| YouTube Channel

मन्दिर (mandira)

 
शब्दसागरः
English
मन्दिर nf. (-र-रा) A house.
n.
(-रं)
1. A town.
2. A temple.
m.
(-रः)
1.
The sea.
2. The back of the knee, the ham.
3. One of the Gan-
dharbas.
f.
(-रा) A stable.
E.
मदि to sleep, &c. Unādi
aff.
किरच्
Capeller Eng
English
मन्दिर
n.
dwelling, house, castle, palace, temple.
Yates
English
मन्दिर (रं-रा) 1.
n.
f.
A house.
m.
The sea
the ham.
f.
A stable
n.
A town
a temple.
Spoken Sanskrit
English
मन्दिर - mandira -
n.
- dwelling
मन्दिर - mandira -
m.
- sea
मन्दिर - mandira -
m.
- hollow or back of the knee
मन्दिर - mandira -
n.
- camp
मन्दिर - mandira -
n.
- temple
मन्दिर - mandira -
n.
- habitation
मन्दिर - mandira -
n.
- stable for horses
मन्दिर - mandira -
n.
- castle
मन्दिर - mandira -
n.
- town
मन्दिर - mandira -
n.
- any waiting or abiding-place
मन्दिर - mandira -
n.
- house
मन्दिर - mandira -
n.
- body
मन्दिर - mandira -
n.
- palace
Wilson
English
मन्दिर
nf. (-रं-रा) A house.
n.
(-रं)
1 A town.
2 A temple.
m.
(-रः)
1 The sea.
2 The back of the knee, the ham.
3 One of the Gandharbas.
f.
(-रा) A stable.
E.
मदि to sleep, &c. Uṇādi
aff.
किरच्.
Apte
English
मन्दिरम् [mandiram], [मन्द्यते$त्र मन्द् किरच्] A dwelling house, habitation, place, mansion
प्रावेशयन्मन्दिरमृद्धमेनम्
Ku.*
7. 55
Bk.*
8.96
R.*
12.83
मणिमयमन्दिरमध्ये पश्यति पिपीलिका छिद्रम् Subhāṣ.
An abode, a dwelling in general
as in क्षीराब्धिमन्दिरः.
A town
विनिक्षिप्य बलं सर्वं बहिरन्तश्च मन्दिरे
Rām.*
6.12.3.
A camp.
A temple.
The body.
रः The sea.
The hollow of the knee, ham.
Comp.
-पशुः a cat. -मणिः an epithet of Śiva.
Apte 1890
English
मंदिरं [मंद्यतेऽत्र मंद् किरच्] 1 A dwelling house, habitation, place, mansion
Ku. 7. 55
Bk. 8. 96
R. 12. 83.
2 An abode, a dwelling in general
as in क्षरीब्धिमंदिरः.
3 A town.
4 A camp.
5 A temple.
रः 1 The sea.
2 The hollow of the knee, ham.
Comp.
पशुः a cat.
मणिः an epithet of Śiva.
Monier Williams Cologne
English
मन्दिर a
n.
any waiting or abiding-place, habitation, dwelling, house, palace, temple, town, camp
&c.
(ifc. dwelling in),
MBh.
Kāv.
&c.
a stable for horses,
L.
(cf. मन्दुरा)
the body,
L.
मन्दिर
m.
the sea,
L.
the hollow or back of the knee,
L.
N.
of a Gandharva,
L.
मन्दिन्, मन्दिर
&c.
See above.
Monier Williams 1872
English
मन्दिर मन्दिर, अम्, n. (according to some
also आ, f. and अस्, m.
said to be fr. rt. मन्द्), a
habitation, dwelling, house, palace
a temple, pagoda
an apartment
a town
a camp
any abode or
dwelling, (sometimes at the end of an adj. comp.,
e. g. क्षीराब्धि-मन्दिर, अस्, आ, अम्, dwelling in
the ocean of milk)
(आ), f. a stable, = मन्दुरा,
p. 747
(अस्), m. the sea
the hollow or back of
the knee, the ham
N. of a Gandharva.
—मन्-
दिर-पशु, उस्, m. ‘household animal, a cat.
—मन्-
दिर-मणि, इस्, m. ‘house-gem, temple-jewel, epi-
thet of Śiva.
Macdonell
English
मन्दिर mand-ira,
n.
[gladdening, pleasant], 🞄dwelling, abode, house
mansion, palace
🞄temple.
Benfey
English
मन्दिर मन्दिर,
I.
m.
1. The sea.
2. The back of the knee.
II.
f.
रा, A
stable.
III.
f.
रा, and
n.
A house,
Hit. ii. d. 126 (n. )
a palace, Vikr. 35.
2
Kathās. 26, 283 (f. ).
IV.
n.
1. A
town.
2. A temple.
--
Comp.
अवस्कर-,
n.
the privy, Rājat. 5, 406.
केलि-,
n.
A pleasure-house, Caurap. 23. जल
-यन्त्र-,
n.
a summer-house erected in
the midst of water or on the bank of a
river, Ṛt. 1, 2.
Hindi
Hindi
निवास
Apte Hindi
Hindi
मन्दिरम्
नपुं*
- मन्द्यतेऽत्र मन्द्+किरच्
"रहने का स्थान, आवास, महल, भवन"
मन्दिरम्
नपुं*
- -
"आवास, रहने का घर"
मन्दिरम्
नपुं*
- -
नगर
मन्दिरम्
नपुं*
- -
शिविर
मन्दिरम्
नपुं*
- -
देवालय
मन्दिरम्
नपुं*
- मन्द्+किरच्
भवन
मन्दिरम्
नपुं*
- मन्द्+किरच्
आवास
मन्दिरम्
नपुं*
- मन्द्+किरच्
नगर
मन्दिरम्
नपुं*
- मन्द्+किरच्
शिविर
मन्दिरम्
नपुं*
- मन्द्+किरच्
देवालय
मन्दिरम्
नपुं*
- मन्द्+किरच्
"काया, शरीर"
Shabdartha Kaustubha
Kannada
मन्दिर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಮುದ್ರ
निष्पत्तिः - > मदि - "किरच्" (उ० १-५१)
मन्दिर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದೇಹ /ಶರೀರ
विस्तारः - > "मन्दिरं देहपुर्योश्च" - वैज०
मन्दिर
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗೃಹ /ಮನೆ
निष्पत्तिः - > मदि (स्तुत्यादौ) - "किरच्" (उ० १-५१)
व्युत्पत्तिः - > मन्द्यते सुप्यते अत्र
विस्तारः - > "मन्दिरो मकरावासे मन्दिरं नगरं गृहे" - हेम०
मन्दिर
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ನಗರ /ಪಟ್ಟಣ
प्रयोगाः - > "प्रावेशयन्मन्दिरमृद्धमेनमागुल्फकीर्णापणमार्गपुष्पम्"
उल्लेखाः - > कुमा० ७-५५
मन्दिर
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ವಾಸಸ್ಥಳ
L R Vaidya
English
maMdira {% (I) m. %} 1. The sea
2. the hollow of the knee.
maMdira {% (II) n. %} 1. A palace, a dwelling, a house, K.S.vii.55, R.xii.83, Bt.viii.96
2. a town
3. a camp
4. a temple
5. an abode, a receptacle.
Bopp
Latin
मन्दिर n. (r. मन्द् dormire s. इर) domus. IN. 5. 52.
cf.
मन्दुरा.
Lanman
English
mandira, n. dwelling
house
palace.
[√2mand, ‘tarry, 1188c: prop. ‘a waiting,
an abiding, and then ‘abiding-place,
mansion’: cf. μάνδ-ρα, ‘fold, stable, later
‘monastery’: for mg, observe that Lat.
mansio, stem man-si-on- (fr. man-ēre,
‘tarry’), meant first ‘a tarrying, and
then ‘a stopping-place, mansion, French
‘maison’
see also bhavana.]
Schmidt Nachtrage zum Sanskrit Worterbuch
German
मन्दिर n. °Titel eines Werkes, Śrīk. XXV, 57.
