| YouTube Channel

मव्य (mavya)

 
Wilson
English
मव्य r. 1st cl. (मव्यति) To bind, to tie.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मव्य्
मूलधातुः:
मव्य
धात्वर्थः:
बन्धने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मव्यति
धातुप्रदीपः
Sanskrit
मव्यँ मव्य बन्धने
- मव्यति ममव्य ।। 509 ।।
शब्दकल्पद्रुमः
Sanskrit
मव्य, बन्धे इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) मव्यति चौरं राजा यद्वया-न्तोऽयमित्येके इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
मव्य बन्धे
भ्वा०
पर०
सक०
सेट् मव्यति अमव्यीत्
क्षीरतरङ्गिणी
Sanskrit
मव्यँ मव्य बन्धने
- इतोऽवान्ता (1392) अष्टाशीतिः सेटः परस्मैपदिनश्च मव्यति मव्यः 500
धातुवृत्तिः
Sanskrit
मव्यँ मव्य (अर्थः) बन्धने
एतदादयो वन्यन्ता उदात्तेतः ( मव्यति ममव्य मव्यिता मव्यिप्यति मव्यु अमव्यत् 1 मव्येत् ) आशिषि ( मव्यात् ) "हलो यमां यतिम लोपः'' इति वायलोपः'' "(अमव्यीत्) "नेटि'' इति वृद्धिः "हम्यन्त'' इति वा, (मिमव्यिपति मामव्यते ) अत्र वृजादौ यदा "हलो यमाम्'' इति धातुयकारस्य लोपः, तदार्धधातुकमाश्रित्याल्लोपः, "यस्य हलः'' इति यङोपि लोपः (मामवितेत्यादि, ) यदा "हलो यमाम्'' हति भवति तदा पूर्ववद्यङोलोपे ( मामव्यितेत्यादि मामव्यीती मामति ) इडभावे "लोपो व्योर्वलि'' इति वयोर्लोपः (मामौतः) यलोपे वकारस्याङ्गात्परत्वाद्वलि लोपमपवादत्वाद्वाधित्वोठि वृद्धिः ( मामव्यति ) अद्भावो नित्यत्वाद्वलि लोपं बाधते ( मामव्यीति मामसि व्योर्लोपः मामौथः मार्माथ ) यलोपः ऊठि वृद्धिः (मामव्यीमि, मामौमि) अनुनासिकत्वादूठि वृद्धिः ( मामौवः) वोर्लोपः "अतो दीर्घो यञि'' इति दीर्घः (मामौमः मामव्यीतु मामतु मामौतात् मामौताम् मामव्यतु मामौहि मामौतात् मामौतम् मामौत मामव्यानि मामव्यव ) उत्वहित्वाभ्यां परत्वात्पूर्वमेव व्योर्लोपे पश्चात् "तु ह्मोः इति तातङि तदाश्रय उठ् नाशङ्नीयः पूर्वमेव वकारस्य लुप्तत्वात्, हेस्तु "अतोहेः'' इति लुक् उत्तमे नित्यत्वादाटि व्योर्लोपः ( अमामव्यीत् अमामौताम् अमामव्युः अमामः अमामव्यम् अमामाव अमामौम ) तिप्सिपोर्हल्ङ्यादिलोपादान्तरङ्गत्त्वात् द्वलिलोपः ज्ञिमिपोतुर्जुस्भावात्भावौ वलिलोपं नित्यत्वात्बाधेते वसि व्योर्लोपे "अतो दीर्घो यञि'' इति दीर्धः मसि यलोपेऽनुनासिकादित्वादूठि वृद्धिः ( मव्ययति अममव्यत् मव्यित्वा मव्यितः ) क्विपि "लोपो व्योर्वलि'' इति विधेयस्य लोपस्य पूर्वनिर्देशाद् वेरपृक्तलोपाद्वलिलोपस्य बलीयस्त्वस्य ज्ञापनादपृक्तलोपात् पूर्वं यकारस्य वलि लौपः, वकारस्य त्वपवादेनोठा बाधान्न भवतीति ऊङ्वृद्योर्मौः यथातु भाष्यं तथास्य यङ्लुगस्ति तच्च तेवातावुक्तमुपपादितं
