| YouTube Channel

मनुः (manuH)

 
Apte
English
मनुः [manuḥ], [मन्-उ
Uṇ.*
1.1]
N.
of a celebrated personage regarded as the representative man and father of the human race (sometimes regarded as one of the divine beings).
Particularly, the fourteen successive progenitors or sovereigns of the earth mentioned in
Ms.*
1.63. (The first Manu called स्वायंभुवमनु is supposed to be a sort of secondary creator, who produced the ten Prajapatis or Maharṣis and to whom the code of laws known as Manusmriti is ascribed. The seventh Manu called वैवस्वतमनु, being supposed to be born from the sun, is regarded as the progenitor of the present race of living beings and was saved from a great flood by Viṣṇu in the form of a fish
cf.
मत्स्यावतार
he is also regarded as the founder of the solar race of kings who ruled at Ayodhyā
see
U.*
6.18
R.*
1.11
विवस्वान् मनवे प्राह मनुरिक्ष्वाकवे$ब्रवीत्
Bg.*
4.1. The names of the fourteen Manus in order are: 1 स्वायंभुव, 2 स्वारोचिष, 3 औत्तमि, 4 तामस, 5 रैवत, 6 चाक्षुष, 7 वैवस्वत, 8 सावर्णि, 9 दक्षसावर्णि, 1 ब्रह्मसावर्णि, 11 धर्मसावर्णि, 12 रुद्रसावर्णि, 13 रौच्य-दैवसावर्णि and 14 इंद्रसावर्णि).
A symbolical expression for the number 'fourteen'.
A man, mankind (opp. evil spirits)
मनवे शासदव्रतान् Ṛv.1.13.8.
Thought, thinking or mental faculty (Ved. ).
A prayer, sacred text or spell (मन्त्र)
मनुं साधयतो राज्यं नाकपृष्ठमनाशके
Mb.
* 13.7.18.
(pl. ) Mental powers
देहो$सवो$क्षा मनवो भूतमात्रा नात्मानमन्यं विदुः परं यत्
Bhāg.*
6.4.25. -नुः
f.
The wife of Manu.
Comp.
-अन्तरम् the period or age of a Manu
(this period, according to
Ms.*
1.79, comprises 4, 32, human years or 1/14th day of Brahmā, the fourteen Manvantaras making up one whole day
each of these fourteen periods is supposed to be presided over by its own Manu
six such periods have already passed away
we are at present living in the seventh, and seven more are yet to come)
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः Ak. -जः a man, mankind. ˚अधिपः, ˚अधिपतिः, ˚ईश्वरः, ˚पतिः, ˚राजः a king, sovereign. ˚लोकः the world of men
i. e. the earth. -जा a woman. -जातः a man. -ज्येष्ठः a sword. -प्रणीत
a.
taught or expounded by Manu.-भूः a man, mankind. -राज्
m.
an epithet of Kubera. -श्रेष्ठः an epithet of Viṣṇu. -संहिता, -स्मृतिः the code of laws ascribed to the first Manu, the institutes of Manu.
Apte 1890
English
मनुः [मन्-उ Uṇ. 1. 10] 1 N. of a celebrated personage regarded as the representative man and father of the human race (sometimes regarded as one of the divine beings).
2 Particularly, the fourteen successive progenitors on sovereigns of the earth mentioned in Ms. 1. 63. The first Manu called स्वप्यंभुवमनु is supposed to be a sort of secondary creator, who produced the ten Prajāpatis or Maharshis and to whom the code of laws known as Manusmṛti is ascribed. The seventh Manu called वैवस्वतमनु, being supposed to be born from the sun, is regarded as the progenitor of the present race of living beings and was saved from a great flood by Viṣṇu in the form of a fish, cf. मत्स्यावतार
he is also regarded as the founder of the solar race of kings who ruled at Ayodhyā
see U. 6. 18
R. 1. 11. The names of the fourteen Manus in order are: 1 स्वायंभुव, 2 स्वारोचिष, 3 औत्तमि, 4 तामस, . रैवत, 6 चाक्षुष 7 वैवस्वत, 8 सावर्णि, 9 दक्षसावर्णि, 10 ब्रह्मसावर्णि, 11 धर्मसावर्णि, 12 रुद्रसावर्णि, 13 रौच्य-दैवसावर्णि and 14 इंद्रस वर्णि.
3 A symbolical expression for the number ‘fourteen’.
4 A man, mankind (opp. evil spirits).
5 Thought, thinking or mental faculty (Ved.).
6 A prayer, sacred text or sped (मंत्र).
नुः f. The wife of Manu.
