मन्त्रः (mantraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishमन्त्रः [mantrḥ], [मन्त्र्-अच्]
A Vedic hymn or sacred prayer (addressed to any deity), a sacred text
(it is of three kinds: it is called ऋच् if metrical and intended to be loudly recited
यजुस् if in prose and muttered in a low tone
and सामन् if, being metrical, it is intended for chanting).
The portion of the Veda including the Samhitā and distinguished from the Brāhmaṇa
q. v.
A charm, spell, an incantation
सो$हमस्मि मन्त्र- सिद्धः 54
न हि जीवन्ति जना मनागमन्त्राः 1.111
अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः 2
2
32
5.57.
A formula (of prayer) sacred to any deity, as ओं नमः शवाय
Consultation, deliberation, counsel, advice, resolution, plan
तस्य संवृतमन्त्रस्य 1.2
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः 17.5
2.182
7.58
मन्त्रपूर्वाः सर्वारम्भाः Kau. 1.15
also पञ्चाङ्गो मन्त्रः.
Secret plan or consultation, a secret
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि 2.29.
Policy, statesmanship.
A mean, contrivance
किं तु मन्त्रं प्रदास्यामि यो वै तान् निहनिष्यति 7.6.1.
of Viṣṇu.
of Śiva.
(In ) The fifth mansion. -अक्षरम् a syllable in a spell. -अधिकारः business of council meetings
Kau. 1.15. -अधिराजः supreme over all spells. -आराधनम् endeavouring to obtain by spells or incantations
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः 3.4. -उक्त mentioned in a hymn. -उदकम्, -जलम्, -तोयम्, -वारि water consecrated by means of spells, charmed water. -उपष्टम्भः backing up by advice.
करणम् Vedic texts.
composing or reciting sacred texts
I.3.25. -कर्कश advocating a stern policy
ये$पि मन्त्रकर्कशाः शास्त्रतन्त्रकाराः 2.8.-कारः the author of Vedic hymns. -कार्यम् subject of consultation. -कालः time of consultation or deliberation. स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकाले$पसारयेत् 7.149.-कुशलः skilled in giving advice. -कृत्
an author or composer of Vedic hymns
अप्यग्रणीर्मन्त्र- कृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते 5.4
1.61
15.31.
one who recites a sacred text.
a counsellor, an adviser.
an ambassador
यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः 3.1.2. -कृत Consecrated by mantras
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः 2.14. 14. -गण्डकः knowledge, science. -गुप्तिः secret counsel. -गूढः a spy, a secret emissary or agent. -गृहम् a council-chamber. -ग्रहः listening to the counsels of ministers
सप्तमे तु मन्त्रग्रहो दूताभिप्रेषणानि च 2.8. -जा the power of spells
D. B. -जागरः recital of Vedic texts at night. -जिह्वः fire
अमृतं नाम यत् सन्तो मन्त्रजिह्वेषु जुह्वति 2.17. -ज्ञ
skilled in counsel.
skilled in spells.
(ज्ञः) a counsellor, adviser.
a learned Brāhmaṇa
मन्त्रज्ञै- र्मन्त्रिभिश्चैव विनीतः प्रविशेत् सभाम् Ms.
a spy. -तत्त्वम् the essence of counsel. -तन्त्र see अमन्त्र. -दः, -दातृ a spiritual preceptor or teacher
पिता भवति मन्त्रदः 2.153. -दर्शिन्
a seer of Vedic hymns.
a Brāhmaṇa versed in the Vedas
यो ह्यग्निः स द्विजो विप्रैर्मन्त्र- दर्शिभिरुच्यते 3.212. -दीधितिः fire. -दृश्
skilled in counsel or spells. (m. )
a seer of Vedic hymns
an adviser, a counsellor
अथाह तन्मन्त्रदृशां वरीयान् यन्मन्त्रिणो वैदुरिकं वदन्ति 3. 1.1. -देवता the deity invoked in a sacred text ormantra. -धरः, -धारिन् a counsellor. -निर्णयः final decision after deliberation. -पदम् the words of a sacred text. -पूत purified by mantras. ˚आत्मन् an epithet of Garuḍa. -प्रचारः the course of counsel or procedure
2. -प्रभावः the power of a spell.-प्रयोगः, -युक्तिः application of spells. -बी(वी)- जम् the first syllable of a spell. -भेदः breach or betrayal of counsel. -मूर्तिः an epithet of Śiva. -मूलम् magic. -यन्त्रम् a mystical diagram with a magical formula. -युक्तिः application of spells
magical means.
योगः employment or application of spells.
magic.-रक्षा not disclosing, keeping a secret. -वर्जम् without the use of spells. -वहः of Viṣṇu. -वादः the substance of sacred texts. -वादिन्
a reciter of sacred texts.
an enchanter, a conjurer. -विद् see मन्त्रज्ञ above. -विद्या the science of spells, magic. -शक्तिःf. the power of spells. -श्रुतिः a consultation overheard.-संस्कारः any Saṁskāra or rite performed with sacred texts
अनृतावृतुकाले च मन्त्रसंस्कारकृत् पतिः 5.153.-संस्क्रिया any magical rite. -संवरणम् concealment of a design
मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः * 12.2. 18. -संहिता the whole body of Vedic hymns. -साधकः a magician, conjurer.
