| YouTube Channel

मरीमृडकः-डिका (marImRDakaH-DikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मृड सुखने”@} 2 ‘मृडेर्मृड्णाति सुखने तत्रैव मृडतीति शे।।’ 3 इति देवः।
मर्डकः-र्डिका, मर्डकः-र्डिका, मिमर्डिषकः-षिका, मरीमृडकः-डिका
मर्डिता-त्री, मर्डयिता-त्री, मिमर्डिषिता-त्री, मरीमृडिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना भौवादिकगर्जतिवत् 4 ज्ञेयानि।
5 मृडः-मृडानी, क्तिनि- 6 मृढिः, 7 मृडित्वा, 8 इमानि रूपाण्यधि- कान्यत्रेति विशेषः।
9
प्रासङ्गिक्यः
01
=>
(१३०४)
02
=>
(६-तुदादिः-१३२७। अक। सेट्। पर।)
03
=>
(श्लो। ८७)
04
=>
(४२२)
05
=>
[[१। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्यये रूपम्। मृडस्य स्त्री इति विवक्षायां ‘इन्द्रवरुणभवशर्वरुद्रमृड--’ (४-१-४९) इत्यादिना पुंयोगे ङीषि आनुगागमे मृडानी इति रूपं भवति।]]
06
=>
[[२। ‘तितुत्र--’ (७-२-९) इतीण्निषेधे ढत्वे ष्टुत्वे रूपमेवम्।]]
07
=>
[[३। ‘मृडमृद--’ (१-२-७) इति सेटः क्त्वायाः कित्त्वात् गुणनिषेधे रूपमेवम्। ‘न क्त्वा सेट्’ (१-२-१८) इत्यस्य प्रतिषेधः।]]
08
=>
[[आ। ‘अमृडित्वा सहस्राक्षं क्लिशित्वा कौशलैर्निजैः।’ भ। का। ७। ९६।]]
09
=>
[पृष्ठम्१०५२+ २७]
1 {@“मृड क्षोदे”@} 2 ‘मृड सुखे चेति केचित्।’ इति मा।
धा।
वृत्तिः।
‘--सुखने’ इति क्षीरस्वामी, पुरुषकारश्च।
तत्र 3 “अन्ये… क्षोदे, मृड सुखने च” इति पठन्ति इति।
‘मृडेर्मृड्णाति सुखने तत्रैव मृडतीति शे।।’ 4 इति देवः।
मर्डकः-र्डिका, मर्डकः-र्डिका, मिमर्डिषकः-षिका, मरीमृडकः-डिका
मर्डिता-त्री, मर्डयिता-त्री, मिमर्डिषिता-त्री, मरीमृडिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकतृपतिवत् 5 ज्ञेयानि।
6 मृड्णन्-ती-न्ती, व्यतिमृडाणः, 7 मृडीकम्-मृडङ्कणः, इमानि रूपाणि अस्य धातोः विशेषः।
प्रासङ्गिक्यः
01
=>
(१३०५)
02
=>
(९-क्र्यादिः-१५१६। सक। सेट्। पर।)
03
=>
(पुरुषकारे श्लो। ८७)
04
=>
(श्लो। ८७)
05
=>
(७७२)
06
=>
[[१। शतरि, ‘क्र्यादिभ्यः श्ना’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाऽभ्यस्तयो- रातः’ (६-४-११२) इत्याकारलोपे णत्वे रूपम्।]]
07
=>
[[२। ‘मृडः कीकन् कङ्कणौ’ (द। उ। १०-११) इति कीकन् कङ्कणः इत्येतौ प्रत्ययौ भवतः। मृडीकम् = हिरण्यम्। मृडङ्कणः = शिशुः।]]