| YouTube Channel

मनस्थं (manasthaM)

 
शब्दकल्पद्रुमः
Sanskrit
मनस्थं, त्रि, (मने मनसि वा तिष्ठतीति स्था +कः पक्षे विसर्गस्य लोपः ।) मनोऽवच्छिन्नम् ।अन्तःकरणस्थितम् यथा, --“मनस्थं मनमध्यस्थं मध्यस्थं मनवर्ज्जितम् ।मनसा मनमालोक्य स्वयं सिद्ध्यन्ति योगिनः
”इति श्रीमदुत्तरगीतासूपनिषत्सु ब्रह्मविद्यायांयोगशास्त्रे श्रीकृष्णार्ज्जुनसंवादे ब्रह्मनिरूपणंनाम अध्यायः
“तादृशब्रह्मापरोक्षेण मुच्यतेइत्याह मनस्थमित्यादि मनस्थं मनोऽव-च्छिन्नम् मनमध्यस्थं मनःसाक्षीभूतम् मध्यस्थंसर्व्वसाक्षीभूतम् मनवर्ज्जितं सङ्कल्पविक-ल्पादिरहितम् मनमवबोधात्मकम् तदेवंमनसा परिशुद्धान्तःकरणेन आलोक्य तद्गोचरापरोक्षचरमवृत्तिं लब्ध्वा योगिनःज्ञानिनः स्वयमेव सिद्ध्यन्ति निवृत्ताविद्यकामुक्ता भवन्तीत्यर्थः ।” इति श्रीमदुत्तरगीतायाःसुबोधिन्यां टीकायां श्रीगौडपादाचार्य्यविर-चितायां अध्यायः
*
सर्व्वे सान्ता अद-न्ताश्चेति प्रमाणादत्र मनशब्दोऽकारान्तः ।मनःस्थितम् यथा, --“आजन्मं मन्मनस्थं यदपि मम मनोमध्यतःक्वापि नाभूत्तत्ते पुण्यप्रतापादिह शरदि सतः सिद्धमाभूत्सुखेन
”इत्युद्भटः