साधनम् effecting or subduing by magic.
a spell, an incantation.
attainment of supernatural or magical powers (by muttering spells)
चामुण्डे भगवति मन्त्रसाधनादाबुद्दिष्टामुपनिहितां भजस्व पूजाम् 5.25
37, 4, 44. -साध्य
to be effected or subdued by magic or spells
1.65.
attainable by consultation. -सिद्ध
possessing the power of spells, rendered efficacious
सो$स्म्यहं मन्त्रसिद्धः 2.2.-सिद्धिः
the working or accomplishment of a spell.
the power which the possession or knowledge of a spell gives to a person. -सूत्रम् a charm fastened on a string. -स्नानम् the recitation of particular texts as a substitute for ablution. -स्पृश् obtaining (anything) by means of spells. -हीन destitute of or contrary to sacred hymns.
Hindi
Hindiट्रान्सेंडैंटल मंत्र
Apte Hindi
Hindiमन्त्रः
- मन्त्र् + अच्
"(किसी भी देवता को संबोधित) वैदिक सूक्त या प्रार्थनापरक वेद मंत्र (वेद का पाठ तीन प्रकार का है- यदि छन्दोबद्ध और उच्चस्वर से बोला जाने वाला है तो ॠक् है, यदि गद्यमय और मन्दस्वर से बोला जाने वाला है तो यजुस् है, और यदि छन्दोबद्धता के साथ गेयता है तो सामन् है)"
मन्त्रः
- -
वेद का संहिता पाठ (ब्राह्मण भाग को छोड़कर)
मन्त्रः
- -
"मोहन, वशीकरण तथा आवाहन के मंत्र"
मन्त्रः
- -
(प्रार्थना परक) यजुस् जो किसी देवता को उद्दिष्ट करके बोला गया हो
मन्त्रः
- -
"गुप्तवार्ता, मंत्रणा, परामर्श, उपदेश, संकल्प, योजना"
मन्त्रः
- -
"गुप्त योजना या मंत्रणा, रहस्य"
मन्त्रः
- मन्त्र+अच्
"विष्णु का नाम, शिव का नाम"
मन्त्रः
- मन्त्र+अच्
जन्मकुण्डली में सातवाँ घर
मन्त्रः
- मन्त्र+अच्
वैदिक सूक्त
मन्त्रः
- मन्त्र+अच्
वेद का वह अंश जिसमें संहिता सम्मिलित हैं
मन्त्रः
- मन्त्र+अच्
प्रार्थना
मन्त्रः
- मन्त्र+अच्
गुप्त योजना
मन्त्रः
- मन्त्र+अच्
"नय, नीति"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Tamil
Tamilமந்த்ர: : மந்திரம், ஆலோசனை, உபதேசம், வேத சம்ஹிதை.
शब्दकल्पद्रुमः
Sanskritमन्त्रः, (मन्त्र्यते गुप्तं परिभाष्यते इति ।मत्रि गुप्तभाषणे + घञ् । यद्वा, मन्त्रयते गुप्तंभाषते इति । मत्रि गुप्तभाषणे + अच् ।) वेद-भेदः । स च मन्त्रस्वरूपभागः ॥
(यथा, ऋग्वेदे । ६७ । ४ । ७४ ।“प्रनूनं ब्रह्मणपतिर्मन्त्रं वदत्युक्थम् ॥
”यथा च मनुः । २ । १६ ।“निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्यकस्यचित् ॥
”तन्त्राद्युक्तमन्त्रभागश्च । यथा, मनौ । ७ । २१७ ।“सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥
”)गुप्तिवादः । स तु रहसि कर्त्तव्यावधारणं मन्त्र-णेति ख्यातम् । इत्यमरभरतौ ॥
परामर्शः ।मन्त्रणा । (यथा, माधे । २ । २९ ।“मन्त्रो योध इवाधीरः सर्व्वाङ्गैः संवृतैरपि ।चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥
”)व्यङ्गादिभ्यो मन्त्रणाग्रहणस्य निषेधो यथा, --“व्यङ्गाङ्गहीना वधिराः कुयोनिषु रताश्च ये ।तेषां मन्त्रो न सुखदः प्रोक्तः कविभिरेव च ॥
कामुकानां जडानाञ्च स्त्रीजितानां तथैव च ।श्वशुरस्य गृहे नित्यं जासाता कर्म्मकारकः ।तस्यापि न भवेन्मन्त्रः कार्य्यसिद्धौ कदाचन ॥
”इति जैमिनिभारते आश्वमेधिकपर्व्वणि २ अः ॥
