| YouTube Channel

मल्लिता-त्री (mallitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मल्ल धारणे”@} 2 मल्लकः-ल्लिका, मल्लकः-ल्लिका, मिमल्लिषकः-षिका, मामल्लकः-ल्लिका
मल्लिता-त्री, मल्लयिता-त्री, मिमल्लिषिता-त्री, मामल्लिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककड्डतिवत् 3 बोध्यानि।
4 मल्लिका, 5 6 मल्लकः, 7 मल्लमल्लम् इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१२२८)
02
=>
(१-भ्वादिः-४९४। सक। सेट्। आत्म।)
03
=>
(१५६)
04
=>
[[६। ‘संज्ञायाम्’ (३-३-१०९) इति संज्ञायां विषये स्त्रियां ण्वुलि रूपमेवम्। ‘मल्लिका तृणशून्येऽपि’ इति मेदिनी।]]
05
=>
[[आ। ‘मामल्यमानं स्मितमल्लिकावलीमाभाल्यदैत्याधिपभल्लनोद्धुरम्।’ धा। का। १। ६४।]]
06
=>
[[७। संज्ञायां क्वुन्प्रत्यये मल्लकः इति रूपम्।]]
07
=>
[[८। मलं मल्लते धार्यते इति मलमल्लम् = कौपीनम्। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]