| YouTube Channel

मन्त्रदाता (mantradAtA)

 
शब्दकल्पद्रुमः
Sanskrit
मन्त्रदाता, [ऋ] त्रि, (मन्त्रं ददातीति मन्त्र +दा + तृच् ।) मन्त्रदानकर्त्ता गुरुः यथा, --“सर्व्वेषाञ्च गुरूणाञ्च जन्मदाता परो गुरुः ।पितुः शतगुणैर्माता पूज्या बन्द्या गरीयसी
विद्यादाता मन्त्रदाता ज्ञानदो हरिभक्तिदः ।पूज्यो वन्द्यश्च सेव्यश्च मातुः शतगुणैर्गुरुः
मन्त्रमुद्गीरणेनैव गुरुरित्युच्यते बुधैः ।अन्यो वन्द्यो गुरुरयमन्यश्चारोपितो गुरुः
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः
अदीक्षितस्य मूर्खस्य निष्कृतिर्नास्ति निश्चितम् ।सर्व्वकर्म्मस्वनर्हस्य नरके तत्पशोः स्थितिः
जन्मदातान्नदाता वा मातान्ये गुरवस्तथा ।पारं कर्त्तुं शक्तास्ते घोरे संसारसागरे
विद्यामन्त्रज्ञानदाता निपुणः पारकर्म्मणि ।न शक्तः शिष्यमुद्धर्त्तुमीश्वरश्चेश्वरोऽपरः
गुरुर्विष्णुर्गुरुर्ब्रह्मा गुरुर्देवो महेश्वरः ।गुरुर्धर्म्मो गुरुः शेषः सर्व्वात्मा निर्गुणो गुरुः
सर्व्वतीर्थाश्रमश्चैव सर्व्वदेवाश्रयो गुरुः ।सर्व्ववेदस्वरूपश्च गुरुरूपी हरिः स्वयम्
अभीष्टदेवे रुष्टे गुरुः शक्तो हि रक्षितुम् ।गुरौ रुष्टेऽभीष्टदेवो नहि शक्तश्च रक्षितुम्
सर्व्वे ग्रहाश्च यं रुष्टा यं रुष्टा देवब्राह्मणाः ।तमेव रुष्टो भवति गुरुरेव हि दैवतः
गुरोश्च प्रियश्चात्मा गुरोश्च प्रियः सुतः ।धनं प्रियं गुरोर्न भार्य्या प्रिया तथा
गुरोश्च परो धर्म्मो गुरोश्च परन्तपः ।न गुरोश्च परं सत्यं पुण्यञ्च गुरोः परम्
गुरोः परो शास्ता नहि बन्धुर्गुरोः परः ।देवो राजा शास्ता शिष्याणाञ्च सदागुरुः
यावत् शक्तो दातुमन्नं तावत् शास्ता तदन्नदः ।गुरुः शास्ता शिष्याणां प्रति जन्मनि जन्मनि
मन्त्रो विद्यागुरुर्देवः सर्व्वलब्धो यथा पतिः ।प्रतिजन्मनिबन्धेन सर्व्वेषामुपरि स्थिताः
पिता गुरुश्च वन्द्यश्च यत्र जन्मनि जन्मदः ।गुरवोऽन्ये तथा माता गुरुश्च प्रतिजन्मनि
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे शचीकृतगुरु-स्तोत्रकथनं नाम ५९ अध्यायः
अपि ।“मान्यः पूज्यश्च सर्व्वेभ्यः सर्व्वेषां जनको भवेत् ।अहो यस्य प्रसादेन सर्व्वान् पश्यति मानवः
जनको जन्मदाता रक्षणाच्च पिता नृणाम् ।ततो विस्तीर्णकरणात् कलया प्रजापतिः
पितुः शतगुणैर्माता पोषणाद्गर्भधारणात् ।वन्द्या पूज्या मान्या प्रसूरूपा वसुन्धरा
मातुः शतगुणैर्वन्द्यः पूज्यो मान्योऽन्नदायकः ।यद्विना नश्वरो देहो विष्णुश्च कलयान्नदः
अन्नदातुः शतगुणोऽभीष्टदेवः परः स्मृतः ।गुरुस्तस्माच्छतगुणो विद्यामन्त्रप्रदायकः
अज्ञानतिमिराच्छन्नं ज्ञानदीपेन चक्षुषा ।यः सर्व्वार्थं दर्शयति तत्परः कोऽपि बान्धवः
गुरुदत्तेन मन्त्रेण तपसेष्टसुखं लभेत् ।सर्व्वज्ञत्वं सर्व्वसिद्धिं तत्परः कोऽपि बान्धवः
सर्व्वं जयति सर्व्वत्र विद्यया गुरुदत्तया ।तस्मात् पूज्यो हि जगति को वा बन्धुस्ततो-ऽधिकः
विद्यान्धो वा धनान्धो वा यो मूढो भजेद्-गुरुम् ।ब्रह्महत्यादिभिः पापैः लिप्तो नात्र संशयः
दरिद्रं पतितं क्षुद्रं नर-बुद्ध्याचरेद्गुरुम् ।सोऽशुचिस्तीर्थस्नातोऽपि नाधिकारी कर्म्मसु
पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् ।यो पुष्णाति कापट्यात् महापातकीशिव !
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।गुरुरेव परं ब्रह्म गुरुर्भास्कररूपधृक्
गुरुश्चन्द्रस्तथेन्द्रश्च वायुश्च वरुणोऽनलः ।सर्व्वरूपो हि भगवान् परमात्मा स्वयं गुरुः
नास्ति वेदात् परं शास्त्रं नहि कृष्णात् परःसुरः ।नास्ति गङ्गासमं तीर्थं पुष्पं तुलसीपरम्
नास्ति क्षमावती भूमेः पुत्त्रान्नास्ति परः प्रियः ।न दैवात् परा शक्तिर्व्रतं नैकादशीं विना
शालग्रामात्परो यन्त्रो क्षेत्रं भारतात् परम् ।परं पुण्यस्थलानाञ्च पुण्यं वृन्दावनं यथा
मोक्षदानां यथा काशी वैष्णवानां यथा शिवः ।न पार्व्वतीपरा साध्वी गणेशात् परो वशी
विद्यासमो बन्धुर्नास्ति कश्चिद्गुरोः परः ।विद्यादातुः पुत्त्रदारौ तत्समौ नात्र संशयः
”इति ब्रह्मवैवर्त्तपुराणे गणपतिखण्डे ४४अध्यायः