अन्यत् मन्त्रणाशब्दे द्रष्टव्यम् ॥
* ॥
देवादीनांसाधनम् । इति मेदिनी । रे, ७४ ॥
“तन्मन्त्राद्यषडक्षीणं यत् तृतीयाद्यगोचरम् ।रहस्यालोचनं मन्त्रो रहश्छन्नमुपह्वरम् ॥
”इति हेमचन्द्रः ॥
मन्त्रव्याख्याकृदेकनवत्यृषयो यथा, --“एते मन्त्रकृतः सर्व्वे कृत्स्नशस्तु निबोधत ।भृगुः काश्यः प्रचेताश्च दधीचो ह्यात्मवानपि ॥
और्व्वोऽथ जमदग्निश्च विदः शारद्वतस्तथा ।आर्ष्णिषेणो ह्यश्वनश्च वीतहव्यः सवेधसः ॥
वैण्यः पृथुर्द्दिवोदासो बन्ध्यश्वो गृत्सशौनकः ।एकोनविंशति र्ह्येते भृगवो मन्त्रकृत्तमाः ॥
१९ ॥
अङ्गिरा वेधसश्चैव भरद्बाजो नभात्मकः ।तथा मृगधरो गर्द्दः सितिः सुकृतिरेव च ॥
गुववीतश्च मान्धाता अम्बरीषस्तथैव च ।युवनाश्वः पुरुकुत्सः सुमदद्युः सदस्यवान् ॥
अजमीढो ह्युदार्य्यश्च तक्षकः कविरेव च ।पृषदश्वो विरूपश्च कण्वश्चैवाथ मुद्गलः ॥
उतथ्यश्च शरद्वांश्च तथा वाजिश्रवा अपि ।अयस्योऽथ सुचित्तिश्च वामदेवस्तथैव च ॥
औषिजो बृहशक्तिश्च ऋषिर्दीर्घतपा अपि ।काक्षीवांश्च त्रयस्त्रिंशत् स्मृता ह्याङ्गिरसावराः ॥
३३ ॥
एते मन्त्रकृतः सर्व्वे काश्यपांस्तु निबोधत ।काश्यपः सहवत्सावो निध्रुवो वैद्य एव च ।असितो देवलश्चैव षडेते ब्रह्मवादिनः ॥
६ ॥
अत्रिर्वद्बस्वनश्चैव श्वावाश्वोऽथ गविष्ठिवः ।वर्णातको ऋषिः सिद्धस्तथा पूर्व्वातिथिश्च यः ॥
इत्येते अत्रयः प्रोक्ता मन्त्रकृत्सु महर्षयः ॥
४ ॥
वशिष्ठश्चैव शक्तिश्च तृतीयश्च पराशरः ।ततस्तु इन्द्रप्रमतिः पञ्चमस्तु भवद्बसुः ॥
षष्ठस्तु मित्रावरुणिः सप्तमः कुण्डिनस्तथा ।इत्येते सप्त विज्ञेया वाशिष्ठा ब्रह्मवादिनः ॥
७ ॥
विश्वामित्रश्च गाधेयो देवत्रातस्तथोद्दलः ।तथा विद्वान् मधुच्छन्दो ऋषिश्चान्योऽघमर्षणः ॥
अष्टको लोहितश्चैव भूतकीलश्च ताबुभौ ।देवश्रवा देवरातः पुराणश्च धनञ्जयः ॥
शिशिरश्च महातेजाः सालङ्कायन एव च ।त्रयोदशैते विज्ञेया ब्रह्मिष्ठाः कौशिका वराः ॥
१३ ॥
अगस्त्योऽथ दृढद्युम्न इन्द्रबाहुस्तथैव च ।ब्रह्मिष्ठागस्तयो ह्येते त्रयः परमकीर्त्तयः ॥
३ ॥
मनुर्वैवस्वतश्चैव इलो राजा पुरूरवाः ।क्षत्त्रियाणां वरा ह्येते विज्ञेया मनुवादिनः ॥
३ ॥
भनन्दश्चैव भत्सश्च वत्सलश्चैव ते त्रयः ।एते मन्त्रकृतो ज्ञेया वैश्यानां प्रवराः स्मृताः ॥
३इत्येकनवतिः प्रोक्ता मन्त्रा यैश्च बहिष्कृताः ।ब्राह्मणाः क्षत्त्रिया वैश्या ऋषिपुत्त्रास्तथा स्मृताः ।ऋषीणाञ्च सुता ह्येते ऋषिपुत्त्राः श्रुतर्षयः ॥
”इति मात्स्ये १२१ अध्यायः ॥
कृष्णमन्त्रमाहात्म्यं यथा, --“तावन्निबद्धः संसारकारागारे विधेर्जनः ।न यावत् कृष्णमन्त्रञ्च प्राप्नोति गुरुवक्त्रतः ॥
कृतकर्म्मभोगरूपनिगडोच्छेदकारणम् ।मायाजालोच्छेदकरमाशापाशनिकृन्तनम् ॥
गोलोकमार्गसोपानं निस्तारबीजकारणम् ।भक्त्यङ्कुरस्वरूपश्च नित्यं वृद्धमनश्वरम् ॥
सारञ्च सर्व्वतपसां योगानाञ्च तथैव च ।सिद्धीनां वेदपाठानां व्रतादीनाञ्च निश्चितम् ॥
दानानां तीर्थस्नानानां यज्ञादीनां पुरन्दर ! ।जपानामुपवासानामित्याह कमलोद्भवः ॥
पुंसां लक्षं पितॄणाञ्च शतं मातामहस्य च ।पूर्व्वं परञ्च तत्संख्यं पितरं मातरं गुरुम् ॥
सहोदरं कलत्रञ्च बन्धुं शिष्यञ्च किङ्करम् ।समुद्धरेच्च श्वशुरं श्वश्रूं कन्याञ्च तत्सुतम् ॥
आत्मानञ्च सतीर्थ्यञ्च गुरुपत्नीं गुरोः सुतम् ।उद्धरेद्बलवान् भक्तो मन्त्रग्रहणमात्रतः ॥