Comp.
अंतरं the period or age of a Manu
this period, according to Ms. 1. 79, comprises 4, 320, 000 human years or one-fourteenth day of Brahmā, the fourteen Manvantaras making up one whole day
each of these fourteen, periods is supposed to be presided over by its own Manu
six such periods have already passed away
we are at present living in the seventh, and seven more are yet to come.
जः a man, mankind. °अधिपः, °अधिपतिः, °ईश्वरः °पतिः, °राजः a king, sovereign. °लोकः the world of men, i. e. the earth.
जा a woman.
जातः a man.
ज्येष्ठः a sword.
प्रणीत a. taught or expounded by Manu
भूः a man. mankind.
राज् m. an epithet of Kubera.
श्रेष्ठः an epithet of Viṣṇu.
संहिता the code of laws ascribed to the first Manu, the institutes of Manu.
Hindi
Hindi
मानव जाति के पिता
Apte Hindi
Hindi
मनुः
पुं*
- मन् +
एक प्रसिद्ध व्यक्ति जो मानव का प्रतिनिधि और मानवजाति का हित माना जाता हैं (कभी कभी यह दिव्य व्यक्ति समझे जाते है)
मनुः
पुं*
- -
विशेषतः चौदह क्रमागत प्रजापति या भूलोक प्रभु
मनुः
पुं*
- -
चौदह की संख्या के लिए प्रतीकात्मक अभिव्यक्ति
मनुः
स्त्री*
- -
मनु की पत्नी
मनुः
पुं*
- मन्+उ
मानसिक शक्तियाँ देहोऽसवोऽक्षा मनवो भुतमात्रा @ भाग* ६/४/२५
Wordnet
Sanskrit
Synonyms:
मनुः
noun
ब्रह्मणः चतुर्दशेषु पुत्रेषु एकः यः मनुष्याणां मूलम् अस्ति इति मन्यन्ते।
"सृष्टेः विस्तारः मनोः जातः।"
Synonyms:
पुरुषः, नरः, ना, मनुष्यः, मानुषः, मानवः, मनुजः, जनः, पुमान्, मर्त्यः, पूरुषः, मनुः, पञ्च़जनः, मनुभूः, पुंव्यक्तिः, वीरः, मालः, वृधसानः, वृधसानुः, चर्षणिः, भूस्पृक्
noun
पुमान् मानवजातीयः।
"द्विधा कृत्वात्मनो देहम् अर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी तस्यां विराजम् असृजत् प्रभुः।"
Tamil
Tamil
மனு: : மனிதன், மனித இனம், மனித இனத்தின் முதலவன், பூவுலகின் பதினான்கு அதிபதிகளில் ஒருவன்.
शब्दकल्पद्रुमः
Sanskrit
मनुः,
स्त्री,
(मन् + “शॄस्वृस्निहीति ।” उणा०१ ११ इति उः ।) पृक्का इति राज-निर्घण्टः
(मनोः पत्नीति मनु + “मनोरौवा ।” ३८ इत्यत्र “वा ग्रहणेन द्बावपिविकल्प्येते तेन त्रैरूप्यं भवति मनोः स्त्रीमनायी मनावी मनुः ।” इति काशिकोक्तेः पक्षेङीबभावः ।) मनुपत्नी इति लिङ्गादिसंग्रहेअमरः
मनुः,
पुं,
(मन्यते इति मन + “शॄस्वृस्निहीति ।”उणा० ११ इति उः ।) ब्रह्मणः पुत्त्रः ।स प्रजापतिर्धर्म्मशास्त्रवक्ता इतिलिङ्गादिसंग्रहे अमरः
मनुष्यः इति शब्द-रत्नावली
(यथा, ऋग्वेदे ४७ ।“मनोर्विश्वस्य घेदिम आदित्याराय ईशते-ऽनेहसो वऊतयः सुऊतयो वऊतयः
”“मनोः मनुष्यस्य ।” इति तद्भाष्ये सायनः
)जिनभेदः इति त्रिकाण्डशेषः
मन्त्रः इतिजटाधरः
(यथा, गौतमीयतन्त्रे ।“गोहिरण्यकवस्त्राद्यैस्तोषयेद् गुरुमात्मनः ।यथा ददाति सन्तुष्टः प्रसन्नवदनो मनुम्
*
