| YouTube Channel

मलमास (malamAsa)

 
शब्दसागरः
English
मलमास
m.
(-सः) An intercalary month, in which any performance of
religious ceremonies is strictly prohibited in the Shāstras.
Spoken Sanskrit
English
मलमास malamAsa
m.
intercalated 13th month
मलमास malamAsa
m.
intercalary month
Monier Williams Cologne
English
मल—मास
m.
an intercalary month, an intercalated 13th (in which no religious ceremonies should be performed),
Cat.
&c.
Apte Hindi
Hindi
मलमासः
पुं*
मल-मासः -
अन्तरीय या लौंद का महीना (‘मलमास’ इसीलिए कहलाता है कि इस अधिक मास में कोई भी धार्मिक कृत्य नहीं किया जाता हैं)
Shabdartha Kaustubha
Kannada
मलमास
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಧಿಕಮಾಸ /ಸಂಕ್ರಮಣವಿಲ್ಲದ ಚಾಂದ್ರಮಾಸ /ಶೂನ್ಯಮಾಸ
व्युत्पत्तिः - > मलो दुष्टो मासः
विस्तारः - > ಎರಡು ಅಮಾವಾಸ್ಯೆಗಳ ಮಧ್ಯೆ ಸೂರ್ಯಸಂಕ್ರಮಣವು ಇಲ್ಲದ ಮಾಸವು ಮಲಮಾಸ. "अमावास्याद्वयं यत्र रविसङ्क्रान्तिवर्जितम् मलमासः विज्ञेयः"
L R Vaidya
English
mala-mAsa {% m. %} an intercalary month
(so called because no religious ceremonies can be performed in it).
Schmidt Nachtrage zum Sanskrit Worterbuch
German
मलमास m. "Schmutzmonat" [nicht mit pw "Schaltmonat"] Kauṭ. 108, 3 v.u. Vgl. J. J. Meyer, S. 167, Anm. 4. मलय् reiben, Haravijaya 7, 8. Vgl. मल्. मलय °love, °moon, Vās. 224, 3.
शब्दकल्पद्रुमः
Sanskrit
मलमासः,
पुं,
(मलो मलिनश्चासौ मासश्चेतिकर्म्मधारयः ।) अधिकमासः तत्पर्य्यायः ।मलिम्लुचः अधिमासः असंक्रान्तमासः ४नपुंसकः तस्य लक्षणं यथा रविसंक्रान्त्य-भावविशिष्टचान्द्रमासत्वं मलमासत्वम् इतिश्राद्धविवेकटीकायां श्रीकृष्णतर्कालङ्कारः
अपि ज्योतिषे ।“अमावस्याद्वयं यत्र रविसंक्रान्तिवर्ज्जितम् ।मलमासः विज्ञेयो विष्णुः स्वपिति कर्कटे
अमावस्याद्वयम् अमावस्याद्वयान्त्यक्षणद्वयम् ।रविसंक्रान्तिभ्यां रविक्रियोत्पत्तिरूपोत्तर-संयोगरूपाभ्यां यथाक्रमं वर्ज्जितं तेन दर्श-द्वयान्त्यक्षणद्वयपूर्व्वापरयोरेव रवेः क्रियोत्प-त्त्युत्तरसंयोगाभ्यां यथाक्रमं योगेनाधिमासः ।संक्रान्तेरेकक्षणे क्रियोत्पत्तिरपरक्षणे पूर्व्व-संयोगनाशः उत्तरसंयोगोत्पत्तिश्चेति क्षणद्वय-वृत्तित्वमिति मीमांसकसिद्धान्तात् गृह्यपरि-शिष्टज्योतिःपराशरौ ।रविणा लङ्घितो मासश्चान्द्रः ख्यातो मलि-म्लुचः ।तत्र यद्विहितं कर्म्म उत्तरे मासि कारयेत्
पराशरः ।पक्षद्वयेऽपि संक्रान्तिर्यदि स्यात् सितासिते ।तदा तन्मासविहितमुत्तरे मासि कारयेत्