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ।तत्स्पर्शपूतस्तीर्थौघः सद्यः पूता वसुन्धरा ॥
अनेकजन्मपर्य्यन्तं दीक्षाहीनो भवेन्नरः ।तदान्यदेवमन्त्रञ्च लभते पुण्यशेषतः ॥
* ॥
सप्तजन्मोपदेवानां कृत्वा सेवां स्वकर्म्मतः ।लभते च रवेर्मन्त्रं साक्षिणः सर्व्वकर्म्मणाम् ॥
जन्मत्रयं भास्करञ्च निसेव्य मानवः शुचिः ।लभेद्गणेशमन्त्रञ्च सर्व्वविघ्नहरं परम् ॥
जन्मत्रयं तं निसेव्य निर्व्विघ्नश्च भवेन्नरः ।विघ्नेशस्य प्रसादेन दिव्यज्ञानं लभेन्नरः ॥
तदा ज्ञानप्रदीपेन समालोच्य महामतिः ।अज्ञानान्धतमो हित्वा महामायां भजेन्नरः ॥
विष्णुमायाञ्च प्रकृतिं दुर्गां दुर्गतिनाशिनीम् ।सिद्धिदां सिद्धिरूपाञ्च परमां सिद्धयोगिनीम् ॥
वाणीरूपाञ्च पद्माञ्च भद्रां कृष्णप्रियात्मिकाम् ।नानारूपां तां निसेव्य जन्मनां शतकं नरः ॥
तत्प्रासादाद्भवेत् ज्ञानी ज्ञानानन्दं ततो भजेत् ।कृष्णज्ञानाधिदेवञ्च महाज्ञानं सनातनम् ॥
शिवं शिवस्वरूपञ्च शिवदं शिवकारणम् ।परमानन्दरूपञ्च परमानन्ददायिनम् ॥
सुखदं मोक्षदञ्चैव दातारं सर्व्वसम्पदाम् ।अमरत्वप्रदञ्चैव दीर्घायुष्ट्वप्रदं परम् ॥
इन्द्रत्वञ्च मनुत्वञ्च दातुं शक्तञ्च लीलया ।राजेन्द्रत्वप्रदञ्चैव ज्ञानदं हरिभक्तिदम् ॥
जन्मत्रयं समाराध्य चाशुतोषप्रसादतः ।सर्व्वदस्य वरेणैव निर्म्मलं ज्ञानमालभेत् ॥
निर्म्मलज्ञानदीपेन सुप्रदीपेन तत्त्ववित् ।ब्रह्मादितृणपर्य्यन्तं सर्व्वं मिथ्यैव पश्यति ॥
दयानिधेः प्रसादेन शङ्करस्य महात्मनः ।वरदस्य वरेणैव हरिभक्तिं लभेत् ध्रुवम् ॥
तदा तद्भक्तसंसर्गात् कृष्णमन्त्रं लभेत् ध्रुवम् ।तदा निवृत्तिमाप्नोति सारात्सारां परात्पराम् ॥
यत्र देहे लभेन्मन्त्रं तद्देहावधि भारते ।तत् पाञ्चभौतिकं त्यक्त्वा बिभर्त्ति दिव्यरूपकम् ॥
करोति दास्यं गोलोके वैकुण्ठे वा हरेः पदे ।परमानन्दसंयुक्तो मोहादिषु विवर्ज्जितः ॥
न विद्यते पुनर्जन्म पुनरागमनं सुर ! ।पुनश्च न पिबेत् क्षीरं धृत्वा मातृस्तनं परम् ॥
विष्णुमन्त्रोपासकानां गङ्गादितीर्थसेविनाम् ।स्वधर्म्मिणाञ्च भिक्षूणां पुनर्जन्म न विद्यते ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३३ अध्यायः ॥
शिवमन्त्रा यथा, --“प्रथमं शृणु तन्मन्त्रं ततोऽनुध्यानगोचरम् ।ततः क्रमन्तु पूजायाः क्रमाद्वित्तं नरर्षभौ ॥
समस्तानां स्वराणान्तु दीर्घाः शेषाः सबिन्दुकाः ।ऋ ऌ क् शून्याः सार्द्धचन्द्रा उपान्ते नाभि-संहिताः ॥
एभिः पञ्चाक्षरैर्मन्त्रः पञ्चवक्त्रस्य कीर्त्तितः ।क्रमात् सम्मदसन्दोहमादगौरवसंज्ञकाः ॥
प्रासादस्तु भवेत् शेषः पञ्चमन्त्राः प्रकीर्त्तिताः ।एकैकेन तथैवैकं वक्त्वं मन्त्रेण पूजयेत् ॥
एकं समुदितं कृत्वा पञ्चभिर्वा प्रपूजयेत् ।प्रासादेनाथवा पञ्चवक्त्रं देवं प्रपूजयेत् ।सम्मदादिषु मन्त्रेषु प्रासादस्तु प्रशस्यते ॥
शम्भोः प्रसादनेनैव यस्माद्वृत्तस्तु मन्त्रकः ।तेन प्रासादसंज्ञोऽयं कथ्यते मुनिपुङ्गवैः ।तस्मात् सर्व्वेषु मन्त्रेषु प्रासादः प्रीतिदः प्रभोः ॥
आमोदकारकः शम्भोर्म्मन्त्रः सम्मद उच्यते ।मनःप्रपूरणश्चापि सन्दोहः परिकीर्त्तितः ॥
आकर्षको भवेन्मादो गुरुत्वाद्गौरवाह्वयः ।एतद्व्यस्तं समस्तञ्च मन्त्रं शम्भोः प्रकीर्त्तितम् ॥
पञ्चाक्षरञ्च यन्मन्त्रं पञ्चवक्त्रस्य कीर्त्तितम् ।युवां तेनैव मन्त्रेण आराधय तमीश्वरम् ॥
