| YouTube Channel

मव (mava)

 
Wilson
English
मव r. 1st cl. (-मवति) To bind, to tie.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मव्
मूलधातुः:
मव
धात्वर्थः:
बन्धने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मवति
धातुप्रदीपः
Sanskrit
मवँ मव बन्धने
- मवति ममाव मेवतुः मेवुः मूः, मुवौ, मुवः ।यङ्लुगन्तात् क्विप्-मामूः ।। 599 ।।
शब्दकल्पद्रुमः
Sanskrit
मव, नहे इति कविकल्पद्रुमः
(भ्वा०-पर०-मक०-सेट् ।) नहो बन्धनम् मवति चौरंलोकः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
मव बन्धे
भ्वा०
पर०
सक०
सेट् मवति अमवीत् अमाकीत्
क्षीरतरङ्गिणी
Sanskrit
मवँ मव बन्धने
- ज्वरत्वरस्रिव्यविमवामुपधायाश्च (6420) इत्यूठ् मूः, मुवौ 584
धातुवृत्तिः
Sanskrit
मवँ मव (अर्थः) बन्धने
( मवति ममाव मेवतुः मविता अमवोत् अमावीत् ) "अतो हलादेः'' इति वा वृद्धिः ( मिमविषति मामव्यते मामवीति सामोति मामूतः मामवति मामोषि मामोमि मामावः मामूमः ) "ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च'' ज्वरादिनामुपधावकारयोः क्कौ ज्ञलादावनुनासिकादौ प्रत्यये परे ऊडित्यूडादेशे पिति गुणः मामवतीत्यत्र परत्वात् नित्यत्वात् अद्भावे ऽज्ञलादित्वं पर्यवसन्नमिति ऊण्न भवति मामावेतृयत्र वलि लोपे "अतो दीर्घो यञि'' इति दीर्घः "ज्वरत्वर'' इत्यत्र क्क चित् वृत्तिकारैः क्कौ ज्ञलादौ किङतीति पठ्यते तत्र किङ्द्ग्रहणं संपातायातम् अवतेस्तुन्योरिति दर्शनात्, तथा अनुनासिकादिग्रहणं चावश्यमत्रानुवर्त्यम् अवतेर्मनिन्प्रत्यये तस्य टिलोपे ओमिति दर्शनात् तथा "न धातुलोप'' इत्यत्र कैयटे आस्त्रेमाणमिति उपादाय छन्दसत्वाद्वकारस्य ऊण् भवतीत्युक्तम् ( मामोतु मामौतात् मामौहि मामवानि ) नित्यत्वादाटि अज्ञलादित्वं पर्यवसन्न्मित्यूडभावः लङि तिप्सिपोरूठि ( अमामोत् अमामोः ) मिपि नित्यत्वादम्भावे ( अवामवम् मावयति अमीमवत् ) वकारान्तानामूढ्भाविनां यङ्लुङ् नेति यदुक्तं तत् "च्छ्वोः''इति ऊढ्विषयं द्रष्टव्यम् क्किपि ( मूः, मुवौ ) 591
कृदन्तरूपमाला
Sanskrit
1 {@“मव बन्धने”@} 2 मावकः-विका, मावकः-विका, मिमविषकः-षिका, मामवकः-विका
मविता-त्री, मावयिता-त्री, मिमविषिता-त्री, मामविता-त्री
इत्यादीनि सर्वाणि रूपाणि विशेषरूपाणि विना भौवादिककसतिवत् 3 4 बोध्यानि।
क्विपि- 5स्रिव्यविमवामुपधायाश्च’ 6 इति उपधायाः वकारस्य स्थाने ऊठादेशे सवर्णदीर्घे विसर्गे रूपमेवम्।
एवं क्तिन्यपि ज्ञेयम्।]] मूः-मुवौ-मुवः, निष्ठायाम्- 7 मवितम्-तः-तवान्, मूतम्-मूतः-मूतवान्, क्तिनि 8 मूतिः
इमानि रूपाण्यस्य धातोः विशेषेण भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२२९)
02
=>
(१-भ्वादिः-५९९। सक। सेट्। पर।)
03
=>
[पृष्ठम्१००७+ २९]
04
=>
(१८०)
05
=>
[[१। क्वौ परतः ‘ज्वरत्वर[श्रि]
06
=>
(६-४-२०)
07
=>
[[२। धातोरस्य सेट्त्वात् मवितम् इति रूपम्। काशिकायां तु (६-४-२०) मूतम्-तः-तवान् इति दृश्यते।]]
08
=>
[[आ। ‘कृण्वन्तमाश्चर्यगतीरमूतिदं जगन्त्यवन्तं त्रिदशोपधावितम्।।’ धा। का। १। ७६।]]
Capeller
German
मव॑ unbesonnen, thöricht.