| YouTube Channel

मयः (mayaH)

 
Hindi
Hindi
से भरा
Apte Hindi
Hindi
मयः
पुं*
- -
"एक दानव, दानवों का शिल्पी (कहते हैं कि इसने पांडवों के लिए एक भब्य भवन का निर्माण किया था"
मयः
पुं*
- -
घोड़ा
मयः
पुं*
- -
ऊँट
मयः
पुं*
- -
खच्चर
Wordnet
Sanskrit
Synonyms:
उष्ट्रः, करभः, दासेरकः, दीर्घग्रीवः, धूसरः, लम्बोष्ठः, रवणः, महाजङ्घः, जवी, जाङ्घिकः, क्रमेलकः, मयः, महाङ्गः, दीर्घगतिः, दीर्घः, शृङ्खलकः, महान्, महाग्रीवः, महानादः, महाध्वगः, महापृष्ठः, बलिष्ठः, दीर्घजङ्घः, ग्रीवी, धूम्रकः, शरभः, क्रमेलः, कण्टकाशनः, भोलिः, बहुकरः, अध्वगः, मरुद्विपः, वक्रग्रीवः, वासन्तः, कुलनाशः, कुशनामा, मरुप्रियः, द्विककुत्, दुर्गलङ्घनः, भूतघ्नः, दासेरः, केलिकीर्णः
noun
पशुविशेषः- यः प्रायः मरुस्थले दृश्यते।
"तेन उष्ट्रं दत्वा उष्ट्री क्रीता।"
Synonyms:
मयः
noun
पुराणेषु निर्दिष्टः दानवः यः शिल्पी आसीत्।
"लङ्का मयेन निर्मिता।"
Synonyms:
अश्वतरः, अश्वतरी, वेशरः, वेसरः, वेगसरः, खेसरः, प्रखरः, अतिभारगः, मयः, निघृश्वः
noun
गर्दभात् अश्वायां जातः शावकः पशुः।
"अश्वतरः भारवहनार्थे उपयुक्तः। "
Synonyms:
उष्ट्रः, शरभः, दीर्घग्रीवः, द्विककुद्, क्रमेलः, क्रमेलकः, महाङागः, मयः, बणिग्वहः
noun
पशुविशेषः सः पशुः यः मरुस्थले वाहनरुपेण उपयुज्यन्ते।
"उष्ट्रः मरुस्थलस्य नौका।"
वैजयन्तीकोषः
Sanskrit
Word: मयः
Root: मय
Gender: पुं
Number: all
अर्थः असुरशिल्पिः
Meaning(s):
Name of the architect of the Asuras
Shloka(s):
1|3|7|1 त्वष्टा नाम देवानां मयो नाम सुरद्विषाम्। (स्वर्गकाण्डः/यक्षाद्यध्यायः)
Synonym(s):
1|3|7|1 मयः (मय) (पुं) Name of the architect of the Asuras असुरशिल्पिः
Related word(s):
परा_अपरासंबन्धः देवयोनिः
स्व_स्वामीसंबन्धः इन्द्रः
जातिः अलौकिकचेतनः
Tamil
Tamil
மய: : அசுரர்களின் சிற்பி மயன், ஒட்டகம், குதிரை, கோவேறு கழுதை.
शब्दकल्पद्रुमः
Sanskrit
मयः,
पुं,
(मयते द्रुतं गच्छतीति मय् + पचाद्य-च् ।) उष्ट्रः इत्यमरः ७५
अश्वतरः ।दानवविशेषः तु दैत्यानां शिल्पी इतिमेदिनी ये, ४४
(अयं हि युधिष्ठिरस्यराज्ञः सभां विरचितवान् यथा, शिशुपाल-वधे १३ ५० ।“उपनीय बिन्दुसरसो मयेन यामणिदारुचारु किल वार्षपर्व्वणम् ।विदधेऽवधूतसुरसद्मसम्पदंसमुपासदत् सपदि संसदं ताम्
”)तस्य सप्तापत्यानि यथा, वह्निपुराणे ।“मयस्य जाता हेमायां पुत्त्राः सप्त महाबलाः ।मायावी दुन्दुभिश्चैव वृषश्च महिषस्तथा ।बालिका वज्रकन्या कन्या मन्दोदरी तथा
”(सुखम् त्रि, गन्ता यथा, वाजसनेयसंहि-तायाम् २२ १९ ।“हयोऽस्यत्योऽसि मयोऽस्यर्व्वासि ।” “मयोऽसिमयते गच्छति मयः मय गतौ पचाद्यच् यद्वामय इति सुखनाम सुखरूपोऽसि ।” इतितद्भाष्ये महीधरः
)
कृदन्तरूपमाला
Sanskrit
1 {@“डु मिञ् प्रक्षेपणे”@} 2 ‘मिनोति मिनुते स्वादेः गतौ मयति माययेत्।’ 3 इति देवः।
