕಡಲೆ
मसूरिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸಿಡುಬುರೋಗ
विस्तारः - > "मङ्गल्यं पृथुसूप्यश्च व्रीहिकङ्को मसूरिका" - वैज०
L R Vaidya
EnglishEdgerton Buddhist Hybrid
EnglishWordnet
Sanskrit कल्याणवीजः, कृष्णमसूरः, मसूरिका, मसरा, मसुरः
क्षुपविशेषः- यस्य बीजं द्विदलयुक्तं अस्ति तथा च यस्य आढकीं शाकरूपेण अत्ति।
"कृषकः कल्याणबीजं अवलूनाति।"
अर्जुनी, अर्वती, इज्या, भोज्या, मसूरिका, दूती, मासोपवासिनी, रतताली, विभावरी, वृद्धयुवतिः, माधवी, शम्फली, शम्बली, शम्भली, सङ्घाटिका, सञ्चारिका, सनाली, सम्भली, अक्का, कराला
कलहं कारयित्री।
"अर्जुन्याः वचनानि विश्वस्य सीता च गीता च कलहं कृतवत्यौ।"
मसूरिका, शीतला, रक्तवटी, वसन्तः, मसूरी, गुली, विस्फोटः, पापरोगः
रोगविशेषः, यस्मिन् दुष्टरक्तेन गोस्तनज-नरगात्रजेषु मसूरि-सदृश-पूयाः दृश्यन्ते।
"ग्रीष्मे मसूरिकायाः प्रकर्षेण प्रादुर्भावः भवति।"
शब्दकल्पद्रुमः
Sanskritमसूरिका, (मसूरेव । मसूरा + कन् । स्त्रियांटाप् । अत इत्वञ्च ।) कुट्टनी । इति शब्द-माला ॥
* ॥
वसन्तरोगः । तस्योत्पादनक्रियाटीका इति ख्याता । सा तु गोस्तनज-नर-गात्रज-मसूरिकापूयेन भवति । यथा, --“धेनुस्तन्यमसूरिका नराणाञ्च मसूरिका ।तज्जलं बाहुमूलाच्च शस्त्रान्तेन गृहीतवान् ॥
बाहुमूले च शस्त्राणि रक्तोत्पत्तिकराणि च ।तज्जलं रक्तमिलितं स्फोटकज्वरसम्भवम् ॥
”इति धन्वन्तरिकृतशाक्तेयग्रन्थः ॥
तत्पर्य्यायः । पापरोगः २ रक्तवटी ३ मसूरी४ । इति शब्दरत्नावली ॥
* ॥
अथ मसूरिका-धिकारः । “तत्र मसूरिकाविप्रकृष्टनिदान-पूर्व्विकां संप्राप्तिमाह ।‘कट्वम्ललवणक्षारविरुद्धाध्यशनाशनैः ।दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः ॥
क्रुद्धग्रहेक्षणाच्चापि देशे दोषाः समुद्भवाः ।जनयन्ति शरीरेऽस्मिन् दुष्टरक्तेन सङ्गताः ॥
मसूराकृतिसंस्थानाः पिडकाः स्युर्मसूरिकाः ॥
’क्षारो यवक्षारः । विरुद्धाध्यशनाशनैः कट्वा-दिविरुद्धान्तानामशनैः । अथ च अध्यशनाशनंअधिकमशनं अध्यशनम् । दुष्टनिष्पावशाकाद्यैःदुष्टैर्निष्पावशाकाद्यैः । आद्यशब्दान्मध्वालुकादितैः । प्रदुष्टपवनोदकैः सविषकुसुमादिसंसर्गात्क्रुद्धग्रहेक्षणाच्चापि देशे देशे क्रुद्धग्रहा राहु-शनैश्चरादयस्तेषामीक्षणाद्दृष्टेः यस्मिन् देशेक्रुद्धग्रहदृष्टिः तत्रापि मसूरिकोत्पत्तिरित्यर्थः ।मसूराकृतिसंस्थाना मसूरस्य या आकृति-स्तद्वत्संस्थानमाकृतिर्यासां ताः ॥
* ॥
अथपूर्व्वरूपमाह ।‘तासां पूर्व्वं ज्वरः कण्डुर्गात्रभङ्गोऽरतिर्भ्रमः ।त्वचि शोफः सवैवर्ण्यो नेत्ररागस्तथैव च ॥
’वातजामाह ।‘स्फोटाः कृष्णारुणा रूक्षास्तीव्रवेदनया-न्विताः ।कठिनाश्चिरपाकाश्च भवन्त्यनिलसम्भवाः ॥
