| YouTube Channel

मनिता-त्री (manitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मनु अवबोधने”@} 2 ‘स्तम्भे मानयते, ज्ञाने मन्यते मनुते पदम्।।’ 3 इति देवः।
‘--बोधने इति मैत्रेयः।’ इति मा।
धा।
वृत्तिटीका।
मानकः-निका, मानकः-निका, 4 मिमनिषकः-षिका, मम्मनकः-मंमनकः- निका
मनिता-त्री, मानयिता-त्री, मिमनिषिता-त्री, मम्मनिता-मंमनिता-त्री
इत्यादीनि सर्वाणि रूपाणि दैवादिकमन्यतिवत् 5 ज्ञेयानि।
क्विपि 6 हरिमत्-हरिमतौ-हरिमतः
7 मतः-तम्-तवान्, 8 मनितम्-तः-तवान्, 9 मनित्वा-मत्वा, 10 मेनका, 11 अभिमत्य, 12 मन्तिः, 13 मन्वानः इतीमानि रूपाणि अस्य धातोः विशेषेण संभवन्तीति विशेषः।
14
प्रासङ्गिक्यः
01
=>
(१२१९)
02
=>
(८-तनादिः-१४७१। सक। सेट्। आत्म।)
03
=>
(श्लो। १२५)
04
=>
[[१। अस्य धातोः सेट्त्वात् सनि रूपमेवम्। एवं सन्नन्ते सर्वत्र बोध्यम्। शुद्धात् तृजादिषु एवमेव ऊह्यम्।]]
05
=>
(१२१७)
06
=>
[[२। ‘गमः क्वौ’ (६-४-४०) इत्यत्र ‘गमादीनामिति वक्तव्यम्’ इति वचनात् क्विपि अनुनासिकलोपे, ‘ह्रस्वस्य--’ (६-१-७१) इति तुकि रूपमेवम्।]]
07
=>
[[३। निष्ठायाम्, ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’ (६-४-३७) इति अनुनासिकलोपे रूपमेवम्।]]
08
=>
[[४। निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इति निषेधस्यानित्यत्वादिट्। तदनित्यत्वे च, ‘कृती छेदने’ (तु। से। पर।) इतीदित्करणं लिङ्गम्। अन्यथा, ‘सेऽसिचि--’ (७-२-५७) इति वेट्कत्वात् सिद्धे किं तेन?’ इति अमख्याख्यायाम् (१-१०७) प्रतिपादितत्वात् मनितम् इत्यपि साधुरिति ज्ञेयम्। तथा-- ‘बुद्धं बुधितं मनितम्’ इत्यमरः। ‘एवमेव स्वामी’ इति प्र। सर्वस्वे।]]
09
=>
[[५। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे मनित्वा। इडभावपक्षे, अनुनासिकलोपे मत्वा इति रूपद्वयं बोध्यम्।]]
10
=>
[[६। ‘आशिषि च’ (३-१-१५०) इति वुन्। ‘नशिमन्योरलिट्येत्वं वक्तव्यम्’ (वा। ६-४-१२०) इति वचनात् एत्वे रूपमेवम्। “--‘मेनका’ इत्यपि भाषायां प्राप्नोति। यदि तु इष्यते पृषोदरादित्वाद्भविष्यति। ‘आशिषि चोपसंख्यानम्’ (वा। ७-३-४५) इति इत्वाभावः।” इति प्रकृतसूत्रभाष्ये (६-४-१२०) कैयटे प्रतिपादितम्।]]
11
=>
[[७। ल्यपि, ‘वा ल्यपि’ (६-४-३८) इत्यस्य व्यवस्थितविभाषाश्रयणाद् अत्र नान्तानिटां नित्यम् अनुनासिकलोपः। तेन अभिमत्य इत्येकमेव रूपम्।]]
12
=>
[[८। तनोत्यादित्वात् क्तिचि ‘न क्तिचि दीर्घश्च’ (६-४-३९) इति दीर्घानुनासिकलोप- निषेधे रूपमेवम्।]]
13
=>
[[आ। ‘कंसस्तृणीकृतरिपुः घृणिमान् वताप्तिं मन्वान एकमथ मञ्चमलञ्चकार।।’ धा। का। ३। ४।]]
14
=>
[पृष्ठम्१००३+ २८]