Sanskrit Tibetan
Tibetan
khang pa
१) आगार २) आवसथ ३) कुटिका ४) कुटी ५) गृह ६) गेह ७) धामन् ८) प्रासाद ९) भवन १०) मन्दिर ११) लयन १२) वेशमन् १३) शाला १४) संगीतिप्रासाद १५) सदन
grong khyer
१) गृह २) नगर ३) पत्तन ४) पुर् ५) पुर ६) मन्दिर
अभिधानचिन्तामणिः
Sanskrit
--source--
ऊरुसंधिर्वङ्क्षणः स्यात्सक्थ्यूरुस्तस्य पर्व तु ६१३
जानुर्नलकीलोऽष्ठीवान्पश्चाद्भागोऽस्य मन्दिरः
-wordlist-
ऊरुसन्धि (स्त्री), वङ्क्षण (पुं), सक्थि (क्ली), ऊरु (पुंस्त्री), जानु (पुंक्ली), नलकील (पुं), अष्ठीवत् (पुंक्ली), मन्दिर (पुं)
--source--
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ९८९
मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः
आलयो निलयः शाला सभोदवसितं कुलम् ९९०
धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः
ओको निवास आवासो वसतिः शरणं क्षयः ९९१
धामागारं निशान्तं कुट्टिमं त्वस्य बद्धभूः
-wordlist-
गेहभू (स्त्री), वास्तु (पुंक्ली), गेह (पुंक्ली), गृह (पुंक्ली), वेश्मन् (क्ली), निकेतन (क्ली), मन्दिर (स्त्रीक्ली), सदन (क्ली), सद्मन् (क्ली), निकाय्य (पुं), भवन (पुंक्ली), कुट (पुं), आलय (पुं), निलय (पुं), शाला (स्त्री), सभा (स्त्री), उदवसित (क्ली), कुल (क्ली), धिष्ण्य (क्ली), आवसथ (क्ली), स्थान (क्ली), पस्त्य (क्ली), संंस्त्याय (पुं), आश्रय (पुं), ओकस् (क्ली), निवास (पुं), आवास (पुं), वसति (स्त्री), शरण (क्ली), क्षय (पुं), धामन् (क्ली), अगार (क्ली), निशान्त (क्ली), कुट्टिम (क्ली), बद्धभू (स्त्री)
अभिधानरत्नमाला
Sanskrit
आवास
आवास, आवसथ, गृह, भवन, स्थान, निशान्त, कुल, संस्त्याय, निलय, निकाय्य, उटज, गेह, कुट, मन्दिर, धिष्ण्य, धामन्, निकेतन, सदन, पस्त्य, वास्तु, क्षय, शाला, वेश्मन्, निवेशन, उदवसित, सद्मन्, ओकस्, शरण, अगार, निवसन, आलय
आवासावसथं गृहं भवनं स्थानं निशान्तं कुलं,
संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम्
धिष्ण्यं धाम निकेतनं सदनं पस्त्यं वास्तु क्षयः
शाला वेश्म निवेशनोदवसिते प्रोक्ते सद्मौकसी २९१
शरणमगारं निवसनमालय एकार्थवाचकाः शब्दाः
verse 2.1.1.291
page 0035
नाममाला
Sanskrit
सदन, सद्म, भवन, धिष्ण्य, वेश्मन्, मन्दिर, गेह, निकेतन, आगार, निशान्त, निवृत, गृह, वसति, आवसथ, आवास, स्थान, धामन्, आस्पद, पद, निकाय, निलय, पस्त्य, शरण, आलय
सदनं सद्म भवनं धिष्ण्यं वेश्माथ मन्दिरम्
गेहं निकेतनागारं निशान्तं निवृतं गृहम् १३२
वसत्यावसथावासं स्थानं धामास्पदं पदम्
निकायं निलयं पस्त्यं शरणं विदुरालयम् १३३
verse 0.1.1.132
page 0067
शब्दकल्पद्रुमः
Sanskrit
मन्दिरं,
क्ली,
(मन्द्यते सुप्यतेऽत्र मन्द्यते स्तूयतेइति वा मदि स्वपने स्तुतौ + “इषिमदिमुदीति ।” उणा० १५२ इति किरच् ।)गृहम् इत्यमरः
“मन्द्यतेसुप्यतेऽत्र मन्दिरम् मदि स्वपने जाड्ये मदेमोदे स्तुतौ गतौ नाम्नीति इरः नगरं मन्दिरंपुरमिति पुंनपुंसकयोररुणेन पठ्यते स्त्रियांमन्दिरा प्रयोगश्च मन्दिरायास्त्वरावानितिमधुमुकुटादयः ।” इति तट्टीकायां भरतः
*
अथ भगवन्मन्दिरनिर्म्माणमाहात्म्यम् ।“यः कारयेन्मन्दिरं केशवस्यपुण्याँल्लोकान् जयेच्छाश्वतान् वै ।दत्त्वावासान् पुष्पफलाभिपन्नान्भोगान् भुङ्क्ते कामतः श्लाघनीयान्
आसप्तमं पितृकुलं तथा मातृकुलं नरः ।तारयेदात्मना सार्द्धं विष्णोर्म्मन्दिरकारकः
इमाश्च पितरो दैत्यगाथा गायन्ति योगिनः ।पुरतो यदुसिंहस्य ह्यनघस्य तपस्विनः
अपि नः स्वकुले कश्चिद्विष्णुभक्तो भविष्यति ।हरिमन्दिरकर्त्ता यो भविष्यति शुचिव्रतः
”इति वामने शेषाध्यायः
*
अपि अग्निपुराणे ।“ये ध्यायन्ति सदा बुद्ध्या करिष्यामो हरे-र्गृहम् ।तेषां विलीयते पापं पूर्व्वजन्मशतोद्भवम्
”किञ्च ।“समतीतं भविष्यञ्च कुलानामयुतं नरः ।विष्णुलोकं नयत्याशु कारयेद्वा हरेर्गृहम्
”किञ्च ।“लक्षेणाथ सहस्रेण शतेनार्द्धेन वा हरेः ।तुल्यं फलं समाख्यातमिहेश्वरदरिद्रयोः
”विष्णुधर्म्मोत्तरे तृतीयकाण्डे ।“कृत्वा वासगृहं तस्य देवस्य परमेष्ठिनः ।राजसूयाश्वमेधानां फलेन सह युज्यते
प्रासादे मृण्मये पुण्यं मयैतत् कथितंद्विजाः ।तस्माद्दारुमये पुण्यं कृते शतगुणं भवेत्
ततो दशगुणं पुण्यं तथा शैलमये भवेत् ।ततो दशगुणं लौहे ताम्रे शतगुणं ततः
सहस्रगुणितं रौप्ये तस्मात् फलमपाश्नुते ।ततः शतसहस्रं वै सौवर्णे द्बिजसत्तमाः
अनन्तं फलमाप्नोति रत्नचित्रे मनोहरे
”स्कान्दे ।“आरम्भे कृष्णधिष्ण्यस्य सप्तजन्मनि यत् कृतम् ।पापं विलयमाप्नोति नरकादुद्धरेत् पितॄन्
प्रासादपादे कृष्णस्य यावत्तिष्ठन्ति रेणुकाः ।तावद्वर्षसहस्राणि वसते विष्णुसद्मनि
प्रासादे कृष्णदेवस्य चित्रकर्म्म करोति यः ।वसते विष्णुलोके तु यावत्तिष्ठन्ति सागराः
”नारसिंहे ।“यः कुर्य्याच्छोभनं वेश्म नरसिंहस्य भक्तिमान् ।सर्व्वपापविनिर्म्मुक्तो विष्णुलोकमवाप्नयात्
”हयशीर्षे ।“देवागारं करोमीति मनसा यस्तु चिन्तयेत् ।तस्य कायगतं पापं तदह्रा विप्र ! नश्यति ।कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु
अष्टेष्टकासमायुक्तं यः कुर्य्याद्वैष्णवं गृहम् ।न तस्य फलसम्पत्तिर्व्वर्क्तुंशक्येत केनचित्
अनेनैवानुमेयन्तु फलं प्रासादविस्तरात् ।मरणञ्च व्रजेन्मर्त्यो यः कृत्वा प्रथमेष्टकाम्
समाप्तस्य यज्ञस्य फलं प्राप्नोत्यसं शयम्
”विष्णुरहस्ये ।“बाल्ये क्रीडमाना ये पांशुभिर्भवनं हरेः ।वासुदेवस्य कुर्व्वन्ति तेऽपि तल्लोकगामिनः
”आदिपुराणे ।“लेपनाच्छदनञ्चैव यः करोति पुनर्नरः ।देवस्यायतनं कृत्वा भवेत् कीटजं भयम्
”अथ मन्दिरनिर्म्माणकालः मात्स्ये ।“चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः ।वैशाखे धनरत्नानि ज्यैष्ठे मृत्यं तथैव
आषाढे भृत्यरत्नानि पशुवर्णमवाप्नुयात् ।श्रावणे मित्रलाभन्तु हानिं भाद्रपदे तथा
पत्नीनाशञ्चाश्वयुगे कार्त्तिके धनधान्यकम् ।मार्गशीर्षे तथा भक्तं पौषे तस्करजं भयम् ।लाभन्तु बहुशो विद्यादग्निं माघे विनिर्द्दिशेत्
काञ्चनं फाल्गुने पुत्त्रानिति कालबलं स्मृतम् ।अश्विनी रोहिणी मूलमुत्तरा-त्रयमैन्दवम्
स्वाती हस्तानुराधा गृहारम्भे प्रशस्यते ।आदित्यभौमवर्ज्जञ्च सर्व्वे वाराः शुभावहाः
वज्रव्याघातशूलानि व्यतीपातातिगण्डके ।विष्कम्भगण्डपरिघान् वर्ज्य योगेषु कारयेत्
श्वेतमैत्रे माहेन्द्रे गान्धर्व्वाभिजिद्रौहिणे ।तथा वैराजसावित्रे मुहूर्त्ते गृहमारभेत्
चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् ।स्तम्भोच्छ्रादि प्रकर्त्तव्यमन्यत्र परिवर्ज्जयेत्
”हयशीर्षे ।“वास्तुकर्म्म चारभ्यं वर्षाकाले विजानता ।कृष्णपक्षे त्रिभागान्ते शुक्लपादौ द्वितीयके
चतुर्थी नवमी वर्ज्ज्या तिथिश्चापि चतुर्द्दशी ।भौमस्य तु दिनं वर्ज्ज्यं करणं विष्टिसंज्ञितम्
क्षित्यन्तरीक्षदिव्योत्थैरुत्पातैर्भयपीडितम् ।उपस्पृष्टं ग्रहैर्भञ्च व्यतिपातहतं तथा
चन्द्रतारानुकूले कार्य्यं कर्म्म विजानता ।ध्रुवाणि चात्र शस्तानि नैरृतं शक्रदैवतम्
पुष्यं पौष्णञ्च सावित्रं वायव्यं वैष्णवं तथा ।स्थिरांशे स्थिरे लग्ने कर्त्तुश्चोपचयात्मके
केन्द्रे सौम्यग्रहो यस्य त्रिकोणे तु सुरोत्तम ! ।पापश्चोपचयस्थाने तदा कार्य्यं समारभेदिति
”अथ प्रासादस्थानम् हयशीर्षे ।“पूर्व्वं देवकुलं पीड्य प्रासादं स्वल्पकन्तथा ।समं वाप्यधिकं वापि कर्त्तव्यं विजानता
उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रायसंमि-ताम् ।प्रासादं कारयेदन्यं नोभयं पीडयेद्बुधः
*
अथ स्थानशोधनानि देवीपुराणे ।“देवो विष्णुस्तथा रुद्रो ब्रह्माद्याः सुरसत्तमाः ।प्रतिष्ठाप्याः शुभे स्थाने अन्यथा ते भयावहाः
गर्त्तादिलक्षणा धात्री गन्धस्वादेन या भवेत् ।वर्णेन सुरश्रेष्ठ ! सा मही सर्व्वकामदा
”मात्स्ये ।“पूर्व्वं भूमिं परीक्षेत पश्चात् वास्तुं प्रकल्पयेत् ।श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्व्वशः
विप्रादेः शस्यते भूमिरतः कार्य्यं परीक्षणम् ।विप्राणां मधुरास्वादा कषाया क्षत्त्रियस्य
कषाये कटुता तद्वद्वैश्यशूद्रेषु शस्यते ।अरत्निमात्रे वै गर्त्ते स्वनुलिप्ते सर्व्वतः
घृतमामशरावस्थं कृत्वा वर्त्तिचतुष्टयम् ।ज्वालयेद्भूपरीक्षार्थं पूर्णं तत् सर्व्वदिङ्मुखम्
दीप्त्या पूर्व्वादि गृह्णीयाद्वर्णानामनुपूर्व्वशः ।वास्तुः समूहिको नाम दीप्यते सर्व्वतस्तु यः
शुभदः सर्व्ववर्णानां प्रासादेषु गृहेषु ।अरत्निमात्रकं गर्त्तं परीक्ष्यं खातपूरणे
अधिके श्रियमाप्नोति न्यूने हानिं समे समम् ।फालकृष्टेऽथवा देशे सर्व्वबीजानि रोपयेत्
त्रिपञ्चसप्तरात्रेण यत्र रोहन्ति तान्यपि ।ज्येष्ठा मध्या कनिष्ठा भूर्व्वर्ज्जनीयेतरा सदा
”हयशीर्षे ।“सुरभीणां रतिर्यत्र सवत्सानां वृषः सह ।सुन्दरीणां रतिर्यत्र पुरुषैः सह सत्तम !
