मरकत (marakata)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishमरकतम् [marakatam], [मरकं तरत्यनेन तॄ-ड] An emerald
वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा 78
4.56
3. 21
(sometimes written मरक्त.) -मणिः , an emerald. -शिला an emerald slab. -श्याम dark or green as an emerald.
Apte 1890
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiमरकतम्
- मरकं तरत्यनेन-तृ+ड
पन्ना
Shabdartha Kaustubha
Kannadaमरकत
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗಾರುತ್ಮತ ಮಣಿ /ಪಚ್ಚೆ
निष्पत्तिः - > तॄ (प्लवनतरणयोः) - "डः" (वा० ३-२-४८)
व्युत्पत्तिः - > मरकं तरन्त्यनेन
प्रयोगाः - > "मरकतमणिमेदिनीषु भानोस्तरुविटपान्तरपातिनो मयूखाः"
उल्लेखाः - > माघ० ४-५६
L R Vaidya
EnglishLanman
EnglishSanskrit Tibetan
Tibetanmkha' lding gshogs pa
मरकत
अभिधानचिन्तामणिः
Sanskritमरकतं त्वश्मगर्भं गारुत्मतं हरिन्मणिः ।
मरकत (क्ली), अश्मगर्भ (क्ली), गारुत्मत (क्ली), हरिन्मणि (पुं)
अभिधानरत्नमाला
Sanskritअश्मगर्भ
अश्मगर्भ, मरकत, हरिन्मणि
अश्मगर्भं मरकतं हरिन्मणिरिति स्मृतः ।
verse 2.1.1.174
page 0022
वैजयन्तीकोषः
SanskritWord: मरकतम्
Root: मरकत
Gender: नपुं
Number: all
अर्थः ⇒ मरतकमणिः
Meaning(s):
⇒ Emerald
Shloka(s):
3|2|38|2 ► गारुत्मतं मरकतमश्मगर्भं हरिन्मणिः॥ (भूमिकाण्डः/शैलाध्यायः)
Synonym(s):
➠ 3|2|38|2 ⇢ गारुत्मतम् (गारुत्मत) (नपुं) ⇒ Emerald ⇒ मरतकमणिः
➠ 3|2|38|2 ⇢ मरकतम् (मरकत) (नपुं) ⇒ Emerald ⇒ मरतकमणिः
➠ 3|2|38|2 ⇢ अश्मगर्भम् (अश्मगर्भ) (नपुं) ⇒ Emerald ⇒ मरतकमणिः
➠ 3|2|38|2 ⇢ हरिन्मणि: (हरिन्मणि) (पुं) ⇒ Emerald ⇒ मरतकमणिः
➠ 3|2|38|2 ⇢ हरिन्मणिः (हरिन्मणि) (स्त्री) ⇒ Emerald ⇒ मरतकमणिः
Related word(s):
परा_अपरासंबन्धः ➡ रत्नम्
शब्दकल्पद्रुमः
Sanskritमरकतं, (मरकं मारिभयं तरन्त्यनेन ।तन् + डः । यद्वा, मरकं मरणं तनोतीति ।लोभान्मरणमनादृत्य तस्मिन् रत्ने प्रवर्त्तते इतिमरकतमिति स्मरन्तीति वृद्धाः । इत्यमरटीकायांभरतः ।) हरिद्वर्णमणिविशेषः । पान्ना इतिभाषा ॥
तस्य देवता बुधः । इति ज्योतिषम् ॥
तत्पर्य्यायः । गारुत्मतम् २ अश्मगर्भम् ३ हरि-न्मणिः ४ । इत्यमरः । २ । ९ । ९२ ॥
मरक्तम् ५ राज-नीलम् ६ गरुडाङ्कितम् ७ । इति शब्दरत्ना-बली ॥
रौहिणेयम् ८ सौपर्णम् ९ गरुडोद्गी-र्णम् १० बुधरत्नम् ११ अश्मगर्भजम् १२ गर-लारिः १३ वापबोलम् १४ गारुडम् १५ ।कुत्रचित् पुस्तके गरुडोद्गीर्णस्थाने गरुडो-त्तीर्णं वापवोलस्थाने वाप्रबालं इति च पाठः ॥
अस्य गुणाः । विषघ्नत्वम् । नशीतलत्वम् ।रसे मधुरत्वम् । आमपित्तहरत्वम् । रुच्य-त्वम् । पुष्टिदत्वम् । भूतनाशकत्वञ्च ॥
* ॥
अस्य लक्षणम् ।“स्वच्छञ्च गुरु सच्छायं स्निग्धं गात्रञ्च मार्द्दव-समेतम् ।अव्यङ्गं बहुरङ्गं शृङ्गारी मरकतं शुभं बिभृ-यात् ॥