)प्रतिकल्पे चतुर्द्दश मनवो भवन्ति तेषांनामानि यथा स्वायम्भुवः स्वारोचिषः २उत्तमः तामसः रैवतः चाक्षुषः ६एते गताः वैवस्वतः वर्त्तमानोऽयम् ।सावर्णिः दक्षसावर्णिः ब्रह्मसावर्णिः १०धर्म्मसावर्णिः ११ रुद्रसावर्णिः १२ देव-सावर्णिः १३ इन्द्रसावर्णिः १४ एते भविष्यन्ति ।इति श्रीभागवते स्कन्धे अध्यायः
*
एतेषामुत्पत्तिर्यथा, --“आद्यो मनुर्ब्रह्मपुत्त्रः शतरूपापतिर्ब्रती ।धर्म्मिष्ठानां वरिष्ठश्च गरिष्ठो मनुषु प्रभुः
स्वायम्भुवः शम्भुशिष्यो विष्णुव्रतपरायणः ।जीवन्मुक्तो महाज्ञानी भवतः प्रपितामहः
संप्राप कृष्णदास्यञ्च गोलोकञ्च जगाम सः ।दृष्ट्वा मुक्तं स्वपुत्त्रञ्च प्रहृष्टश्च प्रजापतिः
तुष्टाव शङ्करं तुष्टः ससृजे मनुमन्यकम् ।स स्वयम्भूपुत्त्रश्च पुरः स्वायम्भुवो मनुः
स्वारोचिषो मनुश्चैव द्वितीयो वह्रिनन्दनः ।राजा वदान्यो धर्म्मिष्ठः स्वायम्भुवसमो महान्
प्रियव्रतसुतावन्यौ द्वौ मनू धर्म्मिणां वरौ ।तौ तृतीयचतुर्थौ वैष्णवौ तामसोत्तमौ
तौ शङ्करशिष्यौ कृष्णभक्तिपरायणौ ।धर्म्मिष्ठानां वरिष्ठश्च रैवतः पञ्चमो मनुः
षष्ठश्च चाक्षुषो ज्ञेयो विष्णुभक्तिपरायणः ।श्राद्धदेवः सूर्य्यसुतो वैष्णवः सप्तमो मनुः
सावर्णिः सूर्य्यतनयो वैष्णवो मनुरष्टमः ।नवमो दक्षसावर्णिर्विष्णुव्रतपरायणः
दशमो ब्रह्मसावर्ण्णिर्ब्रह्मज्ञानविशारदः ।ततश्च धर्म्मसावर्णिर्मनुरेकादशः स्मृतः
धर्म्मिष्ठश्च वरिष्ठश्च वैष्णवानां सदा व्रती ।ज्ञानी रुद्रसावर्णिर्मनुश्च द्वादशः स्मृतः
धर्म्मात्मा देवसावर्णिर्मनुरव त्रयोदशः ।त्रतुर्द्दशो महाज्ञानी चेन्द्रसावर्णिरेव
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः
अपि स्वायम्भुवः गायत्त्र्यांब्रह्मणो जातः अस्य पुत्त्राः दश अग्निध्रः ।अग्निबाहुः रिफ्फः सबलः ज्योतिष्मान् ।द्युतिमान् हव्यः मेधाः मेधातिथिः वसुश्च ।स्वारोचिषः अस्य पुत्त्राश्चत्वारः नभः ।नभस्यः प्रसृतिः भावनश्च औत्तमिः ।अस्य पुत्त्राः दश ईषः ऊर्ज्जः भूर्ज्जः ।शुचिः शुक्रः मधुः माधवः नभस्यः ।नभः सहश्च तामसः अस्य पुत्त्रादश अकल्मषः तपोधन्वी तपोमूलः ।तपोधनः तपोरतिः तपस्यः तपोद्युतिः ।परन्तपः तपोभागी तपोयोगी ।रैवतः तस्य पुत्त्राः दश अरुणः तत्त्व-दर्शी वित्तवान् हव्यपः कपिः मुक्तः ।निरुत्सुकः सत्तः निर्म्मोहः प्रकाशकश्च ।चाक्षुषः ध्रुवपौत्त्रात् रिपुञ्जयात्ब्रह्मदौहित्र्यां वीरणकन्यायां वैरिण्यां जातः ।तस्य भार्य्या नड्डला तस्य पुत्त्राः दश उरुः ।पुरुः शतद्युम्नः तपस्वी सत्यवाक् कविः ।अग्निष्टुप् अतिरात्रः स्वच्छस्वः अभि-मन्युश्च वैवस्वतः सूर्य्यात् संज्ञायांजातः तस्य पुत्त्राः दश इलः इक्ष्वाकुः ।कुशनाभः अरिष्टः रिष्ठः नरिष्यन्तः ।कुरूषः शर्य्यातिः पृषध्रः नाभागश्च ।सावर्णिः सूर्य्यात् छायायां जातः ।तस्य पुत्त्राः दश धृतिः वरीयान् यवसः ।सुवर्णः वृष्टिः चरिष्णुः ईड्यः सुमतिः ।वसुः शुभ्र्यश्च रौच्यः असौ रुचेःप्रजापतेः पुत्त्रः भौत्यः १० असौ भूतिनामक-प्रजापतेः पुत्त्रः मेरुसावर्णिः ११ असौ ब्रह्मणःपुत्त्रः ऋतुः १२ ऋतुधामा १३ विव्वक्-सेनः १४ इति मात्स्ये नवमाध्यायावधिएकविंशत्यध्यायपर्य्यन्तम्
