| YouTube Channel

मनोजवः (manojavaH)

 
वैजयन्तीकोषः
Sanskrit
Word: मनोजवः
Root: मनोजव
Gender: पुं
Number: all
अर्थः विप्रादावृतमुग्रस्त्री निशादी
Meaning(s):
Person whose father is a Brāhman and whose mother is a Niṣādi
Shloka(s):
3|5|5|2 विप्रादावृतमुग्रस्त्री निषादी तु मनोजवम्॥ (भूमिकाण्डः/मनुष्याध्यायः)
Synonym(s):
3|5|5|2 मनोजवः (मनोजव) (पुं) Person whose father is a Brāhman and whose mother is a Niṣādi विप्रादावृतमुग्रस्त्री निशादी
Related word(s):
isa_k ब्राह्मणपुत्राः स्यु: नानायोषित्समु्द्भवाः
शब्दकल्पद्रुमः
Sanskrit
मनोजवः,
पुं,
(मनस इव जवोऽस्य एकदैव सर्व-गामित्वात् तथात्वम् ।) विष्णुः यथा, महा-भारते दानधर्म्मे सहस्रनामस्तोत्रम् १३ ।१४९ ८७ ।“मनोजवस्तीर्थकरो वसुरेता वसुप्रदः
”(मनसश्चित्तस्य जवः ।) मनसो वेगः इतिव्याकरणम्
(अनिलपत्न्याः शिवायाः पुत्त्रः ।यथा, हरिवंशे ४२ ।“अनिलस्य शिवा मार्य्या यस्याः पुत्त्रो मनो-जवः
”)रुद्रस्य पुत्त्रभेदः यथा, मार्कण्डेये ५२ ११ ।“शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः
”तीर्थभेदः यथा, महाभारते ८३ ८५ ।“मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत्
”षष्ठमन्वन्तरस्येन्द्रः यथा, मार्कण्डेये ७६ ५३ ।“मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक्
”भेधातिथेः पुत्त्रभेदः यथा, भागवते २० ।२५ “तस्य प्रियव्रत एवाधिपतिर्नाम्ना मेधा-तिथिः सोऽपि विभज्य सप्तवर्षाणि पुत्त्रनामानितेषु स्वात्मजान् पुरोजवमनोजववेपमानधूम्रा-नीकचित्ररेफविश्वाधारसंज्ञान् निधाप्याधि-पतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपो-वनं प्रविवेश
”)
मनोजवः, त्रि, (मनो जवं वेगवद्यस्मिन् यद्वा, मनो जवति पितायमिति कृत्वा धावत्यस्मिन्इति जु सौत्रधातुः + अच् ।) पितृतुल्यः तत्प-र्य्यायः पितृसन्निभः इत्यमरः १३
अतिशयवेगवान् (यथा, मार्कण्डेये २१ ।“तमन्वधावद्वेगेन तुरगोऽसौ मनोजवः
”)