| YouTube Channel

मरुसम्भवं (marusambhavaM)

 
शब्दकल्पद्रुमः
Sanskrit
मरुसम्भवं,
क्ली,
(मरुः सम्भव उत्पत्तिस्थानमस्य ।)चाणक्यमूलकम् इति राजनिर्घण्टः
(पर्य्यायोऽस्य यथा, --“मूलकं द्विविधं प्रोक्तं तत्रैकं लघुमूलकम् ।शालमर्कटकं विप्रं शालयं मरुसम्भवम्
चाणक्यमूलकं तीक्ष्णं तथा मूलकपोतिका ।नेपालमूलकञ्चान्यत् तद्भवेद्गजदन्तवत्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)