| YouTube Channel

मनोज्ञं (manojJaM)

 
शब्दकल्पद्रुमः
Sanskrit
मनोज्ञं,
क्ली,
(मनो जानाति ज्ञापयति तोषय-तीति अन्तर्भूतण्यर्थे ज्ञा + कः ।) सरल-काष्ठम् इति रत्नमाला
मनोज्ञं, त्रि, (मनसा जानातीति ज्ञा + कः ।यद्वा, मनः ज्ञापयति तोषयतीति अन्त-र्भूतण्यर्थज्ञाधातोः कः ।) मनोहरम् तत्प-र्य्यायः सुन्दरम् रुचिरम् चारु ४सुषमम् साधु शोभनम् कान्तम् ८मनोरमम् रुच्यम् १० मञ्जु ११ मञ्जुलम् १२ ।इत्यमरः ५२
मनोहरम् १३ बन्धु-रम् १४ बन्धूरम् १५ पेशलम् १६ पेषलम् १७सुमनम् १८ वामम् १९ अमिरामम् २० नन्दि-तम् २१ इति शब्दरत्नावली
(यथा, सुश्रुते ४६ अध्याये ।“मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम् ।पूर्व्वं मधुरमश्नीयात् मध्येऽम्ललवणौ रसौ
”)