| YouTube Channel

मरुत्वान् (marutvAn)

 
Wordnet
Sanskrit
Synonyms:
इन्द्रः, देवराजः, जयन्तः, ऋषभः, मीढ्वान्, मरुत्वान्, मघवा, विडोजा, पाकशासनः, वृद्धश्रवाः, सुनासीरः, पुरुहूतः, पुरन्दरः, जिष्णुः, लेखर्षभः, शक्रः, शतमन्युः, दिवस्पतिः, सुत्रामा, गोत्रभित्, वज्री, वासवः, वृत्रहा, वृषा, वास्तोस्पतिः, सुरपतिः, बलारातिः, शचीपतिः, जम्भभेदी, हरिहयः, स्वाराट्, नमुचिसूदनः, संक्रन्दनः, दुश्च्यवनः, तुराषाट्, मेघवाहनः, आखण्डलः, सहस्त्राक्षः, ऋभुक्षा, महेन्द्रः, कोशिकः, पूतक्रतुः, विश्वम्भरः, हरिः, पुरुदंशा, शतधृतिः, पृतनाषाड्, अहिद्विषः, वज्रपाणिः, देवराजः, पर्वतारिः, पर्यण्यः, देवताधिपः, नाकनाथः, पूर्वदिक्कपतिः, पुलोमारिः, अर्हः, प्रचीनवर्हिः, तपस्तक्षः, बिडौजाः, अर्कः, उलूकः, कविः, कौशिकः, जिष्णुः
noun
सा देवता या स्वर्गस्य अधिपतिः इति मन्यते।
"वेदेषु इन्द्रस्य सूक्तानि सन्ति।"
पुराणम्
English
मरुत्वान् / MARUTVĀN. See under marutvatī.
शब्दकल्पद्रुमः
Sanskrit
मरुत्वान्, [त्]
पुं,
(मरुतो देवाः पालनीयत्वेनसन्त्यस्य इति मरुत् + “मध्वादिभ्यश्च ।” ।८६ इति मतुप् मस्य वः संज्ञायां प्रत्यय-वकारे परे तस्य दः ।) इन्द्रः इत्यमरः ।१ ४४
(यथा, रघौ ।“दिवं मरुत्वानिव भोक्ष्यते भुवंदिगन्तविश्रान्तरथो हि तत्सुतः
”धर्म्मपुत्त्रदेवगणभेदः यथा, महाभारते १२ ।२०७ २३ ।“धर्म्मस्य वसवः पुत्त्रा रुद्राश्चामिततेजसः ।विश्वे देवाश्च साध्याश्च मरुत्वन्तश्च भारत !
”मरुज्जनकत्वेनास्त्यस्येति मतुप् मस्य वः ।)हनूमान् इति शब्दरत्नावली
(वायु-विशिष्टे, त्रि सर्व्वोदाहरणं यथा, भट्टौ ।१० २९ ।“बभौ मरुत्वान् विकृतः समुद्रोबभौ मरुत्वान् विकृतः समुद्रः ।बभौ मरुत्वान् विकृतः समुद्रोबभौ मरुत्वान् विकृतः समुद्रः
”स्त्री, दक्षस्य प्रचेतसः कन्या सैव धर्म्मस्यपत्नी यथा, भागवते ।“भानुर्लम्बाककुद्यामिर्विश्वा साध्या मरुत्वती ।वसुर्मुहूर्त्ता संकल्पा धर्म्मपत्न्यः सुतान्शृणु
”)