| YouTube Channel

मर्म्म (marmma)

 
शब्दकल्पद्रुमः
Sanskrit
मर्म्म, [न्]
क्ली,
(मृ + “सर्व्वधातुभ्यो मनिन् ।”उणा १४४ इति मनिन् ।) स्वरूपम् ।तत्त्वम् यथा, नैषधे ।“मृगया विगीयते नृपै-रपि धर्म्मागममर्म्मपारगैः ।स्मरसुन्दर ! मां यदत्यजस्तव धर्म्मः सदयो दयोज्ज्वलः
”सन्धिस्थानम् इति लिङ्गादिसंग्रहे अमर-भरतौ
जीवस्थानम् इति राजनिर्घण्टः
*
अथ मर्म्माणि ।“सन्निपातः शिरास्नायुसन्धिमांसास्थिसम्भवः ।मर्म्माणि तेषु तिष्ठन्ति प्राणाः खलु विशेषतः
सप्तोत्तरं शतं सन्ति देहे मर्म्माणि देहिनाम् ।तान्येकादश मांसे स्युरष्टावस्थिषु सन्ति हि
सन्धीनां विंशतिस्तानि स्नायूनां सप्तविंशतिः ।चत्वारिंशत्तथैकञ्च शिरामर्म्माणि तत्र तु
द्वाविंशतिः सक्थियुगे तावन्त्येव भुजद्वये ।द्बादशोरसि कुक्षौ पृष्ठदेशे चतुर्द्दश
ग्रीवाया ऊर्द्ध्वभागे तु सप्तत्रिंशन्मतानि हि
मर्म्माणि तानि सन्ति पञ्चधा भवन्ति ।तान्याह ।सद्यःप्राणहराणि स्युर्मर्म्माण्येकोनविंशतिः ।मर्म्मदेशास्त्रयस्त्रिंशत् स्युः कालान्तरमारकाः
चत्वारिंशच्च चत्वारि वैकल्यं जनयन्ति हि ।मर्म्माष्टकं रुजाकारि विशल्यघ्नं त्रिकं मतम्
शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठसिरागुदम् ।हृदयं वस्तिनाभ्यौ सद्यो घ्नन्ति हतानि चेत्
शृङ्गाटकानि घ्राणश्रोत्राक्षिजिह्वासन्तर्पकाणांशिरामुखानां शिरसो मध्ये संयोगस्थानं तानिचत्वारि शिरामर्म्माणि चतुरङ्गुलप्रमाणानिहतानि सन्ति सद्योमारकाणि अधिपतिः ।मस्तकस्याभ्यन्तरे सन्धिसिरयोः सन्निपातउपरिष्टाद्रोमावर्त्तः एकः सन्धिमर्मेदं अर्द्धा-ङ्गुलप्रमाणं सद्योमारकम् शङ्खौ भ्रुवोरन्तोपरिकर्णललाटमध्ये ते द्वे अस्थिमर्म्मणी अर्द्धा-ङ्गुले सद्योमारके कण्ठशिराः मातृकाःग्रीवाया उभयपार्श्वयोश्चतस्रश्चतस्रः शिरास्ताअष्टौ शिरामर्म्माणि चतुरङ्गुलानि सद्योमार-काणि गुदं प्रसिद्धमेकं मांसमर्म्म चतुरङ्गुलंसद्योमारकम् हृदयं स्तनयोर्म्मध्यमामाशय-द्वारमेकं शिरामर्म्म चतुरङ्गुलं सद्योमारकम् ।वस्तिः नाभिपृष्ठकटीमुष्कगुदवङ्क्षणसेफसां मध्येवस्तिस्तनूत्वक् एकद्वारो ह्यधोमुखः स्नायुःमर्म्मेदं चतुरङ्गुलं सद्योमारकम् नाभिःप्रसिद्धा सिरामर्म्मेदं चतुरङ्गुलं सद्योमारकम्
वक्षोमर्म्माणि सीमन्तास्तलक्षिप्रेन्द्रवस्तयः ।बृहत्यौ पार्श्वजौ सन्धी कटीकतरुणे ये ।नितम्बाविति चैतानि कालान्तरहराणि तु
वक्षोमर्म्माणि स्तनमूलस्तनरोहितापलापाप-स्तम्बाः स्तनमूले स्तनयोरघस्ताद्द्व्यङ्गुलं यावत् द्वेशिरामर्म्मणी द्व्यङ्गुले कफपूर्णकोष्ठतया काला-न्तरमारके स्तनरोहिते स्तनयोरुपरि द्व्यङ्गुलंयावत् द्वे मांसमर्म्मणी रक्तपूरितकोष्ठतयाकालान्तरमारके अपलापौ अंशकूटयोरध-स्तात् पार्श्वयोरुपरि द्वौ शिरामर्म्मणी अर्द्धाङ्गुलेरक्तेन पूयताङ्गते कालान्तरमारके अप-स्तम्बौ उरस उभयतो नाड्यौ वातवहे शिरा-मर्म्मणी अर्द्धाङ्गुले वातपूर्णकोष्ठतया कासश्वा-साभ्याञ्च कालान्तरमारके सीमन्ताः शिरसिपञ्च सन्धयः सन्धिमर्म्माणि चतुरङ्गुलानि उन्माद-भयचित्तविनाशैः कालान्तरमारकानि तलानिमध्याङ्गुलिमनुक्रम्य हस्तभध्यं तलं एवमपरस्यहस्तस्य पादयोश्च चत्वारि तलानि मांसमर्म्मा-एयर्द्धाङ्गुलानि रुजाभिः कालान्तरमारकाणि ।