”इति कालिकापुराणे ५० अध्याये वेताल-भैरवौ प्रति वशिष्ठवाक्यम् ॥
* ॥
मन्त्रस्य त्रिविधजपो यथा, --“वाचिकश्च उपांशुश्च मानसश्च त्रिधा स्मृतः ।त्रयाणां जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः ॥
यदुच्चनीचस्वरितैः स्पष्टशब्दवदक्षरैः ।मन्त्रमुच्चारयेद्व्यक्तं जपयज्ञः स वाचिकः ॥
शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयन् ।किञ्चित् शब्दं स्वयं विद्यादुपांशुः स जपः स्मृतः ॥
धिया यदक्षरश्रेण्या वर्णार्द्वर्णं पदात् पदम् ।शब्दार्थचिन्तनाभ्यासः स उक्तो मानसो जपः ॥
तेन स्वरादिसुव्यक्तवर्णोच्चारणवान् वाचिकः ।स्वयंशब्दग्रहणमात्रयोग्यकिञ्चिच्छब्दवानुपांशुः ।जिह्वोष्ठचालनमन्तरेण वर्णानुसन्धात्मको-मानसः ॥
” * ॥
वाचिकेऽप्युच्चैर्जपनिषेधमाह शङ्खः ।“नोच्चैर्जप्यं बुधः कुर्य्यात् सावित्र्यास्तु विशेषतः ।”योगियाज्ञवल्क्यः ।“न चंक्रमन् न विहसन् न पार्श्वमवलोकयन् ।नोपाश्रितो न जल्पंश्च न प्रावृतशिरास्तथा ॥
न पदा पादमाक्रम्य न वै बहिः करौ स्मृतौ ।नैवंविधं जपं कुर्य्यात् न च संश्रावयेज्जपम् ॥
उत्तिष्ठन् वीक्ष्यमाणोऽर्क्कमासीनः प्राङ्मुखोजपेत् ।प्राक् कुशेष्वेवमासीनो वसानो वाससी शुभे ॥
”वृद्धमनुः ।“यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् ।अन्यथा तु शुचौ भूम्यां कुशोपरि समाहितः ॥
”व्यासः ।“जपकाले न भाषेत व्रतहोमादिकेषु च ।एतेष्वेवावशक्तस्तु यद्यागच्छेत् द्विजोत्तमः ।अभिवाद्य ततो विप्रं योगक्षेमञ्च कीर्त्तयेत् ॥
”योगियाज्ञवल्क्यः ।“यदि वाग्यमलोपः स्यात् जपादिषु कदाचन ।व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम् ॥
”गोतमः ।“क्रोधं मोहं क्षुतं निद्रां निष्ठीवनविजृम्भितम् ।दर्शनं वनितानाञ्च वर्ज्जयेज्जपकर्म्मणि ।आचामेत् सम्भवे चैषां स्मरेद्विष्णुं सुरार्च्चितम् ॥
”बौधायनः ।“नाभेरधश्च संस्पर्शं कर्म्मकाले विवर्ज्जयेत् ॥
”इत्याह्निकाचारतत्त्वम् ॥
* ॥
मन्त्रशब्दस्य व्युत्पत्तिर्यथा, --“मननात्त्रायते यस्मात्तस्मान्मन्त्रः प्रकी-र्त्तितः ॥
”मन्त्रदीक्षारहितानां दोषो यथा, मत्स्यसूक्ते ।“अदीक्षितानां मर्त्यानां दोषं शृणु वरानने ! ।अन्नं विष्ठासमं तस्य जलं मूत्रसमं स्मृतम् ।तत्कृतं तस्य वा श्राद्धं सर्व्वं याति ह्यधो-गतिम् ॥
”शूद्रस्य मन्त्रविशेषनिषेधमाह तन्त्रे ।“प्रणवाद्यं न दातव्यं मन्त्रं शूद्राय सर्व्वथा ।आत्ममन्त्रं गुरोर्म्मन्त्रं मन्त्रं चाजपसं ज्ञकम् ॥
स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्द्विजः ।शूद्रो निरयमाप्नोति ब्राह्मणो यात्यधोगतिम् ॥
”श्रुतिरपि ।“सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रयोर्नेच्छन्ति ।सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्री शूद्रो यदिजानीयात् स मृतोऽधो गच्छति ।”विशेषमाह वाराहीये ।“गोपालस्य मनुर्देयो महेशस्य तु पादजे ।तत्पत्न्याश्चापि सूर्य्यस्य गणेशस्य मनुस्तथा ॥
एषां दीक्षाधिकारी स्यादन्यथा पापभाग्-भवेत् ॥
”मन्त्रदीक्षाप्रशंसा यथा, गोविन्दवृन्दावने ।“अदीक्षितस्य मरणे प्रेतत्वं न च मुञ्चति ॥
”नवरत्नेश्वरे ।“सर्व्वासामपि दीक्षाणां मुक्तिः फलमखण्डितम् ।अविरोधाद्भवन्त्येव प्रासङ्गिक्यस्तु भक्तयः ॥
”तथा ।“उपपातकलक्षाणि महापातककोटयः ।क्षणाद्दहति देवेशि ! दीक्षा हि विधिना कृता ॥