‘सन्ध्यस्थिपर्व्वणां भेदः कासः कम्पोऽरतिर्भ्रमः ।शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता ॥
’पैत्तिकामाह ।‘रक्ताः पीताः सिताः स्फोटाः सदाहास्तीव्र-वेदनाः ।भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः ॥
‘विड्भेदश्चाङ्गमर्द्दश्च दाहस्तृष्णारुचिस्तथा ।मुखपाकोऽक्षिपाकश्च ज्वरस्तीव्रः सुदारुणः ॥
’रक्तजामाह ।‘रक्तजायां भवन्त्येते विकाराः पित्तलक्षणाः ॥
’अथ कफजामाह ।‘श्वेताः स्निग्धाः भृशं स्थूलाः कण्डुरा मन्द-वेदनाः ।मसूरिकाः कफोद्भूताश्चिरपाकाः प्रकीर्त्तिताः ॥
कफप्रसेकः स्तैमित्यं शिरोरुग्गात्रगौरवम् ।हृल्लासः सारुचिनिद्रा तन्द्रालस्यसमन्विताः ॥
’सान्निपातिकीमाह ।‘नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजः ।पूतिस्रावाश्चिरं पाकाः प्रभूताः सर्व्वदोषजाः ॥
’सप्तधातुगतामाह ।‘मसूरिकास्त्वचं प्राप्तास्तोयवुद्वुदसन्निभाः ।स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च ॥
’त्वचं प्राप्ताः त्वच्छब्देनात्र रस उच्यते रसा-श्रयत्वात् ॥
* ॥
रक्तस्थामाह ।‘रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः ।साध्या नात्यर्थदुष्टास्तु भिन्ना रक्तं स्रवन्ति च ॥
’साध्या रक्तस्था इत्यर्थः । नात्यर्थदुष्टास्तु अत्यर्थ-दुष्टशोणिताः पुनर्न साध्याः किन्तु कष्ट-साध्याः ॥
* ॥
मांसस्थामाह ।‘मांसस्थाः कठिनाः स्निग्धाश्चिरपाकास्तनु-त्वचः ।गात्रशूलानिशं कण्डूर्मूर्च्छादाहतृषान्विताः ॥
’मेदस्थामाह ।‘मेदोजा मण्डलाकारा मृदवः किञ्चिदुन्नताः ।घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः ।सम्मोहारतिसन्तापाः कश्चिदाभ्यो विनिस्तरेत् ॥
’अस्थिमज्जागते प्राह ।‘क्षुद्रा गात्रसमा रूक्षाश्चिपिटाः किञ्चिदुन्नताः ।भज्जस्था भृशसम्मोहवेदनारतिसंयुताः ॥
भ्रमरेणेव विद्धानि कुर्व्वन्त्यस्थीनि सर्व्वतः ।छिन्दन्ति मर्म्मधामानि प्राणानाशु हरन्ति ताः ॥
’गात्रसमाः गात्रतुल्यवर्णाः । चिपिटाः चिपि-टाकाराः । मज्जाग्रहणेनास्थ्नोऽपि ग्रहणंतदाधारत्वात् । अतएवाग्रे भ्रमरेणेव विद्धानिकुर्व्वन्त्यस्थीनि सर्व्वत इति । मर्म्मधामानिमर्म्मस्थानानि ॥
* ॥
शुक्रगतामाह ।‘पक्राभाः पिडकाः स्निग्धाः श्लक्ष्णाश्चात्यर्थ-वेदनाः ।स्तमित्यारतिसग्मोहदाहोन्मादसमन्विताः ॥
शुक्रगाया मसूर्य्यास्तु लक्षणानि भवन्ति हि ।निर्द्दिष्टं केवलं चिह्रं जीवनन्तु न दृश्यते ॥
’पक्वाभाः पक्वाकाराः न तु पक्वाः । श्लक्ष्णाःकोमलाः । निर्द्दिष्टं केवलं चिह्रं नत्वस्या-श्चिकित्सा युक्ता यतो जीवनं न दृश्यते ।सप्ताप्येता दोषहेतुं विना न भवन्ति । दोष-मन्तरेण रसादिदुष्टेरभावादित्यत आह ।‘दोषमिश्रास्तु सप्तैता द्रष्टव्या दोषलक्षणैः ॥