4 5 मायकः-पिका, 6 मापकः-पिका, 7 मित्सकः-त्सिका, 8 मेमीयकः-यिका
माता-त्री, मापयिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
9 मिन्वन्-न्ती, मापयन्-न्ती, मित्सन्-न्ती
-- मास्यन्-न्ती-ती, मापयिष्यन्-न्ती-ती, मित्सिष्यन्-न्ती-ती
-- मिन्वानः, मापयमानः, मित्समानः, मेमीयमानः
मास्यमानः, मापयिष्यमाणः, मित्सिष्यमाणः, मेमीयिष्यमाणः
प्रमाः-प्रमौ-प्रमाः
-- -- -- 10 मितम्- 11 तः-तवान्, मापितः, मित्सितः, मेमीयितः-तवान्
12 13 मयः, 14 मायी, मापः, मित्सुः, 15 मेम्यः
मातव्यम्, मापयितव्यम्, मित्सितव्यम्, मेमीयितव्यम्
16 प्रणिमानीयम्, प्रणिमापनीयम्, मित्सनीयम्, मेमीयनीयम्
17 मेयम्, माप्यम्, मित्स्यम्, मेमीय्यम्
18 ईषत्प्रमयः-दुष्प्रमयः-सुप्रमयः
-- -- मायमानः, माप्यमानः, मित्स्यमानः, मेमीय्यमानः
19 मयः, मापः, मित्सः, मेमीयः
मातुम्, मापयितुम्, मित्सितुम्, मेमीयितुम्
मितिः, मापना, मित्सा, मेमीया
मानम्, मापनम्, मित्सनम्, मेमीयनम्
मित्वा, मापयित्वा, मित्सित्वा, मेमीयित्वा
20 प्रमाय, प्रमाप्य, प्रमित्स्य, प्रमेमीय्य
मायम् २, मित्वा २, मापम् २, मापयित्वा २, मित्सम् २, मित्सित्वा २, मेमीयम्
मेमीयित्वा
21 22 वातप्रमीः, 23 मायुः-गोमायुः, 24 मयुः, 25 जामाता, 26 मीरः।
प्रासङ्गिक्यः
01
=>
(१२५३)
02
=>
(५-स्वादिः-१२५०। सक। अनि। उभ।)
03
=>
(श्लो। १७)
04
=>
[पृष्ठम्१०२१+ २८]
05
=>
[[१। ण्वुलि वृद्धौ सत्यां एजन्तत्वेन ‘मीनातिमिनोतिदीङाम्--’ (६-१-५०) इत्यनेन आत्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञादिष्वपि बोध्यम्।]]
06
=>
[[२। णिच्प्रत्ययोत्वत्तेरनन्तरं वृद्धौ कृतायाम् एजन्तत्वात् आत्वे, आदन्तलक्षणे पुगागमे रूपमेवम्। ण्यन्ते सर्वत्र एवमेव प्रक्रिया ज्ञेया।]]
07
=>
[[३। ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे ‘सनि मीमा--’ (७-४-५४) इति इस्भावे ‘सः स्यार्धधातुके’ (७-४-४९) इति सकारस्य तत्वे, ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपे रूपम्। एवं सन्नन्ते सर्वत्र बोध्यम्। माधवधातुवृत्तौ सन्नन्तरूपप्रदर्शनावसरेऽत्र, “--मित्सति, मित्सते, ‘इको झल्’ (१-२-९) इति सनः कित्त्वात्, ‘अज्झ- नगमां सनि’ (६-४-१६) इति दीर्घे--” इत्याद्युक्तम्। अस्यायं भावः। अनैमित्तिक आकारः प्रथमतो प्रवर्तते। धातोः इगन्तत्वेन ‘इको झल्’ (१-२-९) इत्यादिसूत्रे सनः कित्त्वात्, एज्विषय एवाकारविधानात् इति।]]
08
=>
[[४। यङन्ते ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घे द्विर्वचनादिकेषु कृतेषु, ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः।]]
09
=>
[[५। शतरि, ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुप्रत्यये, ‘हुश्नुवोः सार्वधातुके’ (६-४-८७) इति यणि रूपमेवम्। शानजन्तेऽप्येवमेव।]]
