| YouTube Channel

मनस्कारः (manaskAraH)

 
Apte Hindi
Hindi
मनस्कारः
पुं*
मनस्-कारः -
पूर्ण प्रत्यक्ष ज्ञान(सुख या दुःख का) पूरी चेतना
शब्दकल्पद्रुमः
Sanskrit
मनस्कारः,
पुं,
(मनसि मनसो वा कारो निश्चयइति यद्वा, कृ + भावे घञ् मनसः कारो-विकारः करणमिति वा ।) मनसः सुखादिः ।तत्र्य्यायः चित्ताभोगः इत्यमरः ।५
द्वे मनसः सुखादौ तत्परत्वे एकस्मिन्विषये मनसः पुनः पुनः प्रवृत्तिराभोगः ।आभोगस्तात्पर्य्यमिति सर्व्वानन्दः स्थैर्य्य-मित्यन्ये व्यापार इत्यपरे वाञ्छितवस्तु-प्राप्त्या चित्तस्य निराकाङ्क्षता आभोगःपरिपूर्णतेति परे अनागतचिन्तनादिरूपोमनस्कार इत्यपरे मनसो मनसि वा कारोनिश्चयो मनस्कारः सेतु कखेति सः मनसिकरणं मनसि कारः इत्यपि दृश्यते अत्र बाहु-ल्यात् सप्तम्या अलुक् इति तट्टीकायां भरतः