अत्र लङ्घनमसंक्रमणञ्च रवेस्तदा भवति यदातन्मासतत्पूर्व्वमासान्त्यक्षणयोरेकराश्यवस्थितस्यरवेस्तन्मासानन्तरमेव राश्यन्तरसंयोगः नत्वेक-राशिस्थितस्य मासव्यापनमात्रं तथात्वे चतु-र्द्दश्यामेकराशौ संक्रान्तस्य प्रतिपत्प्रथमक्षणे-ऽपरराशौ तत्परराशौ द्वितीयायां प्रतिपदिवा रवेः संयोगेऽपरस्यापि मलमासता स्यात्अतएव ज्योतिषे ।अमावास्यापरिच्छिन्नं रविसंक्रान्तिवर्ज्जितम् ।मलमासं विजानीयाद्गर्हितं सर्व्वकर्म्मसु
तस्यार्को दर्शकश्चैकराशौ दर्शद्वयातिगः
अत्रैकराशिस्थार्कस्य दर्शद्बयातिगत्वमुक्तम्
एतच्च पूर्व्वोपदर्शितयोर्मासयोः पूर्व्वस्यैव सम्भ-वति परस्य
*
मलमासकारणन्तु ज्योतिषे ।दिवसस्य हरत्यर्कः षष्टिभागमृतौ ततः ।करोत्येकमहश्छेदं तथैवैकञ्च चन्द्रमाः
एवमर्द्धतृतीयानामब्दानामधिमासकम् ।ग्रीष्मे जनयतः पूर्व्वं पञ्चाब्दान्ते तु पश्चिमम्
तेन दिवसस्य तिथेः षष्टिभागं दण्डमेकं रवि-र्हरति छेदयति उत्तरे छेदमित्यभिधानात् ।ततश्च ऋतौ मासद्वये षष्टिनाडीच्छेदादह्न-स्तिथेश्छेदमाकर्षणं करोति एवं चन्द्रोऽपि ।एवमुक्तक्रमेण वर्षे द्वादशतिथ्यात्मककाला कर्षा-दर्द्धतृतीयानामब्दानामन्ते अर्द्धं तृतीयं येषांते तथा ग्रीष्मे माधवादिषट्के पूर्व्वं माधवादि-त्रिकपतितं पञ्चाब्दान्ते तु पश्चिमं श्रावणादि-त्रिकपतितं मलमासं चन्द्रार्कौ जनयतः ग्रीष्मेमाधवादिषट्के इति यदुक्तं तत् व्यक्तमाहमिहिरः ।माधवादिषु षट्केषु मासि दर्शद्बयं यदा ।द्विराषाढः विज्ञेयः शेते तु श्रावणेऽच्युतः
द्बिराषाढो द्बिराषाढादिः श्रावणे सौर-श्रावणे तथा ज्योतिषे ।मिथुनस्थो यदा भानुरमावस्याद्वयं स्पृशेत् ।द्विराषाढः विज्ञेयः विष्णुः स्वपिति कर्क्कटे
अमावस्याद्वयं तदन्त्यक्षणद्वयं स्पृशेत् संयुञ्ज्यात्न तन्मध्ये राश्यन्तरसंयोग इत्यर्थः
*
ननुकर्क्कटादित्रिके अधिमासपाते तत्पूर्व्वं मिथुनएव हरिशयनं तत् कथं माधवादिषट्कमात्रेकर्क्कटे तत् तत्राह राजमार्त्तण्डः ।कन्यासिंहकुलीरेषु यदा दर्शद्वयं भवेत् ।आगामिनि तदा वर्षे कुलीरे माधवः स्वपेत्
माधवादित्रिकश्रावणादित्रिकाधिमासविवेचन-मप्येतदर्थम् इदन्तु सार्द्धवर्षद्बयाधिमासपात-मौचित्यक्रमादुक्तं क्वचित्तिथीनां ह्रासबाहुल्येनदण्डषष्ट्यधिकन्यूनदर्शनादुक्तकालन्यूनाधिकका-लेऽपि मलमासो भवतीति समयप्रकाशकृत् ।वस्तुतस्तु वैपरीत्यं यतो न्यूनदण्डतिथेः प्रायि-कत्वे तत्र तिथिक्षयस्य झटित्युपलभ्यमानत्वात्स्वल्पकालेन तिथ्यन्तरसम्बन्धात् शीघ्रं रवि-लङ्घनप्रतीतेः शीघ्रमेव मलमासो भवतीतिअधिकदण्डतिथेः प्रायिकत्वे तत्र तिथिक्षयस्यझटित्यनुपलभ्यमानत्वेनाधिकेनैव कालेन तिथ्य-न्तरसम्बन्धात् विलम्बेनैव रविलङ्घनप्रतीतेश्चिरे-णैव मलमासो भवतीति तथा विष्णु-धर्म्मोत्तरम् ।सौरसंवत्सरस्यान्ते मानेन शशिजेन तु ।एकादशातिरिच्यन्ते दिनानि भृगुनन्दन !