10
=>
[[६। निष्ठायामाकारो प्रवर्तते
\n\n आकारविधायके सूत्रे (६-१-५०) ‘आदेच उपदेशे ऽशिति’ (६-१-४५) इत्यतः ‘एचः’ इत्यनुवर्तनात्, तस्य गुणयोग्यप्रत्ययेष्वेव परेषु आत्वमिति ज्ञापनात्। अतश्च निष्ठाप्रत्ययस्य कित्त्वात् गुणः, तेन रूपमेवम्। स्पष्टमिदं प्रकृतसूत्रे (६-१-५०) भाष्ये। एवमेव क्त्वाक्तिन्प्रभृतिष्वपि ज्ञेयम्।]]
11
=>
[[आ। ‘सुन्वत्प्रियं तमथ रागसिताशिताग्रम् आरोन्मितास्त्रनिचयास्तृतमानसान्ता।’ धा। का। २। ६८।]]
12
=>
[पृष्ठम्१०२२+ २५]
13
=>
[[१। पचाद्यचि, ‘निमिमीलियां खलचोः प्रतिषेधः’ (वा। ६-१-५०) इति आकार- प्रतिषेधः। गुणेऽयादेशे रूपमेवम्। अत्र वार्तिके ‘अच्’ पदेन पचाद्यचः (३-१-१३४), एरच (३-३-५६) श्च ग्रहणमिति कैयटादौ प्रतिपादितम्। अत्र वार्तिके निपूर्वकस्यैव मिनोतेः ग्रहणाद्, उपसर्गान्तरे, उपपदेशुद्धे आकार एव भवेदिति ज्ञायते। तदानीम्, ‘आतश्चोपसर्गे’ (३-१-१३६) इति कप्रत्यये, ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे प्रमः इति रूपमपि साध्विति प्रतिभाति।]]
14
=>
[[२। नन्द्यादित्वात् कर्तरि णिनिप्रत्यये युगागमे रूपमेवम्।]]
15
=>
[[३। यङन्तात् पचाद्यचि यङो लुकि ‘एरनेकाचः--’ (६-४-८२) इति यणि रूपमेवम्।]]
16
=>
[[४। ‘नेर्गदनदपतपदघुमा--’ (८-४-१७) इति नेर्णत्वे रूपमेवम्।]]
17
=>
[[५। यत्प्रत्यये, अनैमित्तिक आकारे, ‘ईद् यति’ (६-४-६५) इतीकारे गुणे रूपम्।]]
18
=>
[[६। धातोरस्य सकर्मकत्वात् कर्मणि खल्प्रत्यये, ‘निमिमीलियां खलचोः प्रतिषेधः’ (वा। ६-१-५०) इति आकारप्रतिषेधे गुणायादेशयो रूपमेवम्।]]
19
=>
[[७। धातोरस्येवर्णान्तात्वत्, घञपवादतया ‘एरच्’ (३-३-५६) इति भावेऽच्प्रत्यये आकारप्रतिषेधे रूपमेवम्।]]
20
=>
[[८। ल्यपि, ‘मीनातिमिनोतिदीङां ल्यपि च’ (६-१-५०) इति आकारे रूपमेवम्। अन्यथा क्त्वाप्रत्ययादेशभूतस्य ल्यप एज्विषयत्वाभावेन आकारो स्यात्, तदर्थमेव ‘--ल्यपि च’ (६-१-५०) इत्युक्तमिति ज्ञेयम्।]]
21
=>
[पृष्ठम्१०२३+ २७]
22
=>
[[१। ‘वातप्रमीः’ (उ। उ-१-८५) इति सूत्रेण प्रपूर्वकात् वातशब्दे उपपदे वातं प्रमिणोतीत्यर्थे ईप्रत्यये निष्पन्नोऽयं शब्दः। वातप्रमीः = शमीवृक्षः, पक्षी च।]]
23
=>
[[२। ‘कृवापाजिमि--’ (द। उ। १-८६) इत्युण्प्रत्यये युगागमः। मीयतेऽनेनेति मायुः मानम्। गां मिनोति = हिनस्तीति गोमायुः = शृगालः।]]
24
=>
[[३। ‘भृमृशीतॄचरित्सरितनिमि--’ (द। उ। १-९२) इत्युप्रत्यये बाहुलकादाकाराभावे गुणायादेशयोश्च रूपमेवम्।]]
25
=>
[[४। ‘नप्तृनेष्टृ--’ (द। उ। २-३) इति तृन्प्रत्यये तृच्प्रत्यये वा जायां मिनोतीत्यर्थे जायाशब्दस्य जादेशे निपातितोऽयं शब्दः। जामाता = दुहितुः पतिः।]]
26
=>
[[५। ‘शुषिचिमिभ्यो दीर्घश्च’ (द। उ। ८। ४३) इति क्रन्प्रत्यये प्रकृतेदीर्घे रूपमेवम्। मिनोति इति मीरः = देशसीमा।]]