| YouTube Channel

मयिता-त्री (mayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मय गतौ”@} 2 मायकः-यिका, मायकः-यिका, मिमयिषकः-षिका, मामयकः-यिका
मयिता-त्री, माययिता-त्री, मिमयिषिता-त्री, मामयिता-त्री
3 प्रमत्-प्रमतौ-प्रमतः, 4 मयिता, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिक- चयतिवत् 5 ज्ञेयानि।
ल्यपि- 6 प्रमय्य इति।
प्रासङ्गिक्यः
01
=>
(१२२३)
02
=>
(१-भ्वादिः-४७७। सक। सेट्। आत्म।)
03
=>
[[२। क्विपि ‘लोपो व्योर्वलि’ (६-१-६६) इति यकारलोपे ‘ह्रस्वस्य पिति--’ (६-१-७१) इति तुकि रूपमेवम्।]]
04
=>
[[३। तच्छीलादिषु कर्तृषु ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति प्राप्तस्य युचः, ‘न यः’ (३-२-१५२) इति निषेधात् ‘तृन्’ (३-२-१३५) इत्यौत्सर्गिकस्तृन्नेव।]]
05
=>
(५०२)
06
=>
[[B। ‘पयः प्रदोहादिरताः प्रमय्य तं प्रैक्षन्त नूत्नाचयितं कुतूहलात्।।’ धा। का। १। ६१।]]