समाद्वये साष्टमासे तस्मान्मासोऽतिरिच्यते ।स चाधिमासकः प्रोक्तः काम्यकर्म्मसु गर्हितः
इदन्तु नियतमेकस्मादधिमासात्तृतीयाब्दे अधि-मासान्तरमिति यद्यपि ।यां तिथिं समनुप्राप्य तुलां गच्छति भास्करः ।तयैव सर्व्वसंक्रान्तिर्यावन्मेषं गच्छति
इति राजमार्त्तण्डवचनात्तुलादिषण्मासे तिथि-वृद्ध्यभावाद्बर्षे द्बादशतिथिवृद्धिरनुपपन्ना-तथापि ।मध्ये विषुवतोर्भानुर्यान्यहानि तु वर्द्धयेत् ।तैः सम्भूयाधिको मासः पतत्येव त्रयोदशः
इति गृह्यपरिशिष्टवाक्ये विषुवतोर्मेषतुलासं-क्रान्त्योर्मध्ये मेषादिषण्मास एव तिथिवृद्धि-रुक्ता अहर्गणने मेषादिषण्मासे मन्दभुक्त्यासप्तदिनवृद्धिस्तुलादौ शीघ्रभुक्त्या दिनद्वयह्रासइति तथा ज्योतिःशास्त्रम् ।मेषादीनामहर्वृन्दं षण्णां सप्ताष्टचन्द्रकम् ।तुलादीनामष्टसप्तचन्द्रकन्तु लिखेत् पृथक्
चन्द्र एकः अङ्कस्य वामा गतिरित्यङ्कविदांसमयात् व्युत्क्रमेण अङ्का बोध्याः तेन दिन-वृद्धिक्रमसञ्चयाभ्यां मेषादिषट्क एव एका-दशादितिथिवृद्धिः एवञ्च ।गतेऽब्दद्वितये सार्द्धे पञ्चपक्षे दिनद्वये ।दिवसस्याष्टमे भागे पतत्येकोऽधिमासकः
इति राजमार्त्तण्डोक्तः सप्तदशदिनाधिकाष्ट-मासाधिकवर्षद्वये अधिमासः सौरे मासिसप्तदशदिनोत्तरं चान्द्रमासलङ्घनासम्भवात्सावनमानेन ज्ञेयः तथा विष्णुधर्म्मोत्तर-प्रथमकाण्डम् ।सौरेणाब्दस्तु मानेन यदा भवति भार्गव ! ।सावनेन मानेन दिनषट्कं प्रपूर्य्यते
सौरसंरत्सरे दिनषट्काधिकः सावनसंवत्सरोभवतीति सौरमासाष्टकाधिकवर्षद्वये सप्तदशदिनानि वर्द्धन्ते सावनक्रमेणेति पूर्व्वोक्तविष्णु-धर्म्मोत्तरोक्तसमानविषयतास्येति
“ज्योतिषे ।दर्शानां फाल्गुनादीनां प्रायो माघस्य चक्वचित् ।नपुंसकत्वं भवति पौषस्य कदाचन
नपुंसकत्वं मलमासत्वम् तथा चोक्तम् ।असंक्रान्तो हि यो मासः कदाचित्तिथि-वृद्धितः ।कालान्तरात् समायाति नपुंसक इष्यते
शाण्डिल्योऽपि ।प्रायशो शुभः सौम्यो ज्यैष्ठश्चाषाढकस्तथा ।मध्यमौ चैत्रवैशाखावधिकोऽन्यः सुभिक्षकृत्
सौम्यो मार्गशीर्षः अधिकोऽधिमासः
*