क्रमशस्तेषां विव-रणानि यथा, स्वायम्भुवः यथा, मार्कण्डेये५३ अध्याये
“मनोः स्वायम्भुवस्यासन् दश पुत्त्रास्तु तत्समाः ।यैरियं पृथिवी सर्व्वा सप्तद्वीपा सपर्व्वता ।ससमुद्रा करवती प्रतिवर्षं निवेशिता
”२ स्वारोचिषः यथा, तत्रैव ६७ अध्याये ।मार्कण्डेय उवाच ।“ततः स्वारोचिषं नाम्ना द्युतिमन्तं प्रजापतिम् ।मनुञ्चकार भगवांस्तस्य मन्वन्तरं शृणु
तत्रान्तरे तु ये देवा मुनयस्तत्सुताश्च ये ।भौपालाः क्रौष्टुके ! ये तान् गदतस्त्वं निशामय
देवाः पारावतास्तत्र तथैव तुषिता द्विज ! ।स्वारोचिषेऽन्तरे चेन्द्रो विपश्चिदिति विश्रुतः
ऊर्ज्जस्तम्बस्तथा प्राणो दत्तोलिरृषभस्तथा ।निश्चरश्चार्ववीरांश्च तत्र सप्तर्षयोऽभवन्
चैत्र-किंपुरुषाद्याश्च सुतास्तस्य महात्मनः ।सप्तासन् सुमहावीर्य्याः पृथिवीपरिपालकाः
तस्य मन्वन्तरं यावत्तावत्तद्वं शविस्तरे ।भुक्तेयमवनिः सर्व्वा द्वितीयं वै तदन्तरम्
स्वरोचिषस्तु चरितं जन्म स्वारोचिषस्य ।निशम्य मुच्यते पापैः श्रद्दधानो हि मानवः
”अस्यान्यद्विवरणं तत्रैव ६१ अध्यायमारभ्य६६ अध्यायपर्य्यन्तं द्रष्टव्यम्
औत्तमः ।यथा, तत्रैव ७३ अध्याये ।मार्कण्डेय उवाच ।“मन्वन्तरे तृतीयेऽस्मिन् औत्तमस्य प्रजापतेः ।देवानिन्द्रमृषीन् भूपान् निबोध गदतो मम
स्वधामानस्तथा देवा यथानामानुकारिणः ।सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा गणः
तृतीये तु गणे देवाः शिवाख्या मुनिसत्तम ! ।शिवाः स्वरूपतस्ते तु श्रुताः पापप्रणाशनाः
प्रतर्दनाख्यश्च गणो देवानां मुनिसत्तम ! ।चतुर्थस्तत्र कथित औत्तमस्यान्तरे मनोः
वशवर्त्तिनः पञ्चमेऽपि देवास्तत्र गणे द्विज ! ।यथाख्यातस्वरूपास्तु सर्व एव महामुने !
एते देवगणाः पञ्च स्मृता यज्ञभुजस्तथा ।मन्वन्तरे मनुश्रेष्ठे सर्वे द्वादशका गणाः
तेषामिन्द्रो महाभागस्तैलोक्ये गुरुर्भवेत् ।शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः
यस्योपसर्गनाशाय नामाक्षरविभूषिता ।अद्यापि मानवैर्गाथा गीयते तु महीतले
सुशान्तिर्देवराट् कान्तः सुशान्तिं प्रयच्छति ।सहितः शिवसत्याद्यैस्तथैव वशवर्त्तिनः
अजः परशुचिर्दिव्यो महाबलपराक्रमाः ।पुत्त्रास्तस्य मनोरासन् विख्यातास्त्रिदशो-पमाः
तत्सूतिसम्भवैर्भूमिः पालिताभून्नरेश्वरैः ।यावन्मन्वन्तरं तस्य मनोरुत्तमतेजसः
चतुर्युगानां संख्याता साधिका ह्येकसप्ततिः ।कृतत्रेतादिसंज्ञानां यान्युक्तानि युगे मया
स्वतेजसा हि तपसो वशिष्ठस्य महात्मनः ।तनयाश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन्
तृतीयमेतत्कथितं तव मन्वन्तरं मया
”अस्यान्यद्विवरणं तत्रैव ६८ अध्यायमारभ्य ७२अध्यायपर्य्यन्तं द्रष्टव्यम्
तामसः यथा, तत्रैव ७४ अध्याये ।“तामसाख्यो मनुरभूत्तस्य मन्वन्तरं शृणु ।ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः ।ये पुत्त्राश्च मनोस्तस्य पृथिवीपरिपालकाः
सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा ।एते देवगणास्तत्र सप्तविंशतिका मुने !
