मन्तुः (mantuH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishमन्तुः [mantuḥ], 1 A fault, an offence
मुधैव मन्तुं परिकल्प्य 2. 13
अनेन हेतुना ह्यस्य मन्तवः शतशो मया (क्षान्ताः) Śiva B.15.12
भवता शिवभूपस्य बहवो मन्तवः कृताः Śiva B.31.6
6.11.
Man, mankind.
Lord of men (प्रजापति).
An adviser.
A manager, director.
Advice, counsel. -न्तुः Understanding, intellect.
Apte Hindi
Hindiमन्तुः
- मन् + तुन्
"दोष, अपराध"
मन्तुः
- -
"मनुष्य, मानवजाति"
मन्तुः
- -
समझ
Wordnet
Sanskrit पापम्, कल्मषम्, किल्विषम्, पातकम्, पाप्मा, अघम्, दुरितम्, एनस्, कलुषम्, अभद्रम्, अशुभम्, वृजनम्, वृजिनम्, दोषः, अपराधः, दुष्कृतम्, कल्कम्, अंहस्, अंघस्, मन्तुः, कुल्मलम्, कलङ्कः, प्रत्यवायः, किण्वम्, अमीवम्, पङ्कम्, जङ्गपूगम्
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
"कबीरस्य मते असत्यवदनं पापम् अस्ति।"
अपराधः, पापम्, दोषः, पातकम्, दुष्कृतम्, दुष्कर्म, पापकर्म, कल्मषम्, कलुषम्, दुरितम्, दुरिष्ठम्, एनः, आगः, अघम्, अन्यायः, मन्तुः, कल्कः
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
"कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritमन्तुः, (मन्यते इति । मन् + “कमिमनिजनि-गाभायाहिभ्यश्च ।” उणा ० । १ । ७३ । इतितुन् ।) अपराधः । (यथा, नैषधचरिते । ६ । ११० ।“सतीव्रतैस्तीव्रमिमन्तु मन्तु-मन्तर्वरं वज्रिणि मार्ज्जितास्मि ॥
”)मनुष्यः । प्रजापतिः । इति मेदिनी । ते, ४३ ॥
द्वात्रिंशदपराधा यथा । भगवद्भक्तानां क्षत्त्रिय-सिद्धान्नभोजनम् १ अनिषिद्धदिने दन्तधावन-मकृत्वा विष्णोरुपसर्पणम् २ मैथुनं कृत्वाअस्नात्वा विष्णोरुपसर्पणम् ३ मृतं नरं स्पृष्ट्वाअस्नात्वा विष्णुकर्म्मकरणम् ४ रजस्वलां स्पृष्ट्वाअस्नात्वा विष्णुगृहप्रवेशनम् ५ मानवं शवंस्पृष्ट्वा अस्नात्वा विष्णुसन्निधाववस्थानम् ६विष्णुं स्पृशतः पायुवायुप्रयोगः ७ विष्णोः कर्म्मकुर्व्वतः पुरीषत्यागः ८ विष्णुशास्त्रमनादृत्यशास्त्रान्तरप्रशंसा ९ अतिमलिनं वासः परि-धाय विष्णुकर्म्माचरणम् १० अविधानेनाचम्यविष्णोरुपस्पर्शनम् ११ विष्णोरपराधं कृत्वाविष्णोरुपसर्पणम् १२ क्रुद्धस्य विष्णुस्पर्शनम् १३निषिद्धपुष्पेण विष्णोरर्च्चनम् १४ रक्तं वासःपरिधाय विष्णोरुपसर्पणम् १५ अन्धकारे दीपेनविना विष्णोः स्पर्शनम् १६ कृष्णं वस्त्रं परिघायविष्णोः कर्म्माचरणम् १७ वायसोद्धृतवस्त्रंपरिधाय विष्णोः कर्म्माचरणम् १८ विष्णवेकुक्कुरोच्छिष्टदानम् १९ वराहमांसं भुक्त्रा विष्णो-रुपसर्पणम् २० जालपादशरारिमांसं भुक्त्वाविष्णोरुपसर्पणम् २१ दीपं स्पृष्ट्वा हस्तमप्रक्षाल्यविष्णोः स्पर्शनं कर्म्माचरणं वा २२ श्मशानंगत्वा अस्नात्वा विष्णोरुपसर्पणम् २३ पिण्याकंभुक्त्वा विष्णोरुपसर्पणम् २४ विष्णवे वराहमांस-निवेदनम् २५ मद्यमादाय स्पृष्ट्वा पीत्वा वाविष्णुगृहप्रवेशनम् २६ परकीयेणाशुचिना वावस्त्रेण परिहितेन विष्णुकर्म्माचरणम् २७विष्णवे नवान्नमप्रदाय तद्भोजनम् २८ गन्धपुष्पेअप्रदाय धूपदीपदानम् २९ उपानहावारुह्यविष्णुस्थानप्रवेशनम् ३० भेरीशब्देन विना विष्णोःप्रबोधनम् ३१ अजीर्णे सति विष्णोरुपसर्पणम् ३२ ।एतदप्युपलक्षणं तथा च नरसिंहपुराणे ।“अपराधसहस्राणि अपराधशतानि च ।पद्मेनैकेन देवेशः क्षमते हेलयार्च्चितः ॥
”इत्याह्निकाचारतत्त्वे चतुर्थयामार्द्धकृत्यम् ॥
अपि च ।वराह उवाच ।“भुक्त्वा तु परकीयान्नं तत्परस्तन्निवर्त्तनः ।प्रथमश्चापराधोऽयं धर्म्मविघ्नाय वै भवेत् ॥
अभुक्त्वा दन्तकाष्ठानि यस्तु मामुपसर्पति ।द्वितीयश्चापराधस्तु कर्म्मविघ्नाय विद्यते ॥
गत्वा मैथुनसंयोगे योऽनु मां स्पृशते नरः ।तृतीयमपराधन्तु कल्पयामि वसुन्धरे ! ॥
स्पृष्ट्वा रजस्वलां नारीमस्माकं यः प्रपद्यते ।चतुर्थमपराधन्तु दृष्टे नैव क्षमाम्यहम् ॥
स्पृष्ट्वा तु मृतकञ्चैव असंस्कारकृतन्तु वै ।पञ्चमञ्चापराधञ्च न क्षमामि वसुन्धरे ! ॥
स्पृष्ट्वा तु मृतकं यस्तु नाचम्य स्पृशते तु माम् ।षष्ठकञ्चापराधन्तु न क्षमामि वसुन्धरे ! ॥
मामेवार्च्चनकाले तु पुरीषं यस्य गच्छति ।सप्तमञ्चापराधन्तु कल्पयामि वसुन्धरे ! ॥
यस्तु नीलेन वस्त्रेण प्रावृतो मां प्रपद्यते ।अष्टमञ्चापराधन्तु कल्पयामि वसुन्धरे ! ॥
मामेवार्च्चनकाले तु यस्त्वसत्यं प्रभाषते ।नवमञ्चापराधन्तु न रोचामि वसुन्धरे ! ॥
अविधानेन मां स्पृष्ट्वा यस्तु मां प्रतिपद्यते ।दशमञ्चापराधन्तु मम चाप्रियकारकम् ॥
क्रुद्धस्त्वन्त्यानि कर्म्माणि कुरुते कर्म्मकारकः ।एकादशापराधन्तु कल्पयामि वसुन्धरे ! ॥
अकर्म्मण्यानि पुष्पाणि यस्तु मामुपकल्पयेत् ।द्वादशञ्चापराधन्तु कल्पयामि वसुन्धरे ! ॥