”अत्राप्यनुकूलमन्त्रं दीक्षेत ।“स्वतारराशिकोष्ठानामनुकूलान् भजेन्मनून् ॥
”वाराहीये ।“ताराचक्रं राशिचक्रं नामचक्रं तथैव च ।अत्र चेत् सगुणो मन्त्रो नान्यच्चक्रं विचारयेत् ॥
”इति प्राधान्यतया बोध्यम् ॥
तथा च ।“धनिमन्त्रन्तु गृह्णीयादनुकूलन्तथैव च ।”इत्यादिदर्शनात्तत्तच्चक्रविचारस्य आवश्यकत्वात्प्रथमं तन्निरूप्यते । सिद्धसारस्वते ।“तत्र नृसिं हार्कवराहाणां प्रासादप्रणवस्य च ।सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् ॥
स्वप्नलब्धे स्त्रिया दत्ते मालामन्त्रे च त्र्यक्षरे ।वैदिकेषु च मन्त्रेषु सिद्धादीन्नैव शोधयेत् ॥
”मालामन्त्रस्तु वाराहीये ।“विंशत्यर्णाधिका मन्त्रा मालामन्त्राश्च कीर्त्तिताः ।नपुंसकस्य मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥
हंसस्याष्टाक्षरस्यापि तथा पञ्चाक्षरस्य च ।एकद्वित्र्यादिबीजस्य सिद्धादीन्नैव शोधयेत् ॥
तथा । एकाक्षरस्य मन्त्रस्य मालामन्त्रस्य पार्व्वति ! ।वैदिकस्य च मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥
”तथा चामुण्डातन्त्रे ।“काली तारा महाविद्या षोडशी भुवनेश्वरी ।भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥
वगला सिद्धविद्या च मातङ्गी कमलात्मिका ।एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥
नात्र सिद्धाद्यपेक्षास्ति न नक्षत्रविचारणा ।कालादिशोधनं नास्ति न चामित्रादिदूषणम् ॥
सिद्धविद्यातया नात्र युगसेवापरिश्रमः ।नास्ति किञ्चिन्महादेवि ! दुःखसाध्यं कथञ्चन ॥
”पृथिव्यां पूर्णफलप्रदा महाविद्या । यथा, मालिनीविजये ।“अथ वक्ष्याम्यहं या या महाविद्या महीतले ।दोषजालैरसंस्पृष्टास्ताः सर्व्वा हि फलैः सह ॥
काली नीला महादुर्गा त्वरिता च्छिन्नमस्तका ।वाग्वादिनी चान्नपूर्णा तथा प्रत्यङ्गिरा पुनः ॥
कामाख्या वासली बाला मातङ्गीशैलवासिनी ।इत्याद्याः सकला विद्याः कलौ पूर्णफलप्रदाः ॥
सिद्धमन्त्रतया नात्र युगसेवापरिश्रमः ।तथा चैता महाविद्याः कलिदोषान्न वाधिताः ॥
”इत्यादिवचनादेषु विचारो नास्ति । वस्तुतस्तुइदं प्रशंसापरम् । सर्व्वत्र विचारस्यावश्यक-त्वम् । दुरदृष्टवशात् कदाचिद्वैरिमन्त्रस्य स्वप्नादौप्राप्त्या तत्तद्दोषस्य दृष्टत्वात् । इति तु साम्प्र-दायिकाः ॥
* ॥
मन्त्रोद्धारार्थषट्चक्रप्रमाणानिचक्रशब्दे द्रष्टव्यानि । तेषां लेखनप्रकारा यथा, कुलाकुलचक्रम् ।वायुः अग्निः भूमिः जलम् आकाशःअ आ इ ई उ ऊ ऋ ॠ ऌ ॡए ऐ ओ औ अंक ख ग घ ङच छ ज झ ञट ठ ड ढ णत थ द ध नप फ ब भ मय र ल व शष क्ष ळ स हवायुः अग्निः भूमिः जलम् आकाशःअकथहचक्रम् ।अ क उ आ ऊथ ह ङ प ख द च फओ ऌ औ ॡड व झ म ढ श ञ यई ॠ इ ऋघ न ज भ ग ध छ बअः ऐ अं एत स ठ ल ण ष ट रनक्षत्रचक्रम् ।अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ क ख ग१ २ ३ ४ ५ ६ ७ ८ ९देवः मानुषः राक्षसः मानुषः देवः मानुषः देवः देवः राक्षसःघ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध१० ११ १२ १३ १४ १५ १६ १७ १८राक्षसः मानुषः मानुषः देवः राक्षसः देवः राक्षसः देवः राक्षसःन प फ ब भ म य र ल व श ष स ह अं अः१९ २० २१ २२ २३ २४ २५ २६ ल क्ष २७राक्षसः मानुषः मानुषः देवः राक्षसः राक्षसः मानुषः मानुषः देवःऋणिधनिचक्रम् ।६ ६ ६ ० ३ ४ ४ ० ० ० ३अ इ उ ऋ ऌ ए ऐ ओ औ अं अःआ ई ऊ ॠ ॡक ख ग घ ङ च छ ज झ ञ टठ ड ढ ण त थ द ध न प फब भ म य र ल व श ष स ह२ २ ५ ० ० २ १ ० ४ ४ १देवताभेदे चक्रविचारस्यावश्यकत्वमाह वारा-हीतन्त्रे यामलादौ च ।“तारशुद्धिर्वैष्णवानां कोष्ठशुद्धिः शिवस्य च ।राशिशुद्धिस्त्रैपुरे च गोपालेऽकडमः स्मृतः ॥
