| YouTube Channel

मर्दकः-र्दिका (mardakaH-rdikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मृद क्षोदे”@} 2 3 क्वचित् सिद्धान्तकौमुद्यां ‘मृद मर्दने’ इति भ्वादिष्वपि 4 पठ्यते।
वस्तुतस्तत्र ‘म्रद्--’ इति भाव्यम् इत्याशयेनास्माभिर्नायं विलिखित इति ज्ञेयम्।]] ‘क्षोदनम् = सञ्चूर्णनम्’ इति धा।
का।
5।
मर्दकः-र्दिका, मर्दकः-र्दिका, मिमर्दिषकः-षिका, मरीमृदकः-दिका
मर्दिता-त्री, मर्दयिता-त्री, मिमर्दिषिता-त्री, मरीमृदिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकतृपतिवत् 6 ज्ञेयानि।
क्विपि- 7 मृत्-मृद्-मृदौ-मृदः, 8 मृत्तिका, मृत्सा-मृत्स्ना, 9 मुरमर्दनः, मर्दनम्, 10 मृद्यः, 11 महिषासुरमर्दनी, 12 मृदित्वा, 13 मृदङ्गः, इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१३०७)
02
=>
(९-क्र्यादिः-१५१५। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(७६७)
05
=>
(३-१०)
06
=>
(७७२)
07
=>
[पृष्ठम्१०५३+ २९]
08
=>
[[१। ‘मृदस्तिकन्’ (५-४-३९) इति मृच्छब्दात् स्वार्थे तिकन्प्रत्यये रूपमेवम्।]]
09
=>
[[२। नन्द्यादेः (३-१-१३४) आकृतिगणत्वात् कर्तरि ल्युप्रत्ययः। मुरं मर्दयतीति मुरमर्दनः।]]
10
=>
[[३। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्प्रत्ययः।]]
11
=>
[[४। बाहुलकात् ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति कर्मण्युपपदे कर्तरि ल्युटि, स्त्रियां टित्त्वात् ङीपि रूपमेवम्।]]
12
=>
[[५। ‘मृडमृद--’ (१-२-७) इति सेटः क्त्वायाः कित्त्वात् गुणनिषेधे रूपमेवम्।]]
13
=>
[[६। ‘विडादिभ्यः कित्’ (द। उ। ३-६१) इति अङ्गच्प्रत्ययः। मृदङ्गः = वाद्यविशेषः।]]