महाबलो महावीर्य्यः शतयज्ञोपलक्षितः ।शिखिरिन्द्रस्तथा तेषां देवानामभवद्विभुः
ज्योतिर्धामा पुथुः काव्यश्चैत्रोऽग्निर्बलकस्तथा ।पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन्
नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा ।पुत्त्रास्तु तामसस्यासन् राजानः सुमहाबलाः
”अस्यान्यद्विवरणं तत्रैव द्रष्टव्यम्
रैवतः ।यथा, तत्रैव ७५ अध्याये ।मार्कण्डेय उवाच ।“तामादाय ततो भूपः स्वमेव नगरं ययौ ।तस्मादजायत सुतो रेवत्यां रैवतो मनुः
समेतः सकलैर्धर्मैर्म्मानवैरपराजितः ।विज्ञाताखिलशास्त्रार्थो वेदविद्यार्थशास्त्रवित्
तस्य मन्वन्तरे देवान् मुनिदेवेन्द्रपार्थिवान् ।कथ्यमानान्मया ब्रह्मन् ! निबोध सुसमाहितः
सुमेधसस्तत्र देवास्तथा भूपतयो द्विज ! ।वैकुण्ठश्चामिताभश्च चतुर्द्दश चतुर्द्दश
तेषां देवगणानान्तु चतुर्णांमपि चेश्वर ! ।नाम्ना विभुरभूदिन्द्रः शतयज्ञोपलक्षकः
हिरण्यलोमा वेदश्रीरूर्द्धबाहुस्तथापरः ।वेदबाहुः सुधामा पर्जन्यश्च महामुनिः
वशिष्ठश्च महाभागो वेदवेदान्तपारगः ।एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः
बलबन्धुर्महावीर्य्यः सुयष्टव्यस्तथापरः ।सत्यकाद्यास्तथैवासन् रैवतस्य मनोः सुताः
रैवतान्तास्तु मनवः कथिता ये मया तव ।स्वायम्भुवाश्रया ह्येते स्वारोचिषमृते मनुम्
”अस्यान्यद्विवरणं तत्रैव द्रष्टव्यम्
चाक्षुषः ।यथा, तत्रैव ७६ अध्याये ।“तस्य मन्वन्तरेशस्य येऽन्तरत्रिदशा द्विज ! ।ये चर्षयस्तथैवेन्द्रो ये सुताश्चास्य तान् शृणु
आर्य्या नाम सुरास्तत्र तेषामेकोऽष्टको गणः ।प्रख्यातकर्म्मणां विप्र ! यज्ञे हव्यभुजामयम्
प्रख्यातबलवीर्य्याणां प्रभामण्डलदुर्दृशाम् ।द्वितीयश्च प्रसूताख्यो देवानामष्टको गणः
तथैवाष्टक एवान्यो भव्याख्यो देवतागणः ।चतुर्थश्च गणस्तत्र यूथगाख्यस्तथाष्टकः
लेखसं ज्ञास्तथैवान्ये तत्र मन्वन्तरे द्बिज ! ।पञ्चमे गणे देवास्तत्संज्ञा ह्यमृताशिनः
शतं क्रतूनामाहृत्य यस्तेषामधिपोऽभवत् ।मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक्
सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः
उरूपुरुशतद्युम्नप्रमुखाः सुमहाबलाः ।चाक्षुषस्य मनोः पुत्त्राः पृथिवीपतयोऽभवन्
”अस्यान्यद्विवरणं तत्रैवाध्याये द्रष्टव्यम्
वैव-स्वतः यथा, तत्रैव ७९ अध्याये ।मार्कण्डेय उवाच ।“आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।भृगवोऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः
आदित्या वसवो रुद्रा विज्ञेया कश्यपात्मजाः ।साध्याश्च वसवो विश्वे धर्मपुत्त्रगणास्त्रयः
भृगोस्तु भृगवो देवाः पुत्त्रा ह्यङ्गिरसः सुताः ।एष सर्गश्च मारीचो विज्ञेयः साम्प्रताधिपः
ऊर्ज्जस्वी नाम चैवेन्द्रो महात्मा यज्ञभागभुक् ।अतीतानागता ये वर्त्तन्ते साम्प्रतञ्च ये
सर्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः ।सहस्राक्षाः कुलिशिनः सर्व एव पुरन्दराः
मघवन्तो वृषाः सर्वे शृङ्गिणो गजगामिनः ।ते शतक्रतवः सर्वे भूताभिभवतेजसः
धर्माद्यैः कारणैः शुद्धैराधिपत्यगुणान्विताः ।भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्विज !