अकडमो वामने च गणेशे च तथैव च ।कोष्ठचक्रं वराहस्य महालक्ष्म्याः कुलाकुलम् ॥
नामादिचक्रे सर्व्वेषां भूतचक्रे तथैव च ।त्रैपुरं तारचक्रे तु शुद्धमन्त्रं जपेद्बुधः ॥
”तथा ।“वैष्णवं राशिसंशुद्धं शैवञ्चाकडमं स्मृतम् ।कालिकायाश्च तारायास्तारचक्रं शुभावहम् ॥
चण्डिकायास्तारकोष्ठे गोपालेऽकडमः स्मृतः ।हरचक्रे सर्व्वमन्त्रं धनाधिक्ये न चाश्रयेत् ॥
ऋणाधिक्ये शुभं विद्यात् धनाधिक्ये च नोविधिम् ।दोषान् संशोध्य गृह्णीयान्मध्यदे शोद्भवस्य च ॥
मन्त्रस्त्वृणी शुभफलोऽप्यशुभो धनी चतुल्यं यदा समफलः कथितो मुनीन्द्रैः ॥
”अन्यत्रापि ।“शून्ये मृत्युमवाप्नोति धने च विफलं भवेत् ।ऋणे च प्राप्तिमात्रेण सर्व्वसिद्धिस्तु जायते ॥
”अथ मन्त्राणां दश संस्काराः । गौतमीये ।“जननं जीवनं पश्चात् ताडनं बोधनन्तथा ।अथाभिषेको विमलीकरणाप्यायने पुनः ॥
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ।स्वर्णादिपात्रे संलिख्य मातृकायन्त्रमुत्तमम् ।काश्मीरचन्दनेनापि भस्मना वाथ सुव्रत ! ॥
काश्मीरं शक्तिसंस्कारे चन्दनं वैष्णवे मनौ ।शैवे भस्म समाख्यातं मातृकायन्त्रलेखने ॥
मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम् ।पंक्तिक्रमेण विधिना मुनिभिस्तत्र निश्चितम् ॥
१ ॥
व्योमेन्दौ रसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्केशरंवर्गोल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् ।आशास्वश्रिषु लान्तलाङ्गलियुजा क्षौणीपुरे-णावृतंयन्त्रं वर्णतनोः परं निगदितं सौभाग्यसम्पत्-करम् ॥
”यन्त्रस्य दिक्षु वं विदिक्षु ठं लिखेत् । तथा चगौतमीये ।“कादिमान्ताः पञ्चवर्गा दिक्षु पूर्व्वादितोन्यसेत् ।यादिवान्ताः शादिहान्ता लक्षमीशे प्रविन्यसेत् ॥
चतुरस्रं चतुर्द्वारं दिक्षु वं ठं विदिक्षु च ॥
”इति मातृकायन्त्रम् ॥
“प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः ।प्रत्येकं शतवारन्तु जीवनन्तदुदाहृतम् ॥
२ ॥
मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा ।प्रत्येकं वायुबीजेन पूर्व्ववत्ताडनं मतम् ॥
३ ॥
विलिख्य मन्त्रवर्णांस्तु प्रसूनैः करवीरजैः ।तन्मन्त्रवर्णसंख्याकैर्हन्याद्रेफेण बोधनम् ॥
” ४ ॥
“तत्तन्मन्त्रोक्तविधिना अभिषेकः प्रकीर्त्तितः ।”तन्त्रान्तरे ।“मन्त्रस्य चामुकं वर्णमभिषिञ्चामि हृद्गतम् ।”इति वचनात् प्रत्येकमभिषिञ्चेत् ।“अश्वत्थपल्लवैः सिञ्चेत् मन्त्री मन्त्रार्णसंख्यया ॥
५ ॥
सञ्चिन्त्य मनसा मन्त्रं सुषुम्णामूलमध्यतः ।ज्योतिर्मन्त्रेण विधिवत् दहेन्मलत्रयं यती ॥
तारं व्योमाग्निमनुयुक् दण्डी ज्योतिर्मनुर्मतः ॥
”तारं प्रणवः व्योम हकारः अग्नी रेफः मनु-रौकारः दण्डी अनुस्वारः ॥
६ ॥
“स्वर्णेन कुशतोयेन पुष्पतोयेन वा तथा ।तेन मन्त्रेण विधिवदाप्यायनविधिः स्मृतः ॥
७ ॥
मन्त्रेण वारिणा मन्त्रे तर्पणं तर्पणं मतम् ।मधुना शक्तिमन्त्रेषु वैष्णवे चेन्दुमज्जलैः ॥
शैवे घृतेन दुग्धेन तर्पणं सम्यगीरितम् ॥
”अभिषेकेऽपि तथा ॥
८ ॥
“तारमायारमायोगो मनोर्द्दीपनमुच्यते ॥
९ ॥
जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् ॥
