| YouTube Channel

मसिता-त्री (masitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मसी परिणामे”@} 2 परिणामः--विकारः।
‘-- परिमाणे’ इति कविकल्पद्रुम-माधवीयधातुवृत्त्योः पाठः।
‘समी--’ इति क्वचित् पाठः।
मासकः-सिका, मासकः-सिका, मिमसिषकः-षिका, मामसकः-सिका
मसिता-त्री, मासयिता-त्री, मिमसिषिता-त्री, मामसिता-त्री
इत्यादीनि समस्ता- न्यपि रूपाणि प्रातिस्विकरूपाणि विना भौवादिकग्रसतिवत् 3 ज्ञेयानि।
4 मस्तः-मस्तवान्, मस्तकम्, 5 मासः, 6 मस्यन्-न्ती-ती, 7 मः-मसौ-मसः, इतीमानि रूपाण्यस्मात् सम्भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२३३)
02
=>
(४-दिवादिः-१२२१। अक। सेट्। पर।)
03
=>
(४४०)
04
=>
[[४। ईदित्त्वात्, ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति निष्ठायामिण्निषेधे रूपमेवम्। निष्ठान्तात् संज्ञायां कन्प्रत्यये मस्तकम् इति भवति।]]
05
=>
[[५। मस्यते = परिमीयतेऽनेनेति मासः = त्रिंशद्दिनावधिकः कालविशेषः। एतच्च धातोरस्य परिमाणार्थकत्वे ज्ञेयम्। परिणामार्थकत्वे तु मस्यति = पदार्थान् परिणम- यतीत्यर्थे बाहुलकात् संज्ञायां घञि मासः इति सिद्ध्यति। मासूशब्दस्तु प्रकृत्यन्तरम्, नास्माद्धातोः सिद्धमिति ज्ञेयम्।]]
06
=>
[[६। शतरि दिवादित्वात् श्यनि रूपमेवम्।]]
07
=>
[[७। क्विपि धातुसकारस्य रुत्वे विसर्गे रूपमेवम्।]]