यस्तु रक्तेन वस्त्रेण कौसुम्भेनोपगच्छति ।त्रयोदशापराधन्तु कल्पयामि वसुन्धरे ! ॥
अन्तकालेऽपि मां देवि ! यः स्पृ शेत कदाचन ।चतुर्द्दशापराधन्तु कल्पयामि वसुन्धरे ! ॥
यस्तु कृष्णेन वस्त्रेण मम कर्म्माणि कारयेत् ।पञ्चदशापराधन्तु कल्पयामि वरानने ! ॥
अधौतेन च वस्त्रेण यस्तु मामुपकल्पते ।षोडशन्त्वपराधानां कल्पयामि वरानने ! ॥
स्वयमन्नन्तु यो दद्यादज्ञानाय च माधवि ! ।सप्तदशापराधन्तु कल्पयामि वसुन्धरे ! ॥
यस्तु मत्स्यानि मांसानि भक्षयित्वा वरानने ! ।अष्टादशापराधानि अनुजातानि माधवि ! ॥
जालपादं भक्षयित्वा यस्तु मामुपसर्पति ।एकोनविंशापराधं प्रतिजानामि सुन्दरि ! ॥
यस्तु मे दीपकं स्पृष्ट्वा यो मां स्पृशति माधवि ! ।विंशकञ्चापराधानां कल्पयामि वरानने ॥
श्मशानं यस्तु वै गत्वा यो मामेवाभिगच्छति ।एकविंशापराधानि कल्पयामि वसुन्धरे ! ॥
पिण्याकं भक्षयित्वा तु यो मामेवोपचक्रमे ।द्बाविंशत्यपराधानां तान्यहं चोपकल्पये ॥
यस्तु वाराहमांसानि प्रापणेनोपपादयेत् ।अपराधं त्रयोविंशं कल्पयामि वसुन्धरे ! ॥
सुरां पीत्वापि यो मर्त्यः कदाचिदुपसर्पति ।अपराधं चतुर्विंशं कल्पयामि वसुन्धरे ! ! ॥
यः कुसुम्भञ्च मे शाकं भक्षयित्वोपचक्रमे ।अपराधं पञ्चविंशं कल्पयामि वसुन्धरे ! ॥
परप्रावरणेनैव यस्तु मामुपसर्पति ।अपराधेषु षड्विंशं कल्पयामि वरानने ! ॥
नवान्नं यस्तु भक्षेत न स देवान् पितॄन् यजेत् ॥
सप्तविंशापराधानि कल्पयामि गुणान्विते ! ॥
उपानहौ च प्रपदे तथा मे वोपचक्रमे ।अष्टाविंशापराधानि कल्पयामि गुणान्विते ! ॥
शरीरं मण्डयित्वा तु यो मामाप्नोति माधवि ! ।एकोनत्रिंशमपराधं स स्वर्गेषु न गच्छति ॥
अजीर्णेन समाविष्टो यस्तु मामभिगच्छति ।त्रिंशकञ्चापराधानां कल्पयामि वसुन्धरे ! ॥
गन्धपुष्पाण्यदत्त्वा तु यस्तु धूपं प्रयच्छति ।एकत्रिं शापराधन्तु कल्पयामि यशस्विनि ! ॥
विना भेर्य्यादिशब्देन द्वारस्योद्घाटनं मम ।महापराधं विद्येत तद्द्वात्रिंशापराधकम् ॥
”इति वाराहे द्वात्रिंशदपराधाध्यायः ॥
(त्रि, ज्ञाता । यथा, ऋग्वेदे । १० । ६३ । ८ ।“य ईशिरे भुवनस्य प्रचेतसोविश्वस्य स्थातुर्जगतश्च मन्तवः ।”“मन्तवः सर्व्वस्य वेदितारः ।” इति तद्भाष्येसायनः ॥
मननीयः । यथा, ऋग्वेदे ।१ । १५२ । १ ।“युवोरच्छिद्रा मन्तवोह सर्गाः ।”“मन्तवोह मननीयाश्च ।” इति सायनः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
