मरकः (marakaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishमरकः [marakḥ], [मृ-वुन्] A plague, murrain, pestilential disease, an epidemic.
Apte Hindi
Hindiमरकः
- मृ + वुन्
"महामारी, पशुओं का एक संक्रामक रोग, प्लेग प्रसारक रोग, संक्रामक रोग"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit मरकः
एकः जातिविशेषः ।
"मार्कण्डेय-पुराणे मरकः समुल्लिखितः"
शब्दकल्पद्रुमः
Sanskritमरकः, (म्रियन्ते जना यस्मात् । मृ + अपादानेअप् । ततः स्वार्थे संज्ञायां वा कन् । यद्वा, मृ + भावे अप् । मरो मरणमिति शब्देनकायति शब्दायते इति । कै + कः ।) मारिः ।इति हेमचन्द्रः । २ । २३९ ॥
मडक इति भाषा ।तत्पर्य्यायः । मारी २ मारकः ३ । इति जटा-धरः ॥
(यथा, कामन्दकीयनीतिसारे । १३ । २० ।“हुताशनो जलं व्याधिर्दुर्भिक्षो मरकस्तथा ।इति पञ्चविधं दैवं व्यसनं मानुषं परम् ॥
”)तस्य कारणादि यथा, --“यावन्मार्त्तण्डसूनुर्गवि धनुषि झसे मन्मथेवास्ति नार्य्यांतावद्दुर्भिक्षपीडा भवति च मरकं संशयंयान्ति लोकाः ।हाहाकारा तथोर्व्वी मनुजभयकरी फेरुरावैश्चभीमैःशून्यग्रामा भवेयुर्नरपतिरहिता भूरिकङ्काल-माला ॥
वक्रं करोति रविजो धरणीसुतो वामूलर्क्षहस्तमघरेवतिमैत्रभेषु ।छत्रोपभङ्गपतनानि च सैनिकानांसर्व्वत्र लोकमरणं जलधौतदेशः ॥
मांसास्थीनि समादाय श्मशानाद्गृध्रवायसाः ।श्वा शृगालोऽथवा मध्ये पुरस्य प्रविशन्ति चेत् ॥
विकिरन्ति गृहादौ च श्मशानं सा महीभवेत् ।चौरेण हन्यते लोकः परचक्रसमागमः ॥
संग्रामश्च महाघोरो दुर्भिक्षं मरकस्तथा ।अद्भुतानि प्रसूयन्ते तस्य देशस्य विद्रवः ॥
”इति ज्योतिस्तत्त्वम् ॥
अपि च ।“सार्च्चिष्यग्निभयं गैरिकरूपे च युद्धानि ।दूर्व्वाकाण्डश्यामे हारिद्रे चापि निर्द्दिशेन्मरकम् ॥
”इति ग्रहणप्रकरणे तिथ्यादितत्त्वम् ॥
अन्यदपि ।“रवाविन्दौ गजारूढा शन्यङ्गारे तुरङ्गमे ।नौकया गुरुशुक्राभ्यां दोलया बुधवासरे ॥
गजे च जलदा देवी छत्रभङ्गस्तुरङ्गमे ।नौकायां शस्यवृद्धिः स्यात् दोलायां मरकंभवेत् ॥
”इति पत्रिकाप्रवेशफलकथने ज्योतिषम् ॥
* ॥
अस्य शान्तिः । देवीमाहात्म्यपाठः । वटुक-भैरवस्तवपाठः । तुलस्या विष्णुपूजनञ्च । यथा, “उपसर्गानशेषांस्तु महामारीसमुद्भवान् ।तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥
”इति मार्कण्डेयपुराणम् ॥
“मारीभये राजभये तथा चौराग्निजे भये ।औत्पातिके महाघोरे तथा दुःस्वप्नदर्शने ।बन्धने च तथा घोरे पठेत् स्तोत्रं समाहितः ॥
”इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पः ॥
“ग्रहयज्ञैः शान्तिकैश्च किं क्लिश्यन्ति नराद्विज ! ॥
महाशान्तिकरः श्रीमांस्तुलस्या पूजितो हरिः ॥
उत्पातान् दारुणान् पुंसां दुर्निमित्तान्यशेषतः ।तुलस्या पूजितो भक्त्या महाशान्तिकरोहरिः ॥
”अत्र ब्रह्मपुराणीयो मन्त्रः ।“ओँ नमस्ते बहुरूपाय विष्णवे परमात्मनेस्वाहेति ।”इति ज्योतिस्तत्त्वम् ॥
(जातिविशेषः । यथा, मार्कण्डेये । ५८ । ५१ ।“दार्व्वादा मरकाश्चैव कुरटाश्चान्नदारकाः ।एकपादाः खशा घोषाः स्वर्गभौजानव-द्यकाः ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