अत्रापि शिष्यबोधाय प्रक्रियेयं प्रपञ्चिता यज्ञनारायणार्येण बुद्बातां भाष्यपारगैः 503
कृदन्तरूपमाला
Sanskrit
1 {@“मव्य बन्धने”@} 2 मव्यकः-व्यिका, मव्यकः-मव्यिका, मिमव्यिषकः-षिका, 3 मामव्यकः-व्यिका
मव्यिता-त्री, मव्ययिता-त्री, मिमव्यिषिता-त्री, 4 मामविता-मामव्यिता-त्री
5 मव्यन्-न्ती, मव्ययन्-न्ती, मिमव्यिषन्-न्ती
-- -- मव्यिष्यन्-न्ती-ती, मव्ययिष्यन्-न्ती-ती, मिमव्यिषिष्यन्-न्ती-ती
-- व्यतिमव्यमानः, मव्ययमानः, व्यतिमिमव्यिषमाणः, मामव्य्यमानः-मामव्यमानः
व्यतिमव्यिष्यमाणः
मव्ययिष्यमाणः, व्यतिमिमव्यिषिष्यमाणः, मामव्यिष्यमाणः
6 मौः-मावौ-मावः
-- -- -- मव्यितम्-तः, मव्यितः, मिमव्यिषितः, मामव्यितः-तवान्
मव्यः, मव्यः, मिमव्यिषुः, मामव्यः
मव्यितव्यम्, मव्ययितव्यम्, मिमव्यिषितव्यम्, मामव्यितव्यम्
मव्यनीयम्, मव्यनीयम्, मिमव्यिषणीयम्, मामव्यनीयम्
7 मव्यम्-मव्य्यम्, मव्यम्, मिमविष्यम्, 8 मामव्य्यम्-मामव्यम्
9 ईषन्मव्यः-दुर्मव्यः-सुमव्यः
-- -- -- मव्यमानः-मव्य्यमानः, मव्यमानः, मिमव्यिष्यमाणः, मामव्य्यमानः
मव्यः, मव्यः, मिमव्यिषः, मामव्यः
मव्यितुम्, मव्ययितुम्, मिमव्यिषितुम्, मामव्यितुम्
10 मव्या, मव्यना, मिमव्यिषा, मामव्या
मव्यनम्, मव्यनम्, मिमव्यिषणम्, मामव्यनम्
मव्यित्वा, मव्ययित्वा, मिमव्यिषित्वा, मामव्यित्वा
प्रमव्य-प्रमव्य्य, प्रमव्य्य, प्रमिमव्यिष्य, प्रमामव्य-प्रमामव्य्य
मव्यम् २, मव्यित्वा २, मव्यम् २, मव्ययित्वा २, मिमव्यिषम् २, मिमव्यिषित्वा २, मामव्यम्
ममव्यित्वा
11 मवाका।
प्रासङ्गिक्यः
01
=>
(१२३०)
02
=>
(१-भ्वादिः-५०८। सक। सेट्। पर।)
03
=>
[[३। यङन्तात् ण्वुलि अल्लोपयलोपयो रूपमेवम्।]]
04
=>
[[४। यङन्तात् तृजादिषु अल्लोपयलोपयोः, ‘हलो यमां यमि लोषः’ (८-४-६४) इति यकारलोपे मामविता इति रूपम्। ‘हलो यमाम्--’ (८-४-६४) इति लोपस्य पाक्षिकत्वात्, तदभावे मामव्यिता इति रूपमिति ज्ञेयम्।]]
05
=>
[[B। ‘प्रम्लेवितं रेवितवत्समण्डलीं मव्यद्भिराभीरजनैरसूर्क्ष्यकैः।।’ धा। का। १। ६५।]]
06
=>
[[५। क्विपि, ‘लोपो व्योर्वलि’ (६-१-६६) इति धातुयकारलोपे धातुवकारस्य ऊठि, ‘एत्येधत्यूठूसु’ (६-१-८९) इति वृद्धौ रूपमेवम्।]]
07
=>
[[६। ण्यति, ‘हलो यमाम्--’ (८-४-६४) इति यलोपस्य पाक्षिकत्वाद्रूपद्वयम्। एवमेव यकि, ल्यपि रूपद्वयं ज्ञेयम्।]]
08
=>
[[७। यङन्तात् यत्प्रत्यये ‘हलो यमां यमि--’ (८-४-६४) इति लोपस्य वैकल्पिकत्वाद् रूपद्वयम्। एवमेव यकि, ल्यपि शानजन्तेऽपि ज्ञेयम्।]]
09
=>
[पृष्ठम्१००८+ २६]
10
=>
[[१। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्यये रूपमेवम्।]]
11
=>
[[२। ‘बलाकादयश्च’ (द। उ। ३। ३२) इति आकप्रत्यये यलोपे निपात्यते। मवाका = करेणुबन्धनम्।]]