भूर्लोकोऽयं स्मृता भूमिरन्तरीक्षं दिवः स्मृतम् ।दिव्याख्यश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते
अत्रिश्चैव वशिष्ठश्च काश्यपश्च महानृषिः ।गौतमश्च भरद्वाजो विश्वामित्रोऽथ कौशिकः
तथैव पुत्त्रो भगवानृचीकस्य महात्मनः ।जमदग्निस्तु सप्तैते मुनयोऽत्र तथान्तरे
ईक्ष्वाकुर्नाभगश्चैव धृष्टशर्मातिरेव ।नरिष्यन्तश्च विख्यातो नाभगो दिष्ट एव
कुरूषश्च प्रुषध्रुश्च वसुमान् लोकविश्रुतः ।मनोर्वैवस्वतस्यैते नव पुत्त्राः प्रकीर्त्तिताः
वैवस्वतमिदं ब्रह्मन् ! कथितन्ते मयान्तरम् ।अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम ! ।मुच्यते पातकैः सर्व्वैः पुण्यञ्च महदश्नुते
”अस्यान्यद्विवरणं ७७-७८ अध्याययोर्द्रष्टव्यम्
सावर्णिः यथा, तत्रैव ८० अध्याये ।मार्कण्डेय उवाच ।“कथितस्तव सावर्णिश्छायासंज्ञासुतश्च यः ।पूर्व्वजस्य मनोस्तुल्यः मनुर्भविताष्टमः
रामो व्यासो गालवश्च दीप्तिमान् कृप एव ।ऋष्यशृङ्गस्तथा द्रोणिस्तत्र सप्तर्षयोऽभवन्
सुतपाश्चामिताभाश्च मुख्याश्चैव त्रिधा सुराः ।विंशकः कथिताश्चैषां त्रयाणां त्रिगुणो गणः
तपस्तपश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ।प्रभासो दयितो धर्मस्तेजोरश्मिश्च वक्रतुः
इत्यादिकस्तु सुतपा देवानां विंशको गणः ।प्रभुर्विभुर्विभासाद्यस्तथान्यो विंशको गणः
सुराणाममितानान्तु तृतीयमपि मे शृणु ।दमो दान्तो ऋतः सोमो विन्ताद्याश्चैव विंशतिः
मुख्या ह्येते समाख्याता देवा मन्वन्तराधिपाः
मारीचस्यैव ते पुत्त्राः काश्यपस्य प्रजापतेः
भविष्याश्च भविष्यन्ति सावर्ण्णस्यान्तरे मनोः ।तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने ! ।पाताल आस्ते योऽद्यापि दैत्यः समयबन्धनः ।विरजाश्चार्ववीरश्च निर्मोहः सत्यवाक् कृतिः
विष्ण्वाद्याश्चैव तनयाः सावर्णस्य मनोर्नृपाः
”अस्यान्यद्विवरणं तत्रैव ८१-९३ अध्यायेषु द्रष्ट-व्यम्
दक्षसावर्णिः यथा, तत्रैव ९४अध्याये ।“दक्षपुत्त्रश्च सावर्णो भावी यो नवमो मनुः ।कथयामि मनोस्तस्य ये देवा मुनयो नृपाः
पारामरीचिभर्गाश्च सुधर्माणस्तथा सुराः ।एते त्रिधा भविष्यन्ति सर्व्वे द्वादशका गणाः
तेषामिन्द्रो भविष्यस्तु सहस्राक्षो महाबलः ।साम्प्रतं कार्त्तिकेयो यो वह्रिपुत्त्रः षडाननः
अद्भुतो नाम शक्रोऽसौ भावी तस्यान्तरे मनोः ।मेधातिथिर्वसुः सत्यो ज्योतिष्मान् द्युतिमांस्तथा
सप्तर्षयोऽन्यः सबलस्तथान्यो हव्यवाहनः ।धृष्टकेतुर्वर्हकेतुः पञ्चहस्तो निरामयः ।पृथुश्रवास्तथार्चिष्मान् भूद्युरिम्नो बृहद्भयः
एते नृपसुतास्तस्य दक्षपुत्त्रस्य वै नृपाः
”१० ब्रह्मसावर्णिः यथा, तत्रैव ९४ अध्याये
“मनोस्तु दशमस्यान्यच्छृणु मन्वन्तरं द्विज !