राज्ञां पूर्व्वं गृहं यस्यामग्नीनां यज्विनां तथा ।काश्मीरचन्दनामोदा कर्पूरागुरुगन्धिनी
कमलोत्पलगन्धा जातीचम्पकगन्धिनी ।पाटलामल्लिंकागन्धा नागकेशरगन्धिनी
दधिक्षीराज्यगन्धा मदिरासवगन्धिनी ।सुगन्धिब्रीहिगन्धा शुभद्रव्यस्वना या
सर्व्वेषां वर्णिनां भूमिः सर्व्वसाधारणा मता ।दुर्गन्धा दुःस्वना या नानावर्णा दुर्भगा
वृत्तार्द्धचन्द्रसदृशा विस्ताराद्द्विगुणायता ।विवर्णा वर्णहीना वक्रा शुचिमुखी तथा
द्विवर्णा सूर्पसदृशी गोमुखी त्रिकोणिका ।षडस्रा शूलसदृशी दन्तिपृष्ठोपमा या
सरीसृपसमा या दिङ्मुखा शकटाकृतिः ।एवं प्रकारा या भूमिर्व्वर्ज्ज्या यत्नेन देशिकैः
”किञ्च ।“प्रासादस्य विशेषेण प्रोक्ता भूमिश्चतुर्व्विधा ।सुपद्मा भद्रिका पूर्णा धूभ्रा रागिण्यथापरा
तिलकैर्नारिकेलैश्च वर्हिःकाशैश्च शोभिता ।पद्मेन्दीवरसंयुक्ता सा सुपद्मेति विश्रुता
नदीसमुद्रायतनतीर्थपर्य्यन्तशोभिता ।पुष्पवृक्षसमाकीर्णा क्षीरवृक्षोपशोभिता
वनोद्यानलतागुल्मफुल्लस्तम्बसमावृता ।यज्ञीयवृक्षसुक्षेत्रयुक्ता भद्रेति कीर्त्तिता
बकुलाशोकबहुला तथा प्लक्षाम्रलोहितैः ।माधवीवेष्टिता या मुद्गनिष्पावकोद्रवैः
शूकधान्यैश्च पुन्नागैर्गिरिपार्श्वगता या ।तोयञ्च स्वल्पकं यस्यां सा पूर्णा परिकीर्त्तिता
विल्वार्कस्नुहिपीलूनां वनैर्य्या पारतो वृता ।सशर्करा कठिना युक्ता कण्टकिभिर्द्रुमैः
गृध्रगोमायुकाकानां श्येनानां या कुलाकुलैः ।धूम्रेति कीर्त्तिता सा तु तां यत्नात् परिवर्ज्जयेत्
ततो भूमिं परीक्षेत पूर्व्वोदक्प्लवनां शुभाम् ।असङ्कटां तथाच्छन्नामल्पतोयां परिप्लुताम्
संपूर्य्यमाणे खाते तु तथाधिकमृदं शुभाम् ।कुसुम्भसदृशं वर्णं यस्यां म्लानिमृच्छति
निर्व्वाति तथा दीपस्तीयं शीघ्रं जीर्य्यते ।श्वेतारुणा पीतकृष्णा विप्रादीनां प्रशस्यते
आज्यसद्गन्धमद्यानां तुल्यगन्धा तु या भवेत् ।मधुरा कषाया अम्ला कटुका या
कुशैः शरैस्तथा काशैः दूर्व्वाभिर्या संवृता ।तस्यां पुण्येऽथ नक्षत्रे कुर्य्याद्भूमिपरिग्रहम्
”अथ भूमिपरिग्रहः तत्रैव ।“प्राकारसीमापर्य्यन्तं ततो भूतबलिं हरेत् ।मांसं हरिद्राचूर्णञ्च सलाजदधिशक्तवः
एभिर्भूतबलिं दत्त्वा सूत्रमष्टाक्षरेण तु ।पातयित्वा ततः शङ्कूनष्टदिक्षु निवेशयेत्
राक्षसाश्चापि भूताश्च येऽस्मिंस्तिष्ठन्ति भूतले ।ते सर्व्वे व्यपगच्छन्तु स्थानं कुर्य्यामहं हरेः
इत्यनुज्ञाप्य भूतादीन् तां भूमिं परिशोधयेत् ।आदित्यादिग्रहाणाञ्च लोकपालैः समं कृती
आर्य्यमिष्टविधानेन ततो वै होममाचरेत् ।चतुर्होमं ततः कुर्य्यान्मूलमन्त्रेण देशिकः
दद्यात् पूर्णाहुतिं पश्चात् वौषडन्तेन देशिकः ।वृषभौ कपिलौ गृह्य सवर्णौ वा विचक्षणः ।योजनार्थं हलञ्चैव गृह्णीयादसनोद्भवम्
प्राङ्मुखं योज्य मन्त्रज्ञो वस्त्रालङ्कारभूषितः ।आसनीं यष्टिमादाय द्वादशाक्षरविद्यया
संमर्द्देन समीकृत्य शुभबीजानि वापयेत् ।संप्राप्ते शुभकाले तु गोभिस्तत् खादयेद्बुधः ।पुनस्तं कर्षयित्वा तु समीकृत्य गृहं गुरुः
”मात्स्ये ।“हीनाधिकां गतां वास्तोः सर्व्वतः परिवर्ज्जयेत् ।नगरग्रामदेशेषु सर्व्वत्रैव विवर्ज्जयेत्
*
अथ दिक्साधनम् हयशीर्षे ।“बाह्यवास्तु समं कृत्वा चतुरस्रं समन्ततः ।भूमिं तोयसमां कृत्वा दर्पणोदरसन्निभाम्
द्वादशाङ्गुलमानेन चाष्टौ वारांस्तु भ्रामयेत् ।मध्ये सुनिश्चलं शङ्कुं स्थाप्य च्छायां निरी-क्षयेत्
प्रवेशे निष्क्रमे तस्यां शङ्कुच्छायां निरूपयेत् ।वैषुवे विमले व्योम्नि शङ्कुना साधयेद्दिशम्
शरद्वसन्तयोरेवमादित्यात् साधयेद्दिशम् ।प्राचीं वा पुष्पवेधेन विचित्रामन्तरेण वा
उदीचीं ध्रुववेधेन मध्ययोगेन चोन्नयेत् ।चतुरस्रां शिलां गृह्य इष्टकां वा सुशोभनाम्
चतुर्द्दिक्षु निवेश्याथ सूत्रचिह्रन्तु कारयेत् ।एवं कृत्वा सूत्रचिह्रं ब्राह्मणांस्तत्र भोजयेत् ।वैष्णवान् पायसेनाग्र्यान् द्वादशैव समाहितः
”अथ शल्योद्धरणम् मात्स्ये ।“गृहारम्भेति कण्डूतिः स्वाम्यङ्गे यत्र जायते ।शल्यन्त्वपनयेत्तत्र प्रासादे भवनेऽथवा ।सशल्यं भयदं यस्मादशल्यं भयनाशनम्
”हयशीर्षे ।“आदिशेद्वास्तुनः शल्यं गृहिणोऽङ्गविकारतः ।शकुनो दृश्यते वापि यस्य वा श्रूयते ध्वनिः ।कीर्त्त्यते यस्य वै नाम शल्यं तस्य विनिर्द्दिशेत्
”अथ वास्तुमण्डलम् मात्स्ये ।“पञ्चगव्यौषधिजलैः परीक्षित्वावसेचयेत् ।एकाशीतिपदं कुर्य्याद्रेखाभिः कनकेन तु
पश्चाल्लेप्येन चालिप्य सूत्रेणालोड्य सर्व्वतः ।दश पूर्व्वायता रेखा दश चैवोत्तरायताः
सर्व्ववास्तुविभागेषु विज्ञेया नवका नव ।एकाशीतिपदं कृत्वा वास्तुवित् सर्व्ववास्तुषु
पदस्थान् पूजयेद्देवान् त्रिंशत् पञ्चदशैव ।द्बात्रिंशद्वाह्यतः पूज्याः पूज्याश्चान्ते त्रयोदश
नामतस्तान् प्रवक्ष्यामि स्थानानि निबोधमे ।ईशकोणादिषु सुरान् पूजयेच्च विधानतः
शिखी चैवाथ पर्ज्जन्यो जयन्तः कुलिशायुधः ।सूर्य्यः सत्यो भृशश्चैव आकाशो वायुरेव
पूषा वितथश्चैव गृहक्षतयमाबुभौ ।गन्धर्व्वो भृङ्गराजश्च मृगाः पितृगणस्तथा
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ।असुरः शोषपापौ रोगोऽहिर्मुख्य एव
भल्लाटः सोमसूर्य्यौ अदितिश्च दितिस्तथा ।वहिर्द्वात्रिंशदेते तु तदन्तश्च सुरान् शृणु
ईशानादिश्चतुष्कोणे संस्थितान् पूजयेद्बुधः ।आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव
मध्ये नवपदो ब्रह्मा तस्याष्टौ समीपगाः ।सर्व्वानेकोत्तरान् विद्यात् पूर्व्वादीन्नामतः शृणु
अर्य्यमा सविता चैव विवखान् विबुधाधिपः ।मित्रोऽथ राजयक्ष्मा तथा पृथ्वीधरःक्रमात्
अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः ।अर्य्यमा विवस्वांश्च मित्रः पृथ्वीधरस्तथा
ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्व्वतः ।आपश्चैवापवत्सश्च पर्ज्जन्योऽग्निर्द्दितिस्तथा
पदिकानाञ्च वर्गोऽयमेवं कोणेष्वशेषतः ।तन्मध्ये तु वहिर्व्विंशद्द्विपदास्ते तु सर्व्वतः
अर्य्यमा विवस्वांश्च मित्रः पृथ्वीधरस्तथा ।ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्व्वतः
वंशानिदानीं वक्ष्यामि रज्जूरपि पृथक् पृथक् ।वायुं यावत्तथा रोगात् पितृभ्यः शिखिनन्तथा
मुख्याद्भृशं तथा शोषाद्बितथं यावदेव तु ।सुग्रीवाददितिं यावत् भृङ्गात् पर्ज्ज्यन्यमेव
एते वंशाः समाख्याताः क्वचिद्रज्जव एव तु ।एतेषां यस्तु सम्पातः पदमध्यं समं तथा
समं चैतत् समाख्यातं त्रिशूलं कोणगञ्च यत् ।स्तम्भन्यासेषु वर्ज्यानि तुलाविधिषु सर्व्वदा
कीलोत्सृष्टोपधानादि वर्ज्जयेद्यत्नतो नरः ।सर्व्वत्र वास्तुनिर्द्दिष्टः पितृवंशोत्तरायतः
मूर्द्धन्यग्निः समाविष्टो मुखे चापः समास्थितः ।पृथ्वीधरोऽर्य्यमा चैव स्तनयोस्तावधिष्ठितौ
वक्षःस्थले त्वापवत्सः पूजनीयः सदा बुधैः ।नेत्रयोर्द्दितिपर्ज्जन्यौ श्रोत्रे दितिजयन्तकौ
सर्पेन्द्रा वंशसंस्थौ तु पूजनीयौ प्रयत्नतः ।सूर्य्यः सोमादयस्तद्वद्बाह्वोः पञ्च पञ्च
रुद्रश्च राजयक्ष्मा वामहस्तं समाश्रितौ
सावित्रः सविता तद्वद्धस्तं दक्षिणमाश्रितौ ।विवस्वानथ मित्रश्च जठरे संव्यवस्थितौ ।पूषा पापयक्ष्मा हस्तयोर्म्मणिबन्धने
तथैवासुरशोषौ वामपार्श्वं समाश्रितौ ।पार्श्वे तु दक्षिणे तद्वद्वितथः सगृहक्षतः
उर्व्वोऽर्य्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्व्वपुष्पकौ ।जङ्घयोर्मृगसुग्रीवौ स्फिक्स्थौ दौवारिको मृगः
जयः शक्तस्तथा मेढ्रे पादयोः पितरस्तथा ।मध्ये नवपदो ब्रह्मा हृदये तु पूज्यते
चतुःषष्टिपदो वास्तु प्रासादे ब्रह्मणः स्मृतः ।ब्रह्मा चतुष्पदस्तद्वत् कोणेष्वेकपदास्तथा
बहिःकोणेषु चाष्टौ तु सार्द्धाश्चोभयतः स्मृताः ।विंशतिर्द्विपदास्तेषां चतुःषष्टिपदे स्मृतः
*
हयशीर्षे ।“वास्त्वङ्गं सूत्रयेत् प्राज्ञः श्वेताम्बरधरः शुचिः ।श्वेतगन्धानुलिप्ताङ्गः सर्व्वालङ्कारभूषितः
चतुःषष्टि तु प्रासादे एकाशीति गृहे सदा ।चतुरस्रीकृते क्षेत्रे अष्टधोभयभाजिते
कोणरेखां ततो दत्त्वा सुरभागांस्तु कल्पयेत् ।शिवः कोणार्द्धतो ज्ञेयः पर्ज्जन्यः पदसंस्थितः
द्विपदस्थो जयो ज्ञेयः सुरेशश्चैकपादिकः ।भास्करस्तु पदे ज्ञेयो द्विपदः सत्य इष्यते
भृशः पदस्थो विज्ञेयो व्योमश्चैव पदार्द्धगः ।हुताशनः पदार्द्धश्च पूषा पदसंस्थितः
वितथो द्विपदस्थश्च पदैकश्च गृहक्षतः ।वैवस्वतः पदैकस्थो गन्धर्व्वो द्विपदस्थितः
भृङ्गश्चैकपदो ज्ञेयो मृगश्चार्द्धपदे स्थितः ।पितरश्चार्द्धतो ज्ञेयाः पदे दौवारिकस्तथा
सुग्रीवश्च पदे ज्ञेयो ह्येकस्थः पुष्पदन्तकः ।यादसाम्पतिरेकस्थो ह्यसुरस्तु हि संस्थितः
शोषश्चैकपदे ज्ञेयो ह्यर्द्धगः पाप इष्यते ।रोगश्चार्द्धपदे ज्ञेयो नागश्चापि पदे स्थितः
मुख्यश्च द्विपदे ज्ञेयो भल्लाटः पदसंस्थितः ।यज्ञेश्वरः पदे ज्ञयो नागस्तु द्बिपदे स्थितः ।पदस्था श्रीमहादेवी अदितिश्चार्द्धसंस्थिता ।आपो ज्ञेयास्तु पदगा बली द्विपदसंस्थितः
चतुष्पदस्थो विज्ञेयस्त्वर्य्यमा पूर्व्वमध्यगः ।सविता तु पदे ज्ञेयः सावित्री पदे स्थिता
ततो विवस्वान् विज्ञेयश्चतुष्टयपदे स्थितः ।इन्द्रश्चन्द्रो जयश्चैव एकैके संव्यवस्थिताः
मित्रश्चतुष्पदस्थश्च पश्चिमे तु व्यवस्थितः
रुद्रः पदैकसंस्थो वै यक्ष्मा वैकपदे स्थितः ।धराधरश्च विज्ञेयो ह्युत्तरे चतुष्पदः ।चतुर्मुखश्चतुष्कस्थो मध्ये ज्ञेयः प्रजापतिः
”अथ वास्तुपूजा मात्स्ये ।“अथातः संप्रवक्ष्यामि प्रासादविधिनिर्णयम् ।वास्तौ परीक्षिते सम्यग्वास्तुदेहविचक्षणाः
वास्तूपशमन कुर्य्यात् पूर्व्वमेव विचक्षणः ।एकाशीतिपदं लिख्य वास्तुमध्ये तु पिष्टकैः
होमस्त्रिमेखले कार्य्यः कुण्डे हस्तप्रमाणके ।यवैः कृष्णतिलैस्तद्वत् समिद्भिः क्षीरवृक्षजैः
पालाशैः खादिरैर्व्वापि मार्गोडम्बरसम्भवैः ।कुशदूर्व्वामयैर्व्वापि मधुसर्पिःसमन्वितैः
कार्य्यस्तु पञ्चभिर्व्विल्वैर्व्विल्वबीजैरथापि वा ।होमान्ते भक्ष्यभोज्यैश्च वास्तुदेशे बलिं हरेत्
तद्बद्बिशेषनैवेद्यमिदं दद्यात् क्रमेण तु ।ईशकोणे घृतान्नन्तु शिखिने विनिवेदयेत्
ओदनं सफलं दद्यात् पर्ज्जन्याय घृतान्वितम् ।जयन्ताय ध्वजं पीतं पैष्टं कूर्म्मञ्च संत्यजेत्
इन्द्राय पञ्च रत्नानि पैष्टकं कुलिशं तथा ।वितानकञ्च सूर्य्याय धूम्रं रक्तं तथैव
सत्याय घृतगोधूमं मत्स्यान् दद्याद्भृशाय ।शष्कुलीं चान्तरीक्षाय दद्याच्छक्तुञ्च वायवे
पूष्णे लाजास्तु दातव्या वितथे चणकोदनम् ।गृहक्षताय मध्वन्नं यमाय पिशितौदनम्
गन्धौदनञ्च गन्धर्व्वे भृङ्गे मेषस्य शृङ्गकम् ।मृगाय यावकं दद्यात् पितृभ्यः कृशरा मताः
दौवारिके दन्तकाष्ठं पैष्टं कृष्णं बलिं तथा ।सुग्रीवे पूपकं दद्यात् पुष्पदन्ताय पायसम्
कुशस्तम्बेन सहितं दद्यात् पद्मञ्च वारुणे ।पैष्टं हिरण्मयं दद्यादसुराय सुरा मता
घृतौदनं शोषाय गोधां वै पापयक्ष्मणे ।घृतलड्डुकांश्च रोगाय नागे पुष्पं फलान्वि-तम्
सर्पिर्मुख्याय दातव्यं मुद्गौदनमतः परम् ।भल्लाटाय ततो दद्यात् सोमाय घृतपायसम्
सर्पाय पैष्टं शालूकमदित्यै लोपिकास्तथा ।दित्यै तु पूरिकां दद्यात् इत्येवं बाह्यतो बलिम्
क्षीरमापाय दातव्यमापवत्साय वै दधि ।सवित्रे लड्डुकान् दद्यात् समरीचान् कुशौ-दनम् ।सवितुर्गुडपूपांश्च जयाय घृतचन्दनम् ।विवस्वते तथा दद्यात् रक्तचन्दनपायसम्
हरितालौदनं दद्यादिन्द्राय घृतसंयुतम् ।घृतौदनञ्च मित्राय रुद्राय घृतपायसम्