“तदयं संक्षेपः शुक्लप्रतिपदादिरमावास्यान्तोरविलङ्घितो मासो मलमासः माधवादौऔत्सर्गिकः कदाचित् कार्त्तिकादावपि अयञ्चा-निष्टकृत् माधवादि कार्त्तिकादिषट्कयोरपितल्लक्षणयोगे माधवादावेव तुलादिषट्क एवो-भयमासे तल्लक्षणयोगे पूर्व्व एव आश्विन-वैशाखयोस्तल्लक्षणयोगे पर एव मलमासःतद्भिन्नस्तु भानुलङ्घितः मलमासे आषाढा-देर्द्वित्वम् भानुलङ्घिते तु नैतदिति विस्तरः
*
मलमासे निषिद्धानि यथा, काठकगृह्यम् ।चूडां मौञ्जीबन्धनञ्च अग्न्याधेयं महालयम् ।राजाभिषेकं काम्यञ्च कुर्य्यादधिमासके
चूडां मौञ्जीबन्धनञ्च अग्न्याधेयं महालयम् ।राजाभिषेकं काम्यञ्च कुर्य्याद्भानु-लङ्घिते
महालयं कन्यार्कश्राद्धम् भीमपराक्रमेऽपि ।अधिमासे दिनपाते धनुषि रवौ भानुलङ्घितेमासि ।चक्रिणि सुप्ते कुर्य्यान्नो माङ्गल्यं विवाहञ्च
दिनपाते दिनक्षये ।अधिमासे विवाहं यात्रां चूडां तथोपनय-नादि ।कुर्य्यान्न सावकाशं माङ्गल्यं तु विशेषे-ज्याम्
इति
अत्र विवाहादिकीर्त्तनं निरवकाशत्वेऽपि निषे-धार्थम् अन्यथा सावकाशमित्यनेनैव सिद्धेः ।सावकाशञ्च सम्भवत्कालान्तरं कर्म्म अतोनिरवकाशस्यानन्यगतिकस्य प्रतिप्रसवोऽर्थात्सूचितः तथा मलमासाधिकारे काठक-गृह्यम् ।कालेऽनन्यगतिं नित्यां कुर्य्यान्नैमित्तिकींक्रियाम्
”इति मलमासतत्त्वम्
*
अपि ।“अग्न्याधानं प्रतिष्ठाञ्च यज्ञदानव्रतानि ।देवव्रतवृषोत्सर्गचूडाकरणमेखलाः ।माङ्गल्यमभिषेकञ्च मलमासे विवर्ज्जयेत्
”इति गारुडे १२८ अध्यायः
*
अथ मलमासकर्त्तव्यव्रतादि “चातुर्मास्यव्रत-माषाढाद्युल्लेखेन विहितं तदप्यारब्धं श्राव-णादिमलमासेऽपि कर्त्तव्यं आषाढादिप्रतिदिन-कर्त्तव्यत्वेन निरवकाशात् ।‘षष्ठ्या तु दिवसैर्मासः कथितो वादरायणैः
’इति ज्योतिःशास्त्रे पितामहेन एकमासत्वाभि-धानाच्च यच्च ।‘संवत्सरन्तु यः पूर्णमेकभक्तेन तिष्ठति ।’इत्यादौ माघाद्यनुल्लिखितसंवत्सरव्रतमारब्धंतन्मलमासेऽपि कर्त्तव्यम् ।‘क्वचित्त्रयोदशमासाः संवत्सर इति श्रुतेः
’यच्च प्रतिमासविहितं माघाद्युल्लेखेन तन्मल-मासेऽपि कर्त्तव्यम् तथा रम्भातृतीयाव्रतेशिवरहस्यम् ।‘मासे मलिम्लुचेऽप्येवं यजेद्देवीं सशङ्कराम् ।किन्तु नोद्यापनं कार्य्यमित्याह भगवान् शिवः