”तस्य कुलक्षणम् ।“शर्करिलकलिलरूक्षं मलिनं लघुहीनकान्तिकल्माषम् ।त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोप-भुञ्जीत ॥
” * ॥
तस्य परीक्षा ।“यच्छैवालशिखण्डिशाद्बलहरित्काचैश्च बाध-च्छदैःखद्योतेन च बालकीरवपुषा शैरीषपुष्पेण च ।छायाभिः समतां दधाति तदिदं निर्द्दिष्टमष्टा-त्मकंजात्यं यत्तपनातपेष्वपरितो गारुत्मतं रञ्जयेत् ॥
”इति राजनिर्घण्टः ॥
* ॥
ग्रन्थान्तरे तस्य परीक्षादि यथा, --सूत उवाच ।“दानवाधिपतेः पित्तमादाय भुजगाधिपः ।द्विधा कुर्व्वन्निव व्योम सत्वरं वासुकिर्ययौ ॥
स तदा स्वशिरोरत्नप्रभादीप्ते नभोऽम्बुधौ ।राजतः स महानेकः खण्डसेतुरिवाबभौ ॥
ततः पक्षनिपातेन संहरन्निव रोदसी ।गरुत्मान् पन्नगेन्द्रस्य प्रहर्त्तुमुपचक्रमे ॥
सहसैव मुमोच तत् फणीन्द्रःसुरसाद्युक्ततुरस्कपादपायाम् ।नलिकावनगन्धवासितायांवरमाणिक्यगिरेरुपत्यकायाम् ॥
तस्य प्रपातसमनन्तरकालमेवतद्बद्बरालयमतीत्य रमासमीपे ।स्थानं क्षितेरुपपयोनिधितीरलेखंतत्प्रत्ययान्मरकताकरतां जगाम ॥
तत्रैव किञ्चित् पततस्तु पित्तादुत्पत्य जग्राह ततो गरुत्मान् ।मूर्च्छापरीतः सहसैव घोणा-रन्ध्रद्वयेन प्रमुमोच सर्व्वम् ॥
तत्राकठोरशुककण्ठशिरीषपुष्प-खद्योतपृष्ठचरशाद्बलशैवलानाम् ।कह्लारशस्पकभुजङ्गभुजाञ्च पत्र-प्रान्तत्विषो मरकताः शुभदा भवन्ति ॥
तद्यत्र भोगीन्द्रभुजा विमुक्तंपपात पित्तं दितिजाधिपस्य ।तस्याकरस्यातितरां स देशोदुःखोपलभ्यश्च गुणैश्च युक्तः ॥
तस्मिन्मरकतस्थाने यत्किच्चिदुपजायते ।तत्सर्व्वं विषरोगाणां प्रशमाय प्रकीर्त्त्यते ॥
सर्व्वमन्त्रौषधिगणैर्यन्न शक्यं चिकित्सितुम् ।महाहिदंष्ट्राप्रभवं विषन्तत्तेन शाम्यति ॥
अन्यमप्याकरे तत्र यद्दोषैरुपवर्ज्जितम् ।जायते तत् पवित्राणामुत्तमं परिकीर्त्तितम् ॥
अत्यन्तहरितवर्णं कोमलमर्च्चिर्व्विभेदजटिलञ्च ।काञ्चनचूर्णस्यान्तःपूर्णमिव लक्ष्यते यच्च ॥
युक्तं संस्थानगुणैः समरागं गौरवेण विहीनम् ।सवितुः करसंस्पर्शाच्छुरयति सर्व्वाश्रमं दीप्त्या ॥
हित्वा च हरितभावं यस्यान्तर्व्विनिहिताभवेद्दीप्तिः ।अचिरप्रभाप्रभाहतनवशाद्बलसन्निभा भाति ॥
यच्च मनसः प्रसादं विदधाति निरीक्षितमति-मात्रम् ।तन्मरकतं महागुणमिति रत्नविदां मनोवृत्तिः ॥
यस्तु भास्करसंस्पर्शात् हस्तन्यस्तो महामणिः ।रञ्जयेदात्मपादैस्तु महामरकतं हि तत् ॥
चतुर्धा जातिभेदस्तु महामरकते मणौ ।छायाभेदेन विज्ञेया चतुर्व्वर्गस्य लक्षणैः ॥
” * ॥
अथ छाया ।“भवेदष्टविधच्छाया मणेर्मरकतस्य च ।वर्हिपुच्छसमाभासा चासपक्षसमापरा ॥
हरिकोचनिभा चान्या तथा शैबालसन्निभा ।स्वद्योतपृष्ठसंकाशा बालकीरसमा तथा ॥
नवशाद्वलसच्छाया शिरीषकुसुमोपमा ।एवमष्टौ समाख्याताश्छाया मरकताश्रयाः ॥
छायाभिर्यक्तमेताभिः श्रेष्ठं मरकतं भवेत् ।पद्मरागगतः स्वच्छो जलविन्दुर्यथा भवेत् ।तथा मरकतच्छाया श्यामला हरितामला ॥
”अथ दोषगुणाः ।“दोषाः सप्त भवन्त्यस्य गुणः पञ्चविधो मतः ।अस्निग्धं रूक्षमित्युक्तं व्याधिस्तस्य धृते भवेत् ॥
विस्फोटः स्यात् सपिडके तत्र शस्त्रहतिर्भवेत् ।सपाषाणे भवेदिष्टनाशो मरकते धृते ॥