’चर्म्मजामाह ।कण्ठरोधारुची तन्द्रा प्रलापारतिसंयुताः ।दुश्चिकित्साः समुद्दिष्टाः पिडकाश्चर्म्मसंज्ञिताः ॥
’रोमान्तिकामाह ।‘रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः ।कासारोचकसंयुक्ता रोमाञ्चज्वरपूर्व्विकाः ॥
’साध्याः प्राह ।‘त्वगन्ता रक्तगाश्चैव पित्तजाः श्लेष्मजास्तथा ।श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः ।इमा विनापि क्रियया प्रशाम्यन्ति शरी-रिणाम् ॥
’त्वग्गता रसगताः ॥
* ॥
कष्टसाध्यतमाः प्राह ।‘वातजा वातपित्तोत्था वातश्लेष्मकृताश्च याः ।कष्टसाध्यतमास्तास्तु यत्नादेता उपाचरेत् ॥
’असाध्याः प्राह ।‘असाध्याः सन्निपातोत्थास्तासां वक्ष्यामिलक्षणम् ।प्रबालसदृशाः काश्चित् काश्चिज्जम्बुफलोपमा ।लोहजालसमाः काश्चिदतसीफलसन्निभाः ॥
आसां बहुविधा वर्णा जायन्ते दोषभेदतः ॥
’प्रबालसदृशा इत्यादि । आसां प्रबालजम्बुफल-लोहगुटिकातसीफलसादृश्यं वर्णेन । अनुक्त-वर्णसंग्रहार्थमाह । आसां बहुविधा वर्णाइति ॥
* ॥
अपराश्चासाध्याः प्राह ।‘कासो हिक्का प्रमोहश्च ज्वरस्तीव्रः सुदारुणः ।प्रलापारतिमूर्च्छाश्च तृष्णा दाहोऽतिघूर्णता ॥
’दाहस्थाने दौर्गन्ध्य इति च पाठः ।‘मुखेन प्रस्रवेद्रक्तं तथा व्राणेन चक्षुषा ।कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थदारुणम् ॥
मसूरिकाभिभूतस्य यस्यैतानि भिषग्वरैः ।लक्षणानीह दृश्यन्ते न दद्यात्तत्र भेषजम् ॥
’मसूरिकास्वरिष्टमाह ।‘मसूरिकाभिभूतो यो भृशं घ्राणेन निश्वसेत् ।स भृशं त्यजति प्राणान् तृष्णार्त्तो वायुदूषितः ॥
’वायुदूषितः अपतानकादिवातव्याधिदूषितः ॥
मसूरिकाहैतुकं शोथविशेषमाह ।‘मसूरिकान्ते शोथः स्यात् कूर्परे मणिबन्धके ।तयांसफलके वापि दुश्चिकित्सः सुदारुणः ॥
’दुश्चिकित्सः कष्टसाध्यः । दुःशब्दोऽत्र निषेधेतेनासाध्य इत्येके ।‘काश्चिद्विनापि यत्नेन सिध्यन्त्याशु मसूरिकाः ।दृष्टाः कृच्छ्रतराः काश्चित् काश्चित् सिध्यन्तिवा नवा ॥
काश्चिन्नैव तु सिध्यन्ति साध्यमानाः प्रयत्नतः ॥
’अथ मसूरिकायाश्चिकित्सा ।‘मसूरिकायां कुष्ठोक्ता लेपनादिक्रिया हिता ।पित्तश्लेष्मविसर्पोक्तक्रिया चात्र प्रशस्यते ॥
श्वेतचन्दनकल्कोक्तं हिलमोचीभवं द्रवम् ।पिबेन्मसूरिकारम्भे नैव वा केवलं रसम् ॥
’हिलमोचिका शाकविशेषः । हुरहुर इतिलोके ।‘द्बे पञ्चमूत्यौ रास्ना च धात्त्रुशीरं दुरालभा ।सामृतं धान्यकं मुस्तं जयेद्वातमसूरिकाम् ॥
मञ्जिष्ठा बहुपात्प्लक्षशिरीषोडुम्बरत्वचः ।वातजायां मसूर्य्यां स्यात् प्रलेपः सघृतो हितः ॥
’बहुपाद्वटः ।‘गुडूची मधुकं द्राक्षा मोरटं दाडिमैः सह ।पाककाले प्रदातव्यं भेषजं गुडसंयुतम् ॥
तेन कुप्यति नो वायुः पाकं यान्ति मसूरिकाः ।मसूरिकासु भुञ्जीत शालीन् मुद्गान् मसूर-कान् ॥