आमं पक्वं तथा मांसं देयं स्याद्राजयक्ष्मणे ।पृथ्वीधराय मांसानि कुष्माण्डाय दापयेत्
सशर्करान्नं संदद्यादर्य्यम्ने सर्व्वतः क्रमात् ।नमस्कारान्तयुक्तेन मन्त्रेण पुनरेव
पञ्चगव्यं यवांश्चैव तिलाक्षतहविश्चरून् ।भक्ष्यं भोज्यञ्च विविधं ब्रह्मणे विनिवेदयेत्
एवं सम्पूजिता देवाः शान्तिं कुर्व्वन्ति ते सदा ।सुरेभ्यः काञ्चनं दद्याद्ब्रह्मणे गां पयस्विनीम्
राक्षसीनां बलिर्द्देयः अपि यादृक् तथा शृणु ।मांसौदनं घृतं पद्मं केशरं हविषान्वितम् ।ईशानभागमाश्रित्य चरक्यै विनिवेदयेत्
दध्योदनं सरुधिरमस्थिखण्डैश्च संयुतम् ।पीतरक्तबलिं दद्यात् पूतना या तु राक्षसी
वायव्ये पापराक्षस्यै मत्स्यमांससुरासवम् ।पायसं वापि दातव्यं स्वनाम्ना सर्व्वतः क्रमात् ।नमस्कारान्तयुक्तेन प्रणवाद्येन सर्व्वतः
*
ततः सर्व्वौषधिस्नानं यजमानस्य कारयेत् ।द्विजांस्तु पूजयेद्भक्त्या ये चान्ये गृहमागताः
एतद्बास्तपशमनं कृत्वा कर्म्म समारभेत् ।प्रासादभवनोद्यानप्रारम्भे परिवर्त्तने
परवेश्मप्रवेशेषु सर्व्वदोषापनुत्तये ।इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत्
रक्षोघ्नपवमानेन सूत्रेण भवनादिकम् ।नृत्यमङ्गलवाद्येन कुर्य्याद्ब्राह्मणवाचनम्
अनेन विधिना यस्तु प्रतिसंवत्सरं बुधः ।गृहे वायतने कुर्य्यान्न दुःखमवाप्नुयात्
व्याधिभयं तस्य बन्धुधनक्षयः ।जीवेद्वर्षशतं स्वर्गे कल्पमेकं वसेन्नरः
*
हयशीर्षपञ्चरात्रे ।“एवं प्रगृह्य काष्ठानि रजसापूर्य्य देशिकः ।एतेषामेव देवानां बलिं दद्यात्तु कामिकम्
ईशानाय प्रदातव्यं पायसं मधुना सह ।पर्ज्जन्याय जलं देयं पुष्पगन्धादिवासितम्
जयन्ताय प्रदातव्या पताका पीतवर्णिका ।सुरेशाय रत्नानि भाष्कराय घृतं तथा
धूम्रकं पीतवर्णं वा सत्ये दद्याद्वितानकम् ।दद्याद्भृशे पक्षिमांसं व्योमाय त्वचमग्नये
पूष्णे धानाः सलाजास्तु सुवर्णं वितथे तथा ।गृहक्षताय मध्वन्नं यमाय पिशितौदनम्
गन्धं गन्धर्व्वदेवाय भृङ्गे दद्यात्तु शाकुनम् ।मृगे तिलयवांश्चैव पितृभ्यः कृशरं तथा
दौवारिके दन्तकाष्ठं सुग्रीवे यावकं तथा ।पुष्पदन्ते कुशा देया वरुणे पद्ममुत्पलम्
असुरायैक्षवं देयं रसं शोषे घृतौदनम् ।यवास्तु देयाः पापाय रोगाय घृतमण्डकम्
नागाय नागपुष्पाणि भक्ष्यान् मुख्याय दापयेत् ।चित्रौदनञ्च भल्लाटे सोमाय मधुपायसम्
नागाय चापि शालूकं श्रिये सरसपायसम् ।अदित्यै पूरिका देया क्षीरं चाद्भ्यो ददेद्वलिम्
दधि क्षीरं चापवल्ल्यै अर्य्यम्ने लड्डुकं बलिम् ।कुशोदकं सवित्रे सावित्र्यै गुडपूर्व्वकम्
विवस्वते रक्तपुष्पं रक्तचन्दनमेव ।हरिद्रान्नं तथेन्द्राय साज्यामन्तु जयाय
घृतपूरन्तु मित्राय रुद्राय गुडपायसम् ।आमपक्वानि मांसानि प्रदद्याद्राजयक्ष्मणे
पृथ्वीधरायाममांसं खड्गिमांसं बलिं हरेत् ।साक्षतं सलिलञ्चैव पञ्चगव्यं तथा चरुम्
कुशान् गन्धं तथा पुष्पं ब्रह्मस्थाने निवेशयेत् ।आममांसं पूर्व्वभागे सर्व्वस्कन्धे तुषोदकम्
सितपद्मं घृतं मांसं विदार्य्यै चाग्निकोणके ।कुशं वा पूपकं मांसमर्य्यम्णयेव दक्षिणे
पिण्डञ्चैव तथा रक्तं पूतन्यै नैरृते तथा ।सासृङ्मांसं प्रदातव्यं जृम्भकायैव पश्चिमे
अग्निखण्डेन सहितं रक्तपिण्डेन मिश्रितम् ।प्रदेयं पापराक्षस्यै वायव्यां मांसमेव
उत्तरे पिलिपिच्छायै सान्द्रं रक्तं बलिं हरेत् ।वाराह्यै छागमांसानि ऐशान्यां दिशि दापयेत्
ततो भूतगणानान्तु राक्षसानां सुरोत्तम ! ।पिशाचानां गणानान्तु बलिर्देयस्तु कामिकः
एतान् वा पूजयेत् सर्व्वान् कुशपुष्पाक्षतैर्बुधः ।एवं संपूजिता देवाः शान्तिपुष्टिप्रदा नृणाम्
अपूजिता विहिंसन्ति कारकं स्थापकं तथा ।तस्मादेतांस्तु संपूज्य गन्धपुष्पैर्मनोहरैः ।प्रासादं कारयेद्विद्वान् गृहं वा सुरसत्तम !
”अथ प्रासादमूलारम्भः तत्रैव ।“ब्रह्मस्थाने ततः कुर्य्याद्वासुदेवस्य पूजनम् ।श्रियः संपूजनं कुर्य्यात् हृषीकेशगणस्य
पूजनन्तु ततः कुर्य्याद्वासुदेवगणस्य ।गन्धाढ्यपुष्पनैवेद्यधूपदीपैः सुरोत्तम !
ततः संपूजयेत्तस्मिन् सर्व्वलोकधरां महीम् ।सुरूपां प्रमदारूपां विद्याभरणभूषिताम्
ध्यात्वा समर्च्चयेद्देवीं परितुष्टां स्मिताननाम् ।ततः प्रणम्य विज्ञाप्य तन्मयत्वेन चिन्तयेत्
ततः स्वनाममन्त्रेण सर्व्वदेवमयं परम् ।ध्यात्वा समर्च्चयेत्तत्र यत्तद्वास्तुमयं नरः
ब्रह्मस्थाने ततो विद्वान् कुर्य्यादाधारमक्षतैः ।तस्मिन् संस्थापयेत् कुम्भं वर्द्धन्या सह पूजि-तम्
हेमं वा राजतं वापि मृण्मयं वा दृढं नवम् ।सर्व्ववीजौषधीयुक्तं सुवर्णरजतान्वितम्
रत्नगर्भं सुसंपूर्णं वस्त्रपूतेन वारिणा ।प्रशस्तपल्लवोपेतं श्वेतचन्दनचर्च्चितम्
पुष्पैः सुमालितं कृत्वा गन्धपुष्पैर्व्विधूपितम् ।आहतेन शुक्लेन वस्त्रयुग्मेन वेष्टितम्
ब्रह्मस्थाने ततो मन्त्री कलसं स्थाप्य पूजयेत् ।तस्मिंश्चतुर्मुखं देवं प्रजेशं मन्त्रविग्रहम्
गन्धपुष्पैश्च नैवेद्यैः पूजयेत् सुमनोहरैः ।ततो मण्डलबाह्ये तु प्राच्यां वा प्राङ्मुख-स्थितः
आचार्य्यो गृह्य संभारान् ग्रहादींस्तर्पयेत्सुरान् ।घृतैस्तैलैर्यवैर्म्मन्त्रैर्ब्रह्मादींस्तर्पयेत्ततः
प्रजेशं तर्पयेद्विद्वानाहुतीनां शतेन ।इतरान् दशभिर्द्देवानाहुतिभिः प्रतर्पयेत्
दद्यात् पूर्णाहुतिं पश्चात् वौषडन्तेन मन्त्रवित् ।तत्र प्रणम्य विज्ञाप्य कृत्वा वै स्वस्तिवाचनम्
प्रगृह्य कर्करीं सम्यङ्मण्डलन्तु प्रदक्षिणम् ।सूत्रमार्गेण दिव्येन तोयधारान्तु भ्रामयेत्
पूर्व्ववत्तेन मार्गेण सूत्रबीजानि भ्रामयेत् ।सुशोभनं शुभं स्थानं तथा खातस्य कारयेत्
ततो गर्त्तं खनेन्मध्ये हस्तमात्रप्रमाणकम् ।चतुरङ्गुलमात्रं तदधः खन्यात् सुसम्मितम्