क्षिप्राणि अङ्गुष्ठाङ्गुल्योर्म्मध्यं क्षिप्रं तच्च हस्त-योर्द्वे पादयोर्द्वे एवञ्चत्वारि स्नायुमर्म्माण्यर्द्धाङ्गु-लान्याक्षेपकेण कालान्तरमारकाणि इन्द्र-वस्तयः प्रकोष्ठयोर्म्मध्ये द्वे जङ्घयोर्म्मध्ये द्वे एवंचत्वारि मांसमर्म्माणि द्व्यङ्गुलानि शोणितक्षयेणकालान्तरमारकाणि बृहत्यौ स्तनमूला-दुभयतः पृष्ठवंशं यावत् शिरामर्म्मणी अर्द्धाङ्गुलेशोणितातिप्रवृत्तिनिमित्तैरुपद्रवैः कालान्तर-मारके पार्श्वसन्धी जघनपार्श्वयोः सन्धी शिरा-मर्म्मणी अर्द्धाङ्गुले शोणितपूर्णकोष्ठतया काला-न्तरमारके कटीकतरुणे त्रिकसन्निधाने उभ-यतः श्रोणिकाण्डं लक्षीकृत्यास्थिनी अस्थि-मर्म्मणी अर्द्धाङ्गुले शोणितक्षयात् पाण्डुविवर्ण-रूपं कृत्वा कालान्तरमारके नितम्बौ प्रसिद्धौ ।द्वे अस्थिमर्म्मणी अर्द्धाङ्गुले अधःकायशोषेणदौर्ब्बल्येन कालान्तरमारके
*
लोहिताक्षाणिजानूर्व्वीकूर्च्चाविटपकूर्पराः ।कुकुन्दरे कक्षधरे विधुरे सकृकाटिके
अंसांसफलकापाङ्गा नीले मन्ये फणे तथा ।वैकल्यकारकाण्याहुरावर्त्तौ द्वौ तथैव
लोहिताक्षाणि ऊर्व्व्योरूर्द्ध्वमधोवङ्क्षणसन्धेर्लोहि-ताक्षं तच्च द्वे बाह्वोर्द्बे ऊर्व्वोरेवं तानि चत्वारिशिरामर्म्माण्यर्द्धाङ्गुलानि वैकल्यकारकाणितत्र शोणितक्षयेण पक्षाघातः सक्थिसादोवा आणयः जानुन ऊर्द्धमुभयोः पार्श्वयो-र्द्व्यङ्गुला एकस्मिन् जानुनि द्वे अपरस्मिन् द्वेएवं चतस्रः स्नायुमर्म्माण्यर्द्धाङ्गुला वैकल्यकर्य्यःतत्र शोथाभिवृद्धिः सक्थिस्तम्भश्च जानुनीजङ्घोर्व्व्योः सन्धी सन्धिमर्म्मणी द्व्यङ्गुले वैकल्य-करे तत्र खञ्जता ऊर्व्व्योः द्वे ऊर्व्वोर्म्मध्ये द्वेप्रगण्डयोर्म्मध्ये एवं चतस्रः सिरामर्म्माण्येका-ङ्गुला वैकल्यकर्य्यः तत्र शोणितक्षयात् सक्थि-शोषः कूर्च्चाः पादयोरङ्गुष्ठाङ्गुल्योर्म्मध्ये तयो-रूर्द्ध्वमधश्च एवं चत्वारः स्नायुमर्म्माणि वैकल्य-कराणि तत्र पादयोर्भ्रमणवेपने भवतः विटपेद्वे वङ्क्षणवृषणयोर्म्मध्ये स्नायुमर्म्मणी एकाङ्गुलेवैकल्यकरे तत्र षाण्ड्यमल्पशुक्रता वा कूर्परौकफोणी तौ द्वौ सन्धिमर्म्मणी द्व्यङ्गुलौ वैकल्य-करौ तत्र बाहुमध्ये सङ्कोचः कुकुन्दरेनितम्बकूपके द्वे सन्धिमर्म्मणी अर्द्धाङ्गुलेवैकल्यकरे तत्र स्पर्शाज्ञानमधःकाये चेष्टोप-घातश्च कक्षधरे वक्षःकक्षयोर्म्मध्ये द्वे स्नायु-मर्म्मणी एकाङ्गुले वैकल्यकरे तत्र पक्षाघातः ।