विच्छायं मरकतं प्राहुर्वार्य्यते न तु धार्य्यते ।शर्करं कर्करायुक्तं पुत्त्रशोकप्रदं धृतम् ॥
जठरं कान्तिहीनन्तु दंष्ट्रिवह्निभयावहम् ।कुल्माषवर्णं धवलं ततो मृत्युभयं भवेत् ॥
इति दोषाः समाख्याता वर्ण्यन्तेऽथ महा-गुणाः ।निर्म्मलं कथितं स्वच्छं गुरु स्याद्गुरुतायुतम् ॥
स्निग्धं रूक्षविनिर्मुक्तमरजस्कमरेणुकम् ।सुरागं रागबहुलं मणेः पञ्च गुणा मताः ॥
एतैर्युक्तं मरकतं सर्व्वपापभयापहम् ।गजवाजिरथान्दत्त्वा विप्रेभ्यो विस्तराद्धि मे ॥
तत् फलं समवाप्नोति शुद्धे मरकते धृते ।धनधान्यादिकरणे तथा सैन्यक्रियाविधौ ॥
विषरोगोपशमने कर्म्मस्वाथर्व्वणेषु च ।शस्यते मुनिभिर्यस्मादयं मरकतो मणिः ॥
”तथा च ।“स्वच्छता गुरुता कान्तिः स्निग्धत्वं पित्तकार-णम् ।हरिन्निरञ्जकञ्चैव सप्त मरकते गुणाः ॥
”अथ कृत्रिमाकृत्रिमपरीक्षा ।“कृत्रिमत्वं सहजत्वं दृश्यते सूरिभिः क्वचित् ।घर्षयेत् प्रस्तरे वङ्गकाचस्तस्माद्विपद्यते ॥
लेखयेल्लौहभृङ्गेण चूर्णेनाथ विलेपयेत् ।सहजः कान्तिमाप्नोति कृत्रिमो मलिनायते ॥
वर्णस्यातिबहुत्वात् यस्यान्तः स्वच्छकिरण-परिधानम् ।सान्द्रस्निग्धविशुद्धं कोमलबर्हप्रभादिसमकान्ति ॥
चलोज्ज्वलया कान्त्या सान्द्राकारं विभासयाभाति ।तदपि गुणवत्संज्ञामाप्नोति हि यादृशीं पूर्व्वम् ॥
सकलकठोरं मलिनं रूक्षं पाषाणकर्करोपेतम् ।दिग्धञ्च शिलाजतुना मरकतमेवंविधं विगुणम् ॥
यत्सन्धिश्लेषितं रत्नमन्यन्मरकताद्भवेत् ।श्रेयस्कामैर्न तद्धार्य्यं क्रेतव्यं वा कथञ्चन ॥
भल्लातकपुत्त्रिका च तद्वर्णसमयोगतः ।मणेर्मरकतस्यैते लक्षणीया विजातयः ॥
क्षौमेण वाससा घृष्टा दीप्तिं त्यजति पुत्त्रिका ।लाघवेनैव काचस्य शक्या कर्त्तुं विभावना ॥
कस्यचिदनेकरूपैर्मरकतमनुगच्छतोऽपि गुण-वर्णैः ।भल्लातकस्य निर्नेतुर्वैशद्यमुपैति वर्णस्य ॥
वज्राणि मुक्ताः सन्त्यन्ये ये च केचिद्विजातयः ।तेषामप्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी ॥
ऋजुत्वाच्चैव केषाञ्चित्कथञ्चिदुपजायते ।तिर्य्यगालोक्यमानानां सद्यश्चैव प्रणश्यति ॥
स्नानाचमनजप्येषु रक्षामन्त्रक्रियाविधौ ।ददद्भिर्गोहिरण्यानि कुर्व्वद्भिः साधनानि च ॥
दैवपित्र्यातिथेयेषु गुरुसंपूजनेषु च ।वाध्यमानेषु विषमैर्दोषजातैर्विषोद्भवैः ॥
दौषैर्हीनं गुणैर्युक्तं काञ्चनप्रतियोजितम् ।संग्रामे विचरद्भिश्च धार्य्यं मरकतं बुधैः ॥
”अथ मूल्यम् ।“तुलया पद्मरागस्य यन्मूल्यमुपजायते ।लभतेऽभ्यधिकं तस्मात् गुणैर्मरकतं स्मृतम् ॥
तथा च पद्मरागाणां दोषैर्मूल्यं प्रलीयते ।ततोऽस्याप्यधिका हानिर्दोषैर्मरकते भवेत् ॥
गुणपिण्डसमायुक्ते हरितश्यामभास्वरे ।मूल्यं द्बादशकं प्रोक्तं जातिभेदेन सूरिभिः ॥
यवैकेन शतं पञ्चसहस्रं द्वितये यवे ।त्रिभिश्चैव सहस्रे द्वे चतुर्भिश्च चतुर्गुणम् ॥
”इति गारुडे मरकतपरीक्षा ७१ अध्यायःयुक्तिकल्पतरुश्च ॥
वाचस्पत्यम्
SanskritNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