१० ॥
संस्कारा दश संप्रोक्ताः सर्व्वतन्त्रेषु गोपिताः ।यान् कृत्वा सम्प्रदायेन मन्त्री वाञ्छितमाप्नु-यात् ।”मलत्रयमिति आनव्यं मायिकं कार्म्मणञ्च ।प्रपञ्चसारे ।“मायिकं नाम योषोत्थं पौरुषं कार्म्मणं मलम् ।आनव्यं तद्द्वयं प्रोक्तं निषिद्धं तन्मलत्रयम् ॥
”न नवं अनवं तस्य भावः आनव्यं वृद्धत्वमित्यर्थः ।तारमायारमायोग इति । तारमायारमा-बीजपुटितम् मन्त्रमष्टोत्तरशतं जपेत् इत्यर्थः ।तथा च विश्वसारे ।“तारमायारमाबीजपुटितेन मनुं जपेत् ।शतमष्टोत्तरञ्चैव दीपयेत् साधकोत्तमः ॥
” * ॥
अथ दुर्गामन्त्रः ।“अथ दुर्गामनुं वक्ष्ये दृष्टादृष्टफलप्रदम् ।मायाद्रिः कर्णबिन्द्वाढ्यो भूयोऽसौ सर्गवान्भवेत् ॥
पञ्चान्तकः प्रतिष्ठावान् मारुतो भौतिकासनः ।तारादिहृदयान्तोऽयं मन्त्रो वस्वक्षरात्मकः ॥
”अद्रिर्दकारः । कर्ण उकारः । पञ्चान्तकोगकारः । प्रतिष्ठा आकारः । मारुतो यकारः ।भौतिक ऐकारः । ओँ ह्रीं दुं दुर्गायै नमः ॥
* ॥
अथ विष्णुमन्त्रः ।“तारं नमःपदं ब्रूयात् नरौ दीर्घसमन्वितौ ।पवनो णायमन्त्रोऽयं प्रोक्तो वस्वक्षरः परः ॥
”ओँ नमो नारायणाय ॥
* ॥
अथ शिवमन्त्रः ।“सान्तमौकारसंयुक्तं बिन्दुभूषितमस्तकम् ।प्रासादाख्यो मनुः प्रोक्तो भजतां कामदो मनुः ॥
”हौँ ॥
* ॥
अथ गणेशमन्त्रः ।“पञ्चान्तकं शशिधरं बीजं गणपतेर्व्विदुः ॥
”पञ्चान्तको गकारः । गँ ॥
* ॥
अथ सूर्य्यमन्त्रः ।“तारो घृणिर्भृगुः पश्चाद्वामकर्णविभूषितः ।वह्र्यासनो मरुत्शेषः सनेत्रोऽद्रिस्त्यपश्चिमः ॥
अष्टाक्षरो मनुः प्रोक्तो भानोरभिमतः परः ॥
”ओँ घृणि सूर्य्य आदित्य ॥
* ॥
पञ्चदेवतानामेक एको मन्त्रो लिखितः ।एतासामन्यासाञ्चान्यमन्त्रा ग्रन्थविस्तारभयान्नलिखिताः ॥
कलावागमोक्तमन्त्रजपविधि-र्यथा, --“आगमोक्तविधानेन कलौ मन्त्रं जपेत् सुधीः ।नहि देवाः प्रसीदन्ति कलौ चान्यविधानतः ॥
”तथा ।“कृते श्रुत्युक्तमार्गः स्यात् त्रेतायां स्मृतिसम्भवः ।द्वापरे तु पुराणोक्तः कलावागमसम्भवः ॥
मन्त्रार्णा देवताः प्रोक्ता देवता गुरुरूपिणी ।तेषां भिदा न कर्त्तव्या यदीच्छेच्छुभमात्मनः ॥
”पित्रादितो मन्त्रग्रहणनिषेधो यथा, --“पितुर्मन्त्रं न गृह्णीयात् तथा मातामहस्य च ।सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ॥
न पत्नीं दीक्षयेद्भर्त्ता न पिता दीक्षयेत् सुताम् ।न पुत्त्रञ्च तथा भ्राता भ्रातरं न च दीक्षयेत् ॥
सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत् ।शक्तित्वेन वरारोहे ! न च सा कन्यकाभवेत् ॥
”तथा गणेशविमर्षिण्याम् ।“यतेर्द्दीक्षा पितुर्द्दीक्षा दीक्षा च वनवासिनः ।विविक्ताश्रमिणां दीक्षा न सा कल्याण-दायिका ॥
”इत्यादिनिषेधवचनादेभ्यो मन्त्रं न गृह्णीयादि-त्यर्थः । इति तन्त्रसारः ॥
(ज्वरादिनाशक-मन्त्रो यथा, --“वानराकृतिमालिख्य खटिकाभिः पुनः शृणु ।गन्धपुष्पाक्षतैर्धूपैरर्च्चयेद्भिषजां वरः ॥
मन्त्रः ।ओँ ह्रां ह्रीं श्रीं सुग्रीवाय महाबलपराक्रमायसूर्य्यपुत्त्राय अमिततेजसे ऐकाहिक-द्याहिक-त्र्याहिक-चातुर्थिक-महाज्वर-भूतज्वर-भय-ज्वर-शोकज्वर-क्रोधज्वर-वेलाज्वर-प्रभृति-ज्वराणां दह दह हन हन पच पच अवतरअवतर किलिकिलि वानरराजज्वराणां बन्धबन्ध ह्रां ह्रीं हूं फट् स्वाहा ।” इति हारीतेचिकित्सितस्थाने द्वितीयेऽध्याये ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
