| YouTube Channel

मल्लारः (mallAraH)

 
Apte
English
मल्लारः [mallārḥ],
N.
of one of the six Rāgas.
Apte 1890
English
मल्लारः N. of one of the six Rāgas.
शब्दकल्पद्रुमः
Sanskrit
मल्लारः,
पुं,
(मल्लं ऋच्छति प्राप्नोतीति +अण् ।) रागविशेषः तु षण्णां रागाणांमध्ये द्वितीयः यथा, --“आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः ।श्रीरागस्तस्य पश्चाद्वै वसन्तस्तदनन्तरम्
हिल्लोलश्चाथ कर्णाट एते रागाः प्रकी-र्त्तिताः
”अस्य षट्रागिण्यो यथा, --“वेलावली पूरवी कानडा माधवी तथा ।कोडा केदारिका चैव मल्लारस्य प्रिया इमाः
”अस्य गानसमयः ।“मेघमल्लाररागस्य गानं वर्षासु सर्व्वदा
”अस्य स्वरूपं यथा, --“शङ्खावदातं पलितं दधानःप्रलम्बकर्णः कुमुदेन्दुवर्णः ।कौपीनवासाः सविहारचारीमल्लाररागः शुचिशान्तमूर्त्तिः
”इति सङ्गीतदामोदरः
(तथा सङ्गीतदर्पणे रागाध्याये ।“भैरवः पञ्चमो नाटो मल्लारो गौडमालवः ।देशाख्यश्चेति षड्रागाः प्रोच्यते लोकविश्रुताः
”“मेघमल्लारिका मालकौशिकः पटमञ्जरी ।आशावरीति विज्ञेया रागा मल्लारसंश्रयाः
”इति रागार्णवमतम्
)