मन्वन्तरे दशमे ब्रह्मपुत्त्रस्य धीमतः ।सुखासीना निरुद्धाश्च त्रिःप्रकाराः सुराःस्मृताः ।शतसंख्या हि ते देवा भविष्या भाविनो मनोः ।यत् प्राणिनां शतं भावि तद्देवानां तदा शतम्
शान्तिरिन्द्रस्तथा भावी सर्व्वैरिन्द्रगुणैर्युतः ।सप्तर्षींस्तान् निबोध त्वं ये भविष्यन्ति वै तदा
आपोमूर्त्तिर्हविष्मांश्च सुकृती सत्य एव ।नाभागोऽप्रतिमश्चैव वाशिष्ठश्चैव सप्तमः
सुक्षेत्रश्चोत्तमौजाश्च भूमिसेनश्च वीर्य्यवान् ।शतानीकोऽथ वृषभो ह्यनमित्रो जयद्रथः
भूरिद्युम्नः सुपर्व्वा तस्यैते तनया मनोः
”११ धर्म्मसावर्णिः यथा, तत्रैव ।“भविष्या धर्मपुत्त्रस्य सावर्णस्यान्तरं शृणु
विहङ्गमाः कामगाश्च निर्माणरतयस्तथा ।त्रिःप्रकारा भविष्यन्ति एकैकस्त्रिंशतो गणाः
मासर्तुर्दिवसा ये तु निर्माणपतयस्तु ते ।विहङ्गमा रात्रयोऽथ मौहूर्त्ताः कामगा गणाः
इन्द्रो वृषाख्यो भविता तेषां प्रख्यातविक्रमः ।हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः
निश्चरश्चानघश्चैव विष्टिश्चान्यो महामुनिः ।सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः
सर्व्वत्रगः सुशर्म्मा देवानीकः पुरूद्बहः ।हेमधन्वा दृढायुश्च भाविनस्तत्सुता नृपाः
”१२ रुद्रसावर्णिः यथा, तत्रैव ।“द्वादशे रुद्रपुत्त्रस्य प्राप्ते मन्वन्तरे मनोः ।सावर्णाख्यस्य ये देवा मुनयश्च शृणुष्व तान्
सुधर्माणः मुमनसो हरिता रोहितास्तथा ।सुवर्णाश्च सुरास्तत्र पञ्चैते दशका गणाः
तेषामिन्द्रस्तु विज्ञेय ऋतधामा महाबलः ।सर्वैरिन्द्रगुणैर्युक्तः सप्तर्षीनपि मे शृणु
द्युतिस्तपस्वी सुतपास्तपोमूर्त्तिस्तपोनिधिः ।तपोरतिस्तथैवान्यः सप्तमस्तु तपोधृतिः
देववानुपदेवश्च देवश्रेष्ठो विदूरथः ।मित्रवान् मित्रविन्दश्च भाविनस्तत्सुतानृपाः
”१३ रौच्यः यथा, तत्रैव ।“त्रयोदशस्य पर्य्याये रौच्याख्यस्य मनोः सुतान् ।सप्तर्षींश्च नृपांश्चैव गदतो मे निशामय
सुधर्माणः सुरास्तत्र सुकर्माणस्तथापरे ।सुशर्माणः सुरा ह्येते समस्ता मुनिसत्तम !
