| YouTube Channel

मसकः (masakaH)

 
शब्दकल्पद्रुमः
Sanskrit
मसकः,
पुं,
(मस्यते परिमीयतेऽसौ मस +कर्म्मणि घः अल्पार्थे कन् ।) क्षुद्ररोग-विशेषः मासा इति लोके प्रसिद्धः तल्ल-क्षणं यथा, --“अवेदनं स्थिरञ्चैव यत्तु गात्रे प्रदृश्यते ।माषवत् कृष्णमुत्सन्नं मलिनं मसकं दिशेत्
”अवेदनं वेदनारहितम् स्थिरम् अचलम्
तच्चिकित्सा यथा, --“चर्म्मकीलं जतुमणिं मसकांस्तिर्लकालकान् ।उत्कृत्य शस्त्रेण दहेत् क्षाराग्निभ्याम-शेषतः
”इति भावप्रकाशः