| YouTube Channel

मव्ययितुम् (mavyayitum)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मव्य बन्धने”@} 2 मव्यकः-व्यिका, मव्यकः-मव्यिका, मिमव्यिषकः-षिका, 3 मामव्यकः-व्यिका
मव्यिता-त्री, मव्ययिता-त्री, मिमव्यिषिता-त्री, 4 मामविता-मामव्यिता-त्री
5 मव्यन्-न्ती, मव्ययन्-न्ती, मिमव्यिषन्-न्ती
-- -- मव्यिष्यन्-न्ती-ती, मव्ययिष्यन्-न्ती-ती, मिमव्यिषिष्यन्-न्ती-ती
-- व्यतिमव्यमानः, मव्ययमानः, व्यतिमिमव्यिषमाणः, मामव्य्यमानः-मामव्यमानः
व्यतिमव्यिष्यमाणः
मव्ययिष्यमाणः, व्यतिमिमव्यिषिष्यमाणः, मामव्यिष्यमाणः
6 मौः-मावौ-मावः
-- -- -- मव्यितम्-तः, मव्यितः, मिमव्यिषितः, मामव्यितः-तवान्
मव्यः, मव्यः, मिमव्यिषुः, मामव्यः
मव्यितव्यम्, मव्ययितव्यम्, मिमव्यिषितव्यम्, मामव्यितव्यम्
मव्यनीयम्, मव्यनीयम्, मिमव्यिषणीयम्, मामव्यनीयम्
7 मव्यम्-मव्य्यम्, मव्यम्, मिमविष्यम्, 8 मामव्य्यम्-मामव्यम्
9 ईषन्मव्यः-दुर्मव्यः-सुमव्यः
-- -- -- मव्यमानः-मव्य्यमानः, मव्यमानः, मिमव्यिष्यमाणः, मामव्य्यमानः
मव्यः, मव्यः, मिमव्यिषः, मामव्यः
मव्यितुम्, मव्ययितुम्, मिमव्यिषितुम्, मामव्यितुम्
10 मव्या, मव्यना, मिमव्यिषा, मामव्या
मव्यनम्, मव्यनम्, मिमव्यिषणम्, मामव्यनम्
मव्यित्वा, मव्ययित्वा, मिमव्यिषित्वा, मामव्यित्वा
प्रमव्य-प्रमव्य्य, प्रमव्य्य, प्रमिमव्यिष्य, प्रमामव्य-प्रमामव्य्य
मव्यम् २, मव्यित्वा २, मव्यम् २, मव्ययित्वा २, मिमव्यिषम् २, मिमव्यिषित्वा २, मामव्यम्
ममव्यित्वा
11 मवाका।
प्रासङ्गिक्यः
01
=>
(१२३०)
02
=>
(१-भ्वादिः-५०८। सक। सेट्। पर।)
03
=>
[[३। यङन्तात् ण्वुलि अल्लोपयलोपयो रूपमेवम्।]]
04
=>
[[४। यङन्तात् तृजादिषु अल्लोपयलोपयोः, ‘हलो यमां यमि लोषः’ (८-४-६४) इति यकारलोपे मामविता इति रूपम्। ‘हलो यमाम्--’ (८-४-६४) इति लोपस्य पाक्षिकत्वात्, तदभावे मामव्यिता इति रूपमिति ज्ञेयम्।]]
05
=>
[[B। ‘प्रम्लेवितं रेवितवत्समण्डलीं मव्यद्भिराभीरजनैरसूर्क्ष्यकैः।।’ धा। का। १। ६५।]]
06
=>
[[५। क्विपि, ‘लोपो व्योर्वलि’ (६-१-६६) इति धातुयकारलोपे धातुवकारस्य ऊठि, ‘एत्येधत्यूठूसु’ (६-१-८९) इति वृद्धौ रूपमेवम्।]]
07
=>
[[६। ण्यति, ‘हलो यमाम्--’ (८-४-६४) इति यलोपस्य पाक्षिकत्वाद्रूपद्वयम्। एवमेव यकि, ल्यपि रूपद्वयं ज्ञेयम्।]]
08
=>
[[७। यङन्तात् यत्प्रत्यये ‘हलो यमां यमि--’ (८-४-६४) इति लोपस्य वैकल्पिकत्वाद् रूपद्वयम्। एवमेव यकि, ल्यपि शानजन्तेऽपि ज्ञेयम्।]]
09
=>
[पृष्ठम्१००८+ २६]
10
=>
[[१। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्यये रूपमेवम्।]]
11
=>
[[२। ‘बलाकादयश्च’ (द। उ। ३। ३२) इति आकप्रत्यये यलोपे निपात्यते। मवाका = करेणुबन्धनम्।]]