गोमयेनोपलिप्याथ चन्दनेन भूषयेत् ।मध्ये दत्त्वा तु पुष्पाणि शुक्लान्यक्षतमेव
आचार्य्यः प्राङ्मुखो भूत्वा ध्यायेद्देवं चतु-र्भुजम् ।तूर्य्यमङ्गलघोषेण ब्रह्मघोषरवेण
अर्घ्यं दद्यात् सुरश्रेष्ठ ! कुम्भतोयेन मन्त्रवित् ।प्रगृह्य कर्क्करीं तावच्छ्वभ्रं प्रपूरयेज्जलैः
सर्व्वरत्नसमाकीर्णैर्व्विमलैः सुसुगन्धिभिः ।तस्मिन् शुक्लानि पुष्पाणि प्रक्षिपेदोमितिस्मरन्
तदावर्त्तं परीक्षेत वेदाद्येनाक्षतं क्षिपेत् ।शुभं स्याद्दक्षिणावर्त्तेऽशुभं वामे भवेत्ततः
बीजैः शालियवादीनां तं गर्त्तं पूरयेद्बुधः ।क्षत्त्रजाभिः पवित्राभिर्मृद्भिर्गर्त्तं प्रपूरयेत्
एवं पुष्पाद्यविधिना चार्घ्यदानं सुरोत्तम ! ।सुवर्णं गां वस्त्रयुगमाचार्य्याय निवेदयेत्
कालज्ञस्थपती पूज्यौ वैष्णवान् शक्तितोऽर्च्चयेत् ।ब्राह्मणान् भोजयित्वा गेयनृत्यादि कारयेत्
ततस्तं खातयेद्यत्नाज्जलान्तं याषदेव तु ।पुरुषाधः स्थितं शल्यं गृहे दोषदं भवेत्
प्रासादे दोषदं शल्यं भवेद्यावज्जलान्तिकम् ।तस्मात् प्रासादिकी भूमिः शोध्या यावज्जला-न्तिकम्
शिवान्तं कर्क्करान्तं वा यावद्वा भूः कुमारिका ।आकोट्यतां समीकृत्य ततो योगं समाचरेत्
”किञ्च ।“पूरयेत् खातकं यत्नात् पादं पादं यथाक्रम् ।आष्टाङ्गुलं मृत्तिकया स्वस्तिकं चेष्टिकादिभिः
सिक्त्वा सिक्त्वा तु तोयेन कलसैः काञ्चनादिभिः ।आकोटनं ततः कुर्य्यात् मुद्गरैर्ब्रह्मवृक्षजैः
पादोनं पूरयेत् खातं सुषमं चैव कारयेत् ।देशिकः पञ्चगव्येन तां भूमिं प्रोक्षयेद्बुधः
सुवर्णब्रीहिगर्भेण चूतपल्लवशोभिना ।तीर्थतोयसुपूर्णेन स्वर्णताम्रमयेण वा
सेचयेदभिजप्तेन वारिणा कलसेन तु ।ततः शुद्वा भवेद्भूमिर्दोषयुक्तापि या भवेत्
”अथ शिलालक्षणं मात्स्ये ।“आदावेवं समासेन शिलालक्षणमुत्तमम् ।शिलान्यासविधानञ्च प्रोच्यते तदनन्तरम् ।शिला वाथेष्टका वापि चतस्रो लक्षणान्विताः ।प्रासादादौ विधानेन न्यस्तव्याः सुमनोहराः
चतुरस्राः समाः कृत्वा समन्तादथ वेष्टकाः ।शिलारूपाः स्मृता विद्या नन्दाद्याश्चेष्टका-त्मिकाः
संपूर्णाः सुतलाः स्निग्धाः सुषमा लक्षणा-न्विताः ।कुशदूर्व्वाङ्किता धन्याः सध्वजच्छत्रचामराः
साङ्कुशास्तोरणोपेताः कूर्म्ममत्स्यफलान्विताः ।दर्पणा हस्तिवज्राङ्काः प्रशस्तद्रव्यलाञ्छिताः
शस्तपक्षिमृगाङ्काश्च वृषाङ्काः सर्व्वदा हिताः ।स्वस्तिका वेदिका शुक्ला नन्द्यावर्त्तकलाञ्छिताः
पद्मादिलक्षणोपेताः शिलाः सर्व्वार्थसिद्धिदाः ।तथा गोवाजिपादाङ्काः शिला धन्याः सुखा-वहाः
क्रव्यादमृगपादाङ्का शस्ताः पक्षिणस्तथा ।दिङ्मूढा दिग्विहीनाश्च दीर्घह्रस्वाः क्षता-न्विताः
विवर्णाः स्फुटिता भग्नाः संत्याज्या लक्षणच्युताः ।प्रशस्तपाणिरूपाङ्काः प्रशस्तद्रव्यलाञ्छिताः
यथोक्तलक्षणोपेताः शिला नित्यहितावहाः
”अथ इष्टकालक्षणम् तत्रैव ।“इष्टकानां समासेन लक्षणं शृणु सांप्रतम् ।एकवर्णाः सुपक्वाश्च सुप्रमाणा मनोरमाः
नन्दाद्याश्चेष्टकाः कार्य्याश्चतुरस्राः सुसंमिताः ।अस्थ्यङ्गारान्विता नेष्टाः कृष्णवर्णाः सशर्कराः
मन्दपक्वा विपक्वाश्च वहुदिन्याश्च वर्ज्जिताः ।भग्नाश्च विषमा हीना वर्ज्जनीयाः प्रयत्नतः
”हयशीर्षपञ्चरात्रे ।“इष्टकानां प्रमाणञ्च लक्षणं सांप्रतं शृणु ।सुतला लक्षणोपेता द्वादश्यङ्गुलसम्मिताः
सुविस्तारविभागेन नैपुण्येन सम्मिताः ।सुपक्वाः सुप्रमाणास्ता एकवर्णा मनोहराः ।विमला इष्टकाः कार्य्याश्चतुरस्राः सुसम्मिताः ।छिन्नकर्णाश्चाप्रशस्ताः पाणिपादविवर्ज्जिताः
सशर्कराः कृष्णवर्णा अस्थ्यङ्गारचिताश्च याः ।विवर्णा मन्दगन्धाश्च याः पीनाः पिण्डिकाश्चयाः
हीनाश्च विषमा भग्ना जर्ज्जराश्च विवर्ज्जिताः
”अथ शिलादिन्यासव्यवस्था मात्स्ये ।“शिलान्यासस्तु कर्त्तव्यः प्रासादे तु शिलामये ।इष्टकानान्तु विन्यासः प्रासादे चेष्टकामये
शैलजे शैलजः पीठ ऐष्टिके ऐष्टिकः स्मृतः ।शिलान्यासादिको भद्रे मूलपादो विधीयते
”हयशीर्षपञ्चरात्रे ।“कर्त्तव्यश्चेष्टकान्यासः प्रासादे चेष्टकामये ।शैले शिलानां विन्यासः कार्करे कर्करा न्यसेत्
कृत्वा शिलादिन्यासे प्राक्शिलाभ्यधिवा-सनम् ।इष्टकानां प्रतिष्ठाञ्च गर्भाधानञ्च कारयेत्
गुरवे दक्षिणां दत्त्वा पीठबन्धञ्च साधयेत् ।स्वयं श्रीहयशीर्षेण प्रोक्तस्तत्तद्विधिः स्फुटम्
”अथ पीठबन्धनम् हयशीर्षे ।“पीठबन्धं ततः कुर्य्यान्महाप्रासादमानतः ।पीठोत्तमं चोच्छ्रयेण प्रासादस्योर्द्ध्वमानतः
यादहीनं मध्यमं स्यात् कन्यसं चार्द्धमानतः ।उत्तमं वासुदेवस्य कुर्य्यात् पीठं विचक्षणः
अथ प्रासादलक्षणानि मातृस्ये ।एवं वास्तुबलिं कृत्वा भजेत् षोडशभागिकम् ।तस्य मध्ये चतुर्भिस्तु भागैर्गर्भञ्च कारयेत्
भागद्वादशकं तत्र भित्त्यर्थं परिकल्पयेत् ।चतुर्भागेन भित्तीनामुच्छ्रायः स्यात् प्रमा-णतः
द्विगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायात् प्रमा-णतः ।शिखरार्द्धस्य चार्द्धेन विधेया तु प्रदक्षिणा
चतुर्दिक्षु तदा ज्ञेयो निर्गमस्तु तथा बुधैः ।गर्भसूत्रद्वयं भागो विस्तारो मण्डपस्य तु
आयतः स्यात्त्रिभिर्भागैर्भद्रयुक्तः सुशोभनः ।पञ्चभागेन संभज्य गर्भमानं विचक्षणः
भागमेकं गृहीत्वा तु प्राग्ग्रीवं कल्पयेद्बुधः ।गर्भसूत्रसमो भागादग्रतो मुखमण्डपः ।एतत् सामान्यमुद्दिष्टं प्रासादस्येह लक्षणम्
किञ्च ।मेरुमन्दरकैलासकुम्भसिंहमृगास्तथा ।विमानच्छन्दकस्तद्वच्छ्रीवृक्षोऽथ मृगाधिपः
बलभिच्छन्दकस्तद्बद्बर्त्तुलः सर्व्वभद्रकः ।गजश्च नन्दनश्चैव नन्दिवर्द्धन एव
हंसो वृषः सुपर्णश्च पद्मकोऽथ समुद्गकः ।प्रासादा नामतः प्रोक्ता विभागं शृणुत द्विजाः