रसं मधुरमेवाद्यात् सैन्धवञ्चाल्पमात्रकम् ।पटोलमूलं क्वथितं मोरटं सुरसं तथा ॥
’पटोलमूलं क्वथितमित्यत्रं पटोलं कथितञ्चैवेतिवा पाठः ।‘आदावेंव मसूर्य्यान्तु पित्तजायां प्रयोजयेत् ।निम्बपर्पटकः पाठा पटोलश्चन्दनद्वयम् ॥
उशीरं कटुका धात्री तथा वासा दुरालभा ।एषां पानं शुभं शीतमुत्तमं शर्करान्वितम् ।मसूर्य्यां पित्तजायान्तु प्रयोक्तव्यं विजानता ॥
दाहे ज्वरे विसर्पे च व्रणे पित्ताधिकेऽपि च ।मसूर्य्यो रक्तजा नाशं यान्ति शोणितमोक्षणैः ॥
वासामुस्तकभूनिम्बत्रिफलेन्द्रयवासकम् ।पटोलारिष्टकं वापि क्वाथयित्वा समाक्षिकम् ।पिबेत्तेन प्रशाम्यन्ति मसूर्य्यः कफसम्भवाः ॥
’इन्द्रः इन्द्रयवः ॥
* ॥
‘शिरीषोडम्बरत्वग्भ्यां खदिरारिष्टजैर्जलैः ।कफोत्थासु मसूरीषु लेपः पित्तोत्थितासु च ॥
’ * ॥
निम्बपर्पटकः पाठा पटोलः कटुरोहिणी ।चन्दने द्वे उशीरञ्च धात्री वासा दुरालभा ॥
एष निम्बादिकः क्वाथः पीतः शर्करयान्वितः ।मसूरीं सर्व्वजां हन्ति ज्वरवीसर्पसंयुताम् ॥
* ॥
उत्थिता प्रविशेद् या च तां पुनर्ब्बाह्यतो नयेत् ।काञ्चनारस्त्वचः क्वाथस्ताप्यचूर्णावचूर्णितः ॥
’ताप्यं सुवर्णमाक्षिकम् ।‘घात्रीफलं समधुकं क्वथितं मधुसंयुतम् ।मुखे कण्ठे व्रणे जाते गण्डूषार्थं प्रशस्यते ॥
* ॥
अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना ।गवेधुर्गवेधुका । गवडुया इति लोके ।मधुकं त्रिफला मूर्व्वा दार्व्वी त्वक् नीलमुत्पलम् ।उशीरलोध्रमञ्जिष्ठा प्रलेपाश्चोतने हिताः ।नश्यन्त्यनेन दृगजाता मसूर्य्यो न भवन्ति च ॥
प्रलेपं चक्षुषोर्द्दद्याद्बहुवारस्य बल्कलैः ।पञ्चबल्कलचूर्णेन क्लेदिनीमवधूनयेत् ।भस्मना केचिदिच्छन्ति केचिद्गोमयरेणुना ॥
सुषवीपत्रनिर्यासं हरिद्राचूर्णसंयुतम् ।रोमजज्वरसंयुक्तव्रणानां शान्तये पिबेत् ॥
’निर्यासं द्रवम् ॥
* ॥
अथ मसूरिकाभेदस्यशीतलाया अधिकारः । तत्र शीतलाया रूप-माह ।‘देव्या शीतलयाक्रान्ता मसूर्य्येव हि शीतला ।ज्वर एव तथा भूताधिष्ठितो विषमज्वरः ।सा च सप्तविधा ख्याता तासां भेदान् प्रचक्षते ॥
ज्वरपूर्व्वा बृहत्स्फोटैः शीतला बृहती भवेत् ।सप्ताहान्निःसरत्येषा सप्ताहात् पूर्णतां व्रजेत् ॥
ततस्तृतीये सप्ताहे शुष्यति स्खलति स्वयम् ।तासां मध्ये यदा काचित् पाकं गत्वा स्फुटंस्रवेत् ॥
तत्रावधूननं कुर्य्याद्वनगोमयभस्मना ।निम्बसत्पत्रशाखाभिर्मक्षिकामपसारयेत् ॥
जलञ्च शीतलं दद्यात् ज्वरेऽपि न तु दापयेत् ।स्थापयेत्तं स्थले पूते रम्ये रहसि शीतले ॥
नाशुचिः संस्पृशेत्तन्तु न च तस्यान्तिकं व्रजेत् ।बहवो भिषजो नात्र भेषजं योजयन्ति हि ॥
केचित् प्रयोजयन्त्येव मतन्तेषामथ ब्रुवे ॥
* ॥