महाबलो महावीर्य्यस्तेषामिन्द्रो दिवस्पतिः ।भविष्यानथ सप्तर्षींन् गदतो मे निशामय
धृतिमानव्ययश्चैव तत्त्वदर्शी निरुत्सुकः ।निर्मोहः सुतपाश्चान्यो निष्प्रकम्पश्च सप्तमः
चित्रसेनो विचित्रश्च नयतिर्निर्भयो दृढः ।सुनेत्रः क्षत्त्रबुद्धिश्च सुव्रतश्चैव तत्सुताः
”१४ भौत्यः यथा, तत्रैव १०० अध्याये ।“भौत्यो नाम मनुस्तस्य पुत्त्रो भूतेरजायत ।तस्य मन्वन्तरे देवानृषीन् भूपांश्च मे शृणु
भविष्यस्य भविष्यांस्तु गदतो मम विस्तरात् ।देवेन्द्रो यश्च भविता तस्य विख्यातकर्मणः
चाक्षुषाश्च कनिष्ठाश्च पवित्रा भ्राजिरास्तथा ।धारावृकाश्च इत्येते पञ्च देवगणाः स्मृताः
शचिरिन्द्रस्तदा तेषां त्रिदशानां भविष्यति ।महाबलो महावीर्य्यः सर्व्वैरिन्द्रगुणैर्युतः
अग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः ।शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः
गुरुर्गभीरो व्रध्नश्च भरतोऽनुग्रहस्तथा ।स्त्रीमानी प्रतीरश्च विष्णुः संक्रन्दनस्तथा
तेजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ।चतुर्दश मयैतत्ते मन्वन्तरमुदाहृतम्
”मन्वन्तरकथाश्रवणफलमाह तत्रैव १०० अध्याये ।“श्रुत्वा मन्वन्तराणीत्थं क्रमेण मुनिसत्तम ! ।पुण्यमाप्नोति मनुजस्तथाक्षीणाञ्च सन्ततिम्
श्रुत्वा मन्वन्तरं पूर्व्वं धर्ममाप्नोति मानवः ।स्वारोचिषस्य श्रवणात् सर्वकामानवाप्नुते
औत्तमेर्धनमाप्नोति ज्ञानञ्चाप्नोति तामसे ।रैवते श्रुते बुद्धिं सुरूपां विन्दते स्त्रियम्
आरोग्यञ्चाक्षुषे पुंसां श्रुते वैवस्वते बलम् ।गुणवत्पुत्त्रपौत्त्रन्तु सूर्य्यसावर्णिके श्रुते
माहात्म्यं ब्रह्मसावर्णे धर्मसावर्णिके शुभम् ।मतिमाप्नोति मनुजो रुद्रसावर्णिके जयम्
ज्ञातिश्रेष्ठो गुणैर्युक्तो दक्षसावर्णिके श्रुते ।निशातयत्यरिबलं रौच्यं श्रुत्वा नरोत्तम !
देवप्रसादमाप्नोति भौत्ये मन्वन्तरे श्रुते ।तथाग्निहोत्रं पुत्त्रांश्च गुणयुक्तानवाप्नुते
सर्वाण्यनुक्रमाद्यश्च शृणोति मुनिसत्तम ! ।मन्वन्तराणि तस्यापि श्रूयतां फलमुत्तमम्
तत्र देवानृषीनिन्द्रान्मनूं स्तत्तनयान्नृपान् ।वंशांश्च श्रुत्वा सर्वेभ्यः पापेभ्यो विप्रमुच्यते
देवर्षीन्द्रनृपाश्चान्ये ये तन्मन्वन्तराधिपाः ।ते प्रीयन्ते तथा प्रीताः प्रयच्छन्ति शुभां मतिम्
ततः शुभां मतिं प्राप्य कृत्वा कर्म तथा शुभम् ।शुभां गतिमवाप्नोति यावदिन्द्राश्चतुर्दश
सर्वे स्युरृतवः क्षेम्याः सर्वे सौम्यास्तथा ग्रहाः ।भवन्त्यसंशयं श्रुत्वा क्रमान्मन्वन्तरस्थितिम्
*
विष्णुः यथा, महाभारते १३ १४९ १९ ।“विश्वकर्म्मा मनुस्त्वष्टा स्थविष्ठो स्थविरो ध्रुवः
”मननप्रधानो विद्बान् यथा, वाजसनेयसंहि-तायाम् १५ ४९ ।“तस्मिन्नहं निदधे नाकेऽग्निं यमाहुर्मनवस्तीर्ण-बर्हिषम्
”“मनवः मननप्रधाना विद्वांसः
इति तद्भाष्येमहीधरः
*
अन्तःकरणम् यथा, भागवते ।६ २५ ।“देहोऽसवोऽक्षा मनवो भूतमात्रानात्मानमन्युञ्च विदुः परं यत्
”“मनवोऽन्तःकरणानि ।” इति तट्टीकायां श्रीधरः
कृशाश्वस्य पुत्त्रभेदः यथा, भागवते २० ।“कृशाश्वोऽर्च्चिषि भार्य्यायां धूमकेतुमजीजनत् ।विषण्णायां वेदशिरः देवलं वयुनं मनुम्
”)