शतशृङ्गश्चतुर्द्वारो भूमिकाषोडशोच्छ्रितः ।नानाविचित्रशिखरो मेरुप्रासाद उच्यते
मन्दरो द्वादशः प्रोक्तः कैलासो दशभूमिकः ।विमानच्छन्दकस्तद्बदनेकशिखराननः
चाष्टभूमिकस्तद्वत् सप्तभिर्नन्दिवर्द्धनः ।विंशाण्डकसमायुक्तो नन्दनः समुदाहृतः
षोडशाण्डकसंयुक्तो नानारूपसमन्वितः ।अनेकशिखरस्तद्बत् सर्व्वतोभद्र उच्यते
चन्द्रशालसमोपेतो विज्ञेयः पञ्चभूमिकः ।बलभिच्छन्दकस्तद्वच्छुकनासात्रयान्वितः
वृषस्योच्छ्रयतस्तुल्यो मण्डलश्चास्रिवर्ज्जितः ।सिंहः सिंहगतिर्ज्ञेयो मृगो मृगसमस्तथा
कुम्भः कुम्भाकृतिस्तद्वद्भूमिकानवकोच्छ्रयः ।अङ्गुलीपुटसंस्थानपञ्चाण्डकविभूषितः
षोडशास्रः समन्तात्तु विज्ञेयः समुद्गकः ।पार्श्वयोश्चन्द्रशालस्य उच्छ्रायो भूमिकाद्वयम्
षोडशास्रः विज्ञेयो विचित्रशिखरः शुभः ।मृगराजस्तु विख्यातश्चन्द्रशालाविभूषितः
प्राग्ग्रीवेण विशालेन भूमिकासु षडुन्नतः ।अनेकचन्द्रशालस्तु गजः प्रासाद उच्यते
पर्य्यन्तगृहराजो वै गरुडो नाम नामतः ।सप्तभूम्युच्छ्रयस्तद्बच्चन्द्रशालात्रयान्वितः
भूमिकाषडशीतिस्तु वाह्यतः सर्व्वतो भवेत् ।तथान्यो गरुडस्तद्वदुच्छ्रायाद्दशभूमिकः
पद्मकः षोडशास्रस्तु भूमिद्वयसमन्वितः ।पद्मतुल्यप्रमाणेन श्रीवृक्षक इति स्मृतः
पञ्चाण्डकस्त्रिभूमिस्तु गर्भे हस्तचतुष्टयम् ।वृषो भवति नाम्ना यः प्रासादः सर्व्वकामिकः
सप्ताष्टौ पञ्चकाश्चैव प्रासादा ये मयोदिताः ।सिंहस्य ते समा ज्ञेया ये चान्ये तत्प्रमाणतः
चन्द्रशालैः समोपेताः सर्व्वे प्राग्ग्रीवसंयुताः ।ऐष्टका दारवाश्चैव शैला वा स्युः सुतोरणाः
मेरुः पञ्चाशद्धस्तः स्यात् मन्दरः पञ्चहीनकः ।चत्वारिंशत्तु कैलासश्चतुस्त्रिंशद्विमानकः
नन्दिवर्द्धनकस्तद्वद्द्वात्रिंशत् समुदाहृतः ।त्रिंशता नन्दनः प्रोक्तः सर्व्वतोभद्रकस्तथा
वर्त्तुलः पद्मकश्चैव त्रिंशद्धस्त उदाहृतः ।मृगः सिंहश्च कुम्भश्च बलभिच्छन्दकस्तथा
एते षोडशहस्ताः स्युश्चत्वारो देववल्लभाः ।श्रीवृक्षो मृगराजश्च समुद्गकगजौ तथा
एते द्वादशहस्ताः स्युरेतेषां हंसकः समः ।गरुडोऽष्टकरो ज्ञेयो वृषो दश उदाहृतः
एवमेते प्रमाणेन कर्त्तव्याः शुभलक्षणाः ।यक्षराक्षसनागानां मातृहस्तः प्रशस्यते
तथा मेर्व्वादयः सप्त ज्येष्ठलिङ्गे सुखावहाः ।श्रीवृक्षकादयश्चाष्टौ मध्यमस्य उदाहृताः
तथा हंसादयः पञ्च कन्यसे सुभदा मताः
”हयशीर्षपञ्चरात्रे ।“प्रासादं संप्रवक्ष्यामि सर्व्वसाधारणं शृणु ।चतुरस्रीकृतं क्षेत्रं भवेत् षोडशधा पुनः
मध्ये तस्य चतुर्भिस्तु कुर्य्यादायसमन्वितम् ।द्वादशैव तु भागानि भित्त्यर्थं परिकल्पयेत्
जङ्घोच्छ्रायन्तु कुर्व्वीत चतुर्भागेन चायतम् ।जङ्घयोर्द्विगुणोच्छ्रायं मञ्जर्य्याः कल्पयेद्बुधः
चतुर्भागेन मञ्जर्य्याः कार्य्या सम्यक् प्रदक्षिणा ।तन्मानं निर्गमं कार्य्यमुभयोः पार्श्वयोः समम्
शिखरेण समं कार्य्यमग्रे जगति विस्तरम् ।त्रिगुणेनापि कर्त्तव्यं यथाशोभानुरूपतः
विस्तरं मण्डपस्याग्रे गर्भसूत्रद्वयेन तु ।दैर्व्यात् पादाधिकं कुर्य्यान्मध्ये स्तम्भैर्व्विभूषि-तम्
प्रासादगर्भमानं वा कुर्व्वीत मुखमण्डपम् ।एकाशीतिपदैर्वास्तुं यष्ट्वा मण्डपमारभेत्
शुकाढ्यद्वारि विन्यासे पादान्तस्थान् यजेत्सुरान् ।तथा प्राकारविन्यासे यजेद्द्वात्रिंशदन्तगान्
सर्व्वसाधारणञ्चैतत् प्रासादस्य तु लक्षणम् ।मानेन प्रतिमाया वा प्रासादमपरं शृणु
प्रतिमायाः प्रमाणेन कर्त्तव्या पिण्डिका शुभा ।गर्भस्तु पिण्डिकार्द्धेन गर्भमानास्तु भित्तयः
भित्तेरायाममानेन उच्छ्रायन्तु प्रकल्पयेत् ।भित्त्युच्छ्रायात्तद्द्विगुणं शिखरं कल्पयेद्गुरु ! ।शिखरस्य तु तुर्य्येण भ्रमणं परिकल्पयेत्
शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम् ।अष्टकांशेन गर्भस्य रथकानान्तु निर्गमः
परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत् ।तत्तृतीयेन वा कुर्य्याद्रथकानान्तु निर्गमम्
वासत्रयं स्थापनीयं रथकत्रितये सदा ।शिखरार्थञ्च सूत्राणि रत्नानि विनिपातयेत्
शिखरस्यार्द्धभागस्थं सिंहं तत्र कारयेत् ।शुकनासां स्थिरीकृत्य मध्यसन्धौ विवर्ज्जयेत् ।अपरे तथा पार्श्वे तद्वत् सूत्रं निधापयेत्
तदर्द्धन्तु भवेंदंशः कण्ठे श्यामलसारवान् ।स्कन्धभग्नन्तु कर्त्तव्यं विकरालं तथैव ।ऊर्द्धन्तु वेदिकामानात् कलसं परिकल्पयेत्
”किञ्च ।“गरुत्मन्तं तथा कुर्य्यादुपरिष्टाच्चतुर्गुणम्कुर्य्याद्दिक्प्रतिमायामान् दिक्षु चाष्टासुचोपरि
महावराहमैन्द्र्यान्तु नरसिंहन्तु दक्षिणे ।प्रतीच्यां श्रीधरं देवमुदीच्यां हयशीर्षकम्
आग्नेय्यां यामदग्न्यञ्च नैरृते राममेव ।वामनञ्चैव वायव्यां वासुदेवमथापरे
*
किञ्च ।“पूर्व्वभूमौ तु शयनं द्वितीये चासनं भवेत् ।स्थानमेव तृतीये तु चतुर्थे यानमेव
पञ्चमे योगनिद्रा तु षष्ठे योगासनं भवेत् ।स्थानं योगसमायुक्तं सप्तमे परिकल्पयेत्
नानागवाक्षकैर्यत्नात् पत्रवल्ल्यादिभूषितम् ।नानाप्रकारपुष्पाद्यैर्यथाशोभं प्रकल्पयेत्
कनिष्ठमध्यज्येष्ठानां प्रासादानां यथाक्रमम् ।वसुभागा ऋत्विग्भिः प्रदेया रचना बुधैः
द्वारस्य चाष्टमे युक्ते नवमे दशमे तथा ।ललाटवेधो नैवं स्यादायस्य शृणु साम्प्रतम्
यावद्धस्तैरभिप्रेतः प्रासादकर्त्तृणानघ ! ।तावद्भिरङ्गुलैरायो वसुभागेन वा भवेत्
एकस्तम्भो ध्वजो ज्ञेयो द्विस्तम्भा वेदिका मता ।दशभूम्यन्तरे नित्यं चतुस्तम्भं प्रकल्पयेत्
*
अथ मण्डपलक्षणविशेषः मात्स्ये ।“अथातः सम्प्रवक्ष्यामि मण्डपानान्तु लक्षणम् ।मण्डपान् प्रवरान् वक्ष्ये प्रासादस्यानुरूपतः
विविधा मण्डपाः कार्य्या ज्येष्ठमध्यकनीयसः ।नामतस्तान् प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः !
पुष्पकः पुष्पभद्रश्च सुवृत्तो मृतनन्दनः ।कौशल्यो बुद्धिसङ्कीर्णो राजभद्रो जयावहः
श्रीवृक्षो विजयश्चैव वास्तुजीर्णः श्रुतिं धरः ।यज्ञभद्रो विंशालश्च संश्लिष्टः शत्रुमर्द्दनः ।भागपञ्चो नन्दनश्च मानवो मानभद्रकः ।सुग्रीवो हर्षणश्चैव कर्णिकारः पदार्द्धकः
सिंहश्च श्यामभद्रश्च सुभद्रश्च तथैव ।सप्तविंशतिर्व्याख्याता लक्षणं शृणुत द्विजाः
स्तम्भा यत्र चतुःषष्टिः पुष्पकः उदाहृतः ।द्बाषष्टिः पुष्पभद्रस्तु षष्टिः सुवृत्त उच्यते
अष्टपञ्चाशकस्तम्भः कथ्यते मृतनन्दनः ।कौशल्यः षट्पञ्चाशच्चतुःपञ्चाशता पुनः
नाम्ना तु बुद्धिसङ्कीर्णो द्विहीनो राजभद्रकः ।जयावहस्तु पञ्चाशच्छ्रीवृक्षस्तु द्बिहीनकः
विजयस्तद्द्विहीनः स्यात् वास्तुसङ्कीर्णकस्तथा ।द्वाभ्यामेव प्रहीयेत ततः श्रुतिधरोऽपरः
चत्वारिंशद्यज्ञभद्रो द्विहीनोऽथ विशालकः ।षट्त्रिंशच्चैव संश्लिष्टो द्विहीनः शत्रुमर्द्दनः
द्वात्रिंशद्गागपञ्चस्तु त्रिंशता नन्दनः स्मृतः ।अष्टाविंशन्मानवस्तु मानभद्रो द्विहीनकः
चतुर्व्विंशस्तु सुग्रीवो द्वाविंशद्धर्षणो मतः ।विंशतिः कर्णिकारः स्यादष्टादशः पदार्द्धकः ।सिंहो भवेद्द्विहीनश्च श्यामभद्रो द्विहीनकः
सुभद्रस्तु तथा प्रोक्तो द्वादशस्तम्भसंवृतः ।मण्डपाः कथिता ह्येते यथाषल्लक्षणान्विताः ।त्रिकोणं वृत्तमर्द्धेन्दुमष्टकोणं द्बिरष्टकम्
चतुष्कोणञ्च कर्त्तव्यं संस्थानं मण्डपस्य तु ।राज्यञ्च विजयश्चैवमायुर्वर्द्धनमेव
पुत्त्रलाभः श्रियः पुष्टिस्त्र्यस्रादिषु भवेत् क्रमात् ।एवन्तु शुभदाः प्रोक्ता अन्यथा तु भयावहाः
”अथ तत्र द्वारनिर्णयः हयशीर्षपञ्चरात्रे ।“ग्राममध्ये पूर्व्वे प्रत्यग्द्बारं प्रकल्पयेत् ।विदिशासु सर्व्वासु तथा प्रत्यङ्मुखं भवेत्
दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखं भवेत्
”किञ्च ।“विस्ताराद्द्विगुणं द्वारं कर्त्तव्यन्तु सुशोभनम् ।जातरूपं सरजतं तद्वदुडुम्बरैर्वृतम्
औडम्बरोर्द्धतः स्वर्णं दत्त्वा शाखां न्यसेद्बुधः ।तूर्य्यमङ्गलघोषेण ब्राह्मणान् स्वस्तिवाच्य
द्वारस्य चतुर्थांशे कार्य्यौ चण्डप्रचण्डकौ ।दण्डहस्तौ तु कर्त्तव्यौ विष्वक्सेनोपमावुभौ
शाखोर्द्धं न्यस्य रत्नानि न्यसेदूर्द्धमुडम्बरम् ।तस्य मध्ये स्थिता देवी साक्षाल्लक्ष्मीः सुरेश्वरी
कर्त्तव्या दिग्गजैः सा तु स्नाप्यमाना घटेन तु ।शाखोडुम्बरकौ कार्य्यौ पत्रवल्ल्यादिभूषितौ
एकशाखं त्रिशाखं वा षट्शाखं द्वारमिष्यते ।नवशाखञ्च कुर्व्वीत अत ऊर्द्ध्वं कारयेत् ।विष्ण्ववताररूपाद्यैः शाखां रत्नेन भूषयेत्
”मात्स्ये ।“चतुःषष्टिपदं कृत्वा मध्ये द्वारं प्रकल्पयेत् ।विस्ताराद्द्विगुणोच्छ्रायस्तत्त्रिभागा कटिर्भवेत्
विस्तारार्द्धो भवेद्गर्भो भित्तयोऽन्याः समन्ततः ।गर्भपादेन विस्तीर्णं द्वारं द्विगुणमायतम्
उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदुडुम्बरः ।विस्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम्
त्रिपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्यते ।कनिष्ठं मध्यमं ज्येष्ठं यथायोगं प्रकल्पयेत्
अङ्गुलानां शतं सार्द्धं चत्वारिंशद्भिरुत्तमम् ।धन्यमुत्तममायुष्यं धनधान्यदमेव
शतं चाशीतिसहितं वातनिर्गमनं भवेत् ।अधिकं दशभिस्तद्वत्तथा षोडशभिः शतम्
शतमानं द्वितीयन्तु भवत्यशीतिभिस्तथा ।दशद्वाराणि चैतानि क्रमेणोक्तानि सर्व्वदा
अन्यानि वर्ज्जनीयानि मानसोद्बेगदानि तु ।द्वारवेधन्तु यत्नेन सर्व्ववास्तुषु वर्ज्जयेत्
वृक्षकोणाच्च भूद्वारात् स्तम्भकूपध्वजादपि ।कुल्याश्वभ्रेण वा विद्धं द्वारं शुभदं भवेत्
क्षयश्च दुर्गतिश्चैव प्रवासः क्षुद्भयं तथा ।दौर्भाग्यं बन्धनं रोगो दारिद्र्यं कलहं तथा ।विरोधश्चार्थनाशश्च सर्व्वं वेधे भवेत् क्रमात्
”अथ प्राकारादिनिर्णयः हयशीर्षपञ्चरात्रे ।“प्रासादस्य चतुर्भागैः प्राकारस्योच्छ्रयो भवेत् ।पञ्चहस्तस्य देवस्य एकहस्ता तु पीठका
तस्मात्तु द्विगुणः प्रोक्तस्तथा गरुडमण्डपः ।एकहस्तादि कुर्व्वीत त्रिंशद्धस्तान्तमेव
”अथ वृक्षरोपणनिर्णयः मात्स्ये ।“पूर्व्वेण फलिनो वृक्षाः क्षीरवृक्षास्तु दक्षिणे ।पश्चिमेन जलं श्रेष्ठं पद्मोत्पलविभूषितम्
उत्तरेण नलैस्तालैः शुभा स्यात् पुष्पवाटिकासर्व्वतस्तु जलं श्रेष्ठं स्थिरमस्थिरमेव
सर्व्वतश्चापि कर्त्तव्यं परिखाबलयादिकम् ।याम्ये तपोवनस्थानमुत्तरे मातृकागृहम्
महानसं तथाग्नेये नैरृते तु विनायकः ।वारुणे श्रीनिवासश्च वायव्ये ग्रहमालिका
उत्तरे यज्ञशाला तु निर्म्माल्यस्थानमुत्तरे ।वारुणे सोमदैवत्ये बलिनिर्व्वपणं स्मृतम्
पुरतो गरुडस्थानं तथान्येषां यथोचितम् ।एवमायतनं कुर्य्या च्छुभमण्डपसंयुतम्
घण्टावितानकसतोरणचित्रयुक्तंनित्योत्सवप्रमुदितेन जनेन सार्द्धम् ।यः कारयेत् सुरगृहं विविधध्वजाढ्यंश्रीस्तं मुञ्चति सदा दिवि पूज्यते
”अथ जीर्णोद्धारः विष्णुधर्म्मे तृतीयकाण्डे ।“यस्य राज्ञस्तु विषये देववेश्म विशीर्य्यते ।तस्य सीदति तद्राज्यं देववेश्म यथा तथा
कृत्वा जीर्णस्य संस्कारं तथा देवेशवेश्मनः ।द्विगुणं फलमाप्नोति नात्र कार्य्या विचारणा
”विष्णुरहस्ये ।“पतितस्य यः कर्त्ता पतमानस्य रक्षिता ।विष्णोरायतनस्येह नरो विष्णुलोकभाक्
”अग्निपुराणे ।“पतितं पतमानन्तु तथार्द्धस्फुटितं नरः ।समुद्धृत्य हरेर्धाम द्विगुणं फलमाप्नुयात्
”देवीपुराणे ।“मूलाच्छतगुणं पुण्यं प्राप्नुयाज्जीर्णकारकः ।तस्मात् सर्व्वप्रयत्नेन जीर्णस्योद्धारमाचरेत्
”हयशीर्षपञ्चरात्रे ।“वापीकूपतडागानां सुरधाम्नां तथानघ ! ।प्रतिमानां सभानाञ्च संस्कर्त्ता यो नरो भुवि ।पुण्यं शतगुणं तस्य भवेन्मूलान्न संशयः
प्रतिष्ठाया विधिः कार्य्यस्तथा मन्दिरनिर्म्मिते ।प्रायः श्रीहयशीर्षोक्तेरनुसारेण वैष्णवैः
देवालयप्रतिष्ठा ख्याता तल्लिखनेन किम् ।श्रीमूर्त्तिस्थापनेनैव संपूर्णा सा विशेषतः
”इति श्रीहरिभक्तिविलासे २० विलासः
मन्दिरं,
क्ली,
पुं,
(मन्दन्ते मोदन्ते लोका यत्र मदि+ “इषिमदिमुदीति ।” उणा० ५२ इतिकिरच् ।) नगरम् इति मेदिनी रे, १९७
पुंलिङ्गोऽप्ययं शब्दः यथा नगरं मन्दिरंपुरमिति पुंनपुंसकयोररुणेन पठ्यते इत्य-मरटीकायां भरतः
(अश्वजानुपश्चिमभागः ।यथा, अश्ववैद्यके २१ ।“अधरे ततो जानु निर्द्दिष्टं शास्त्रकोविदैः ।मन्दिरं पश्चिमो भागः कलाची जानुनोऽग्रिमः
”)
मन्दिरः,
पुं,
(मदि + किरच् ।) समुद्रः इतिमेदिनी रे, १९७
जानुपश्चाद्भागः इतिहेमचन्द्रः २७८
वाचस्पत्यम्
Sanskrit
मन्दिर
न०
मन्द्यतेऽत्र मदि--किरच् गृहे पुरे अमरःतस्य द्विलिङ्गत्वमित्येके समुद्रे मेदि० जानुपश्चाद्भागेच
पु०
हेमच०
Burnouf
French
मन्दिर मन्दिर
m.
(sfx. इर) mer.
Jarret.
Np. d'un
Gandharva. -- N. temple
ville. -- N. et
f.
[आ] maison. -- F.
[आ] etable
gr.
μάνδρα.
मन्दिरपशु
m.
chat [bête des maisons].
Stchoupak
French
मन्दिर-
nt. lieu d'habitation, demeure (palais, temple, etc.).