ये शीतलेन सलिलेन विपिष्य सम्यक्चिञ्चाजबीजसहितां रजनीं पिबन्ति ।तेषां भवन्ति न कदाचिदपीह देहेपीडाकरा जगति शीतलिका विकाराः ॥
मोचारसेन सहितं सितचन्दनेनवासारसेन मधुकं मधुकेन वाथ ।आदौ पिबन्ति सुमनाःस्वरसेन मिश्रंते नाप्नुवन्ति भुवि शीतलिकाविकारान् ॥
’मोचारसेन कदलीस्तम्भजलेन । मधुकेन वाथअथवा मधुना । आदौ पूर्व्वरूपे ज्वरागमन-मात्रे । सुमनाःस्वरसेन जातीपत्ररसेन ।‘शीतलासु क्रिया कार्य्या शीतला रक्षया सह ।बध्नीयान्निम्बपत्राणि परितो भवनान्तरे ॥
कदाचिदपि नो कार्य्यमुच्छिष्टस्य प्रवेशनम् ।स्फोटेष्वधिकदाहेषु रक्षारेणूत्करो हितः ॥
तेन ते शोषमायान्ति प्रपाकं न भजन्ति च ।रक्षारेणूत्करः शुष्कगोमयभस्मचूर्णतः ॥
चन्दनं वासको मुस्तं गुडूची द्राक्षया सह ।एषां शीतकषायस्तु शीतलाज्वरनाशनः ॥
’शीतकषायो हिमः ।‘जपहोमोपहारैश्च दानस्वस्त्ययनार्च्चनैः ।विप्रगोशम्भगौरीणां पूजनैस्तां समं नयेत् ॥
स्त्रोत्रञ्च शीतलादेव्याः पठेत् शीतलिनोऽन्तिके ।ब्राह्मणः श्रद्धया युक्तस्तेन शाम्यति शीतला ॥
स्कन्द उवाच ।भगवन् ! देवदेवेश ! शीतलायाः स्तवं शुभम् ।वक्तुमर्हस्यशेषेण विस्फोटकभयापहम् ॥
ईश्वर उवाच ।नमामि शीतलां देवीं रासभस्थां दिगम्बरीम् ।मार्जनीकलसोपेतां सूर्पालङ्कृतमस्तकाम् ॥
वन्देहं शीतलां देवीं सर्व्वरोगभयापहाम् ।यामासाद्य निवर्त्तेत विस्फोटकभयं महत् ॥
शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः ।विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥
यस्त्वामुदकमध्य तु धृत्वा संपूजयेन्नरः ।विस्फोटकभयं घोरं कुले तस्य न जायते ॥
शीतले ज्वरदग्धस्य पूतिगन्धगतस्य च ।प्रनष्टचक्षुषः पुंसस्त्वामाहु जींवनौषधम् ॥
शीतले तनुजान् रोगान् नृणां हरसि दुस्तरान् ।विस्फोटकविशीर्णानां त्वमेकामृतवर्षिणी ॥
गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम् ।त्वदनुध्यानमात्रेण शीतले यान्ति ते क्षयम् ॥
न मन्त्रो नौषधं किञ्चित् पापरोगस्य विद्यते ।त्वमेका शीतले ! त्रात्री नान्यां पश्यामि देव-ताम् ॥
मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् ।यस्त्वां विचिन्तयेद्देवों तस्य मृत्युर्न जायते ॥
अष्टकं शीतलादेव्या यः पठेन्मानवः सदा ।विस्फोटकभयं घोरं कुले तस्य न जायते ॥
श्रोतव्यं पठितव्यञ्च नरैर्भक्तिसमन्वितैः ।उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥
शीतलाष्टकमेतद्धि न देयं यस्य कस्यचित् ।दातव्यं हि सदा तस्मै भक्तिश्रद्धान्वितो हियः ॥
’इति श्रीस्कन्दपुराणे काशीखण्डे शीतलाष्टक-स्तोत्रं समाप्तम् ॥
” इति भावप्रकाशे मध्यखण्डेचतुर्थो भागः ॥
वाचस्पत्यम्
SanskritNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