’उद्यापनं प्रतिष्ठा व्रतारम्भोऽपि निषिद्धः ।पूर्व्वोक्तकाश्यपवचनात् ज्यैष्ठादिमासविशेष-विहितं सावित्रीव्रतादिकन्तु सावकाशत्वान्मल-मासे कार्य्यम् किन्तु प्रकृत एव ज्यैष्ठादौकर्त्तव्यमिति बृहस्पतिः ।‘नित्यनैमित्तिके कुर्य्यात् प्रयतः सन् मलिम्लुचे ।तीर्थस्नानं गजच्छायां प्रेतश्राद्धं तथैव
’नित्यमहरहः पुरस्कारविहितं स्नानसन्ध्यापञ्च-महायज्ञादि काम्यमपि तथाविधं संकल्पितंयत्किञ्चिद्द्रव्यदानशिवपूजादि व्यक्तं भविष्ये ।‘कुर्य्यात् प्रात्यहिकं कर्म्म प्रयतः सन् मलिम्लुचे ।नैमित्तिकञ्च कुर्व्वीत सावकाशं यद्भवेत्
’कालमाधवीये मत्स्यपुराणम् ।‘वर्षे चाहरहः श्राद्धं दानञ्च प्रतिवासरम् ।गोभूतिलहिरण्यानां मासेऽसि स्यान्मलिम्लुचे
’काठकगृह्यपरिशिष्टम् ।‘प्रवृत्तं मलमासात् प्राक् यत् कर्म्म समा-पितम् ।आगते मलमासेऽपि तत् समाप्यमसंशयम्
’ब्रह्मसिद्धान्ते ।‘आरब्धं कर्म्म यत्किञ्चित्तत्कार्य्यं हि मलिम्लुचे
’नैमित्तिकं माससंवत्सरदिवसादिविशेषनियम-शून्यावश्यकर्त्तव्यकादाचित्कनिमित्तोत्पपन्नम्
जातकर्म्माद्यपि मलमासे कार्य्यम् ।‘जातकर्म्मान्त्यकर्म्माणि नवश्राद्धं तथैव ।मघात्रयोदशीश्राद्धं श्राद्धान्यपि षोडश
चन्द्रसूर्य्यग्रहे स्नानं दानश्राद्धक्रियादिकम् ।कार्य्यं तम्मलमासेऽपि नित्यं नैमित्तिकं तथा
’स्मृतिः ।‘श्राद्धजातकनामानि ये संस्कारमाश्रिताः ।मलिम्लुचेऽपि कर्त्तव्याः काम्या इष्टीश्च वर्ज्जयेत्
’संस्कारा अन्नप्राशननिष्क्रमणादयः इतिमाधवाचार्य्यः अन्त्यकर्म्माणि वहनदहनोदक-दानपिण्डदानास्थिसञ्चयादीनि नवश्राद्धम् ।‘चतुर्थे पञ्चमे चैव नवमैकादशे तथा ।यदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते
’इति यमोक्तम्
अत्र चतुर्थाहादिग्रहणं मरणदिनावधीति ।बालग्रहभूतग्रहनराधिपप्रबलशत्रुदुःसहरोगा-भिभवाद्भुतदुःस्वप्नग्रहदौस्थ्यादिनिमित्तं शान्ति-कर्म्मापि मलमासेऽपि कर्त्तव्यम् विष्णुनाशान्तिस्वस्त्ययनैर्दैवोपघातान् शमयेत् पर-चक्रोपघातांश्च इत्युक्तम् ।” इति मलमास-तत्त्वम्
वाचस्पत्यम्
Sanskrit
मलमास
पु०
मलो दुष्टो मासः “अमावस्याद्वयं यत्र रवि-संक्रान्तिवर्जितम् मलमासः विज्ञेयः” इत्युक्ते रवि-संक्रान्तिशून्ये शुक्लप्रतिपदादिदर्शान्तरूपे चान्द्रे मासे ।अधिमासशब्दे १३१ पृ० दृश्यम्