| YouTube Channel

मलिनं (malinaM)

 
शब्दकल्पद्रुमः
Sanskrit
मलिनं, त्रि, (मलते धारयतीति मल + “बहुल-मन्यत्रापि ।” उणा ४९ इति इनच् ।यद्वा, “ज्योत्स्नातमिस्रेति ।” ११४ ।इत्यत्र “मलशब्दादिनजीमसचौ प्रत्ययौनिपात्येते ।” इति काशिकोक्त्या इनच् ।)मलयुक्तवस्तु तत्पर्य्यायः मलीमसम् २कच्चरम् मलदूषितम् इत्यमरः ।५५
(यथा, महानिर्व्वाणतन्त्रे ४३ ।“परस्त्रीहरणे पापशङ्काभयविवर्ज्जिताः ।निर्धना मलिना दीना दरिद्राश्चिररोगिणः
”)दूषितम् (यथा, आर्य्यासप्तशत्याम् ४०२ ।“परपट इव रजकीभिर्मलिनो भुक्त्वापि निर्द्दयंताभिः ।अर्थग्रहणेन विना जघन्य ! मुक्तोऽसि कुल-टाभिः
”)कृष्णम् इति मेदिनी ने, १०४
नित्यनैमि-त्तिकक्रियात्यागी इति मार्कण्डेयपुराणम्
(निकृष्टम् यथा, शिशुपालवधे २३ ।“द्युतिमग्रहीद्ग्रहगणो लघवःप्रकटीभवन्ति मलिनाश्रयतः
”“मलिनाश्रयतः निकृष्टाश्रयणात् ।” इतितट्टीकायां मल्लिनाथः
)
मलिनं,
क्ली,
(मलते धरति दोषमिति मल +इनच् ।) घोलम् इति शब्दचन्द्रिका
दोषः ।इति हेमचन्द्रः
टङ्कणः इति राजनिर्घण्टः