विधुरे कर्णपृष्ठतोऽधःसंश्रिते किञ्चिन्निम्नाकारेद्वे स्नायुमर्म्मणी अर्द्दाङ्गुले वैकल्यकरे तत्रवाधिर्य्यम् कृकाटिके शिरोग्रीवयोरुभयतःसन्धी द्वे सन्धिमर्म्मणी अर्द्धाङ्गुले वैकल्यकरे तत्रशिरःकम्पः अंसौ स्कन्धौ स्नायुमर्म्मणी अर्द्धा-ङ्गुलौ वैकल्यकरौ तत्र बाहुस्तम्भः अंस-फलके पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसम्बन्धेग्रीवाया अंसद्बयस्य संयोगो यत्र तत्त्रिकंअस्थिमर्म्मणी अर्द्धाङ्गुले वैकल्यकरे तत्र बाह्वोःशून्यता शोषश्च अपाङ्गौ नेत्रयोरन्तौ सिरा-मर्म्मणी अर्द्धाङ्गुलौ वैकल्यकरौ तत्रान्ध्यं दृष्ट्युप-घातो वा नीले मन्ये कण्ठनाडीमुभयतश्च-तस्रो धमन्यो द्वे नीले द्वे मन्ये तत्र एका नीलाएका मन्या एकस्मिन् पार्श्वे अन्या मन्या अन्यानीला अपरस्मिन् पार्श्वे द्वे द्वे शिरामर्म्मणीद्व्यङ्गुले द्व्यङ्गुले वैकल्यकरे तत्र मूकता विकृत-स्वरता रसाग्राहिता फणे घ्राणमार्गमुभ-यतः अभ्यन्तरे सिरामर्म्मणी अर्द्धाङ्गुले वैकल्य-करे तत्र गन्धाज्ञानम् आवर्त्तौ भ्रुवोरुपरिनिम्नयोः सन्धिमर्म्मणी अर्द्धाङ्गुलौ वैकल्यकरौतत्राप्यान्ध्यं दृष्ट्युपघातो वा
*
गुल्फौ द्वौ मणिबन्धौ द्वौ तथा कूर्च्चशिरांसिच ।रुजाकराणि जानीयादष्टावेतानि बुद्धिमान्
गुल्फौ घुटिके सन्धिमर्म्मणी द्व्यङ्गुलौ रुजा-करौ तत्र रुजा पादस्तम्भः खञ्जता वा मणि-बन्धौ हस्तप्रकोष्ठसन्धी सन्धिमर्म्मणी द्व्यङ्गुलौरुजाकरौ तत्र हस्तयोः क्रियाराहित्यम् ।कूर्च्चशिरांसि गुल्फसन्धेरध उभयतः एकस्मिन्पादे द्वे द्वे द्वितीये एवं चत्वारि स्नायु-मर्म्माण्येकाङ्गुलानि रुजाकराणि तत्र रुजाशोफश्च
*
विशल्यघ्नानि ।उत्क्षेपौ स्थापनी चैव विशल्यघ्नं त्रिकं मतम् ।उत्क्षेपौ शङ्खयोरुपरि केशान् यावत् स्नायु-मर्म्मणी अर्द्धाङ्गुलौ तयोर्विद्धयोः सशल्योजीवेत् पाकात् पतितशल्यो वा उद्धृतशल्यस्तुम्रियेत अतएव विशल्यमुद्धृतशल्यं हन्तीतिविशल्यघ्नं मर्म्म स्थापनी एका भ्रुवोर्म्मध्येसिरामर्म्मेदमर्द्धाङ्गुलं विशल्यघ्नम् ।सप्तरात्रान्तरे हन्युः सद्यः प्राणहराणि हि ।कालान्तरप्राणहरं पक्षे मासे मारकम्
सद्यःप्राणहरं चान्ते विद्धं कालेन मारयेत् ।कालान्तरप्राणहरमन्ते विद्धन्तु दुःखदम्
अन्ते मर्म्मसमीपे ।मर्म्माण्यधिष्ठाय हि ये विकारामूर्च्छन्ति काये विविधा नराणाम् ।प्रायेण ते कृच्छ्रतमा भवन्तिवैद्येन यत्नैरपि साध्यमानाः
”इति भावप्रकाशः
*
मर्म्मस्पर्शनिषेधो यथा, --“परक्षेत्रे गां चरन्तीं चाचक्षीत कस्यचित् ।न संवसेत् सूतके कं वै मर्म्मणि स्पृशेत्
”इति कूर्म्मपुराणे उपविभागे १५ अध्यायः
(“सप्तोत्तरं मर्म्मशतम् तानि मर्म्माणिपञ्चात्मकानि तद्यथा मांसमर्म्माणि सिरा-मर्म्माणि स्नायुमर्म्माणि अस्थिमर्म्माणि ।सन्धिमर्म्माणि चेति खलु मांससिरा-स्नाय्वस्थिसन्धिव्यतिरेकेणान्यानि मर्म्माणिभवन्ति यस्यान्योपलभ्यन्ते
तत्रैकादशमांस-मर्म्माणि एकचत्वारिंशत्सिरामर्म्माणि ।सप्तविंशतिः स्नायुमर्म्माणि अष्टावस्थि-मर्म्माणि विंशतिः सन्धिमर्म्माणि तदेतत्सप्तोत्तरं मर्म्मशतम्
इति सुश्रुते शारीर-स्थाने षष्ठेऽध्याये
)