| YouTube Channel

मरुत्पुत्त्रः (marutputtraH)

 
शब्दकल्पद्रुमः
Sanskrit
मरुत्पुत्त्रः,
पुं,
(मरुतो वायोः पुत्त्रः ।) भीमसेनः ।इति हेमचन्द्रः ७०७
(अस्य मरुत्पुत्त्रत्वेविवरणम् यथा पुरा किल पाण्डुर्नाममहीपतिर्मृगयार्थं वनं गत्वा ब्राह्मणमेकं मृग-रूपधारिणं हरिण्यां रममाणं काममोहितंजघान ततस्तेनाभिशप्तो निजपत्न्यो रन्तुमसौन शक्तः अथ गच्छति काले कुन्ती पुत्त्र-कामस्य स्वभर्त्तुः पाण्डुराजस्यानुज्ञया इन्द्रादीन्देवानाहूय तैरन्वरंसीत् तेषां मरुतो भीम-सेनो जात इति पौराणिकी वार्त्तात्रानुसन्धेया ।अस्य विशेषस्तु महाभारते ११८ -- १२३ ।अध्यायेषु द्रष्टव्यः
) हनूमांश्च