मनसा (manasA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishमनसा [manasā], of a daughter of Kaśyapa, sister of the serpent king, Ananta, wife of the sage जरत्कारु and mother of the sage अस्तिक
so मनसादेवी. -पञ्चमी the fifth day in the dark half of Āṣāḍha.
Apte 1890
EnglishMonier Williams Cologne
EnglishHindi
Hindiमन से
Apte Hindi
Hindiमनसा
- मनस् + अच + टाप्
"कश्यप की एक पुत्री का नाम, नागराज अनन्त की बहन तथा जरत्कारु मुनि की पत्नी, इसीप्रकार मनसादेवी"
Shabdartha Kaustubha
Kannadaमनसा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜರತ್ಕಾರು ಮಹರ್ಷಿಯ ಪತ್ನಿ /ವಾಸುಕಿಯ ಸಹೋದರಿ /ಆಸ್ತಿಕ ಋಷಿಯ ತಾಯಿ
विस्तारः - > ಇವಳೇ ಮನಸಾದೇವಿ.
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritमनसा, (मनः भक्ताभीष्टपूरणाय मननंअस्त्यस्या इति । मनस् + अर्श आदित्वादच् ।ततष्टाप् । यद्वा, मनं मननमहङ्कारमितियावत् स्यति नाशयतीति । सो + कः ।) देवी-विशेषः । तत्पर्य्यायः । कद्रुः २ मनसादेवी ३विषहरी ४ । इति जटाधरः ॥
अस्याः प्रणाम-मन्त्रः ।“आस्तीकस्य मुनेर्माता भगिनी वासुकेस्तथा ।जरत्कारुमुनेः पत्नी मनसादेवि ! नमोऽस्तु ते ॥
”इति तस्याः पूजापद्धतिः ॥
तस्या नाम्नां व्युत्पत्तिर्यथा, --श्रीनारायण उवाच ।“श्रूयतां मनसाख्यानं यत् श्रुतं धर्म्मवक्त्रतः ।कन्या सा च भगवती कश्यपस्य च मानसी ॥
तेनेयं मनसादेवी मनसा या च दीव्यति ।मनसा ध्यायते या वा परमात्मानमीश्वरी ॥
तेन सा मनसादेवी योगेन तेन दीव्यति ।आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ॥
त्रियुगञ्च तपस्तप्त्वा कृष्णस्य परमात्मनः ।जरत्कारुशरीरञ्च दृष्ट्वा यत् क्षीणमीश्वरः ॥
गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः ।वाञ्छितञ्च ददौ तस्यै कृपया च कृपानिधिः ॥
पूजाञ्च कारयामास चकार च पुनः पुनः ।स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः ॥
भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा ।जगद्गौरीति विख्याता तेन सा पूजिता सती ॥
शिवशिष्या च सा देवी तेन शैवीति कीर्त्तिता ।विष्णुभक्तातीव शश्वद्वैष्णवी तेन नारद ! ॥
नागानां प्राणरक्षित्री यज्ञे जन्मेजयस्य च ।नागेश्वरीति विख्याता सा नागभगिनीति च ॥
विषं संहर्त्तुमीशा सा तेन विषहरीति सा ।सिद्धं योगं हरात् प्राप तेनातिसिद्धयोगिनी ।महाज्ञानञ्च गोप्यञ्च मृतसञ्जीवनीं पराम् ।महाज्ञानयुतां ताञ्च प्रवदन्ति मनीषिणः ॥
आस्तीकस्य मुनीन्द्रस्य माता सा च तप-स्विनः ॥
आस्तीकमाता विख्याता जगत्सु सुप्रतिष्ठीता ॥
प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः ।योगिनो विश्वपूज्यस्य जरत्कारुप्रिया ततः ॥
जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ।वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ॥
जरत्कारुप्रियास्तीकमाता विषहरीति च ।महाज्ञानयुता चैव सा देवी विश्वपूजिता ॥
द्वादशैतानि नामानि पूजाकाले च यः पठेत् ।तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥
नागभीते च शयने नागग्रस्ते च मन्दिरे ।नागक्षते महादुर्गे नागवेष्टितविग्रहे ।इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ।नित्यं पठेद् यस्तं दृष्ट्वा नागवर्गः पलायते ॥
दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ।स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः ॥
नागौघभूषणं कृत्वा स भवेन्नागवाहनः ।नागासनो नागतल्पो महासिद्धोभवेन्नरः ॥
”इति ब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारा-यणनारदीये मनसोपाख्याने मनसास्तोत्रं नामपञ्चचत्वारिंशत्तमोऽध्यायः ॥
* ॥
तस्याः पूजा-मन्त्रादि यथा, --श्रीनारायण उवाच ।“पूजाविधानं स्तोत्रञ्च श्रूयतां मुनिपुङ्गव ! ।ध्यानञ्च सामवेदोक्तं देवीपूजाविधानकम् ॥
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।वह्रिशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥
महाज्ञानयुताञ्चैव प्रवरां ज्ञानिनां सतीम् ।सिद्धाधिष्ठातृदेवीञ्च सिद्धां सिद्धिप्रदां भजे ॥
इति ध्यात्वा तु तां देवीं मूलेनैव प्रपूजयेत् ।नैवेद्यैर्विविधैर्दीपैः पुष्पधूपानुलेपनैः ॥
मूलमन्त्रश्च वेदोक्तो भक्तानां वाञ्छितप्रदः ।मुने ! कल्पतरुर्नाम सुसिद्धो द्बादशाक्षरः ॥
ओँ ह्रीं श्रीं क्रीं ऐं मनसादेव्यै स्वाहेति कीर्त्तितः ।पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥
मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले ।सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ॥
ब्रह्मन्नाषाढसंक्रान्त्यां स्नुहीशाखासु यत्नतः ।आवाह्य देवीमीशान्तां पूजयेद् यो हिभक्तितः ॥
पञ्चम्यां मनसाख्यायां देव्यै दद्याच्च यो बलिम् ।धनवान् पुत्त्रवांश्चैव कीर्त्तिमांश्च भवेद्ध्रुवम् ॥
पूजाविधानं कथितं तदाख्यानं निशामय ।कथयामि महाभाग ! यत् श्रुतं धर्म्मवक्ततः ॥
”तस्या जन्मकारणं यथा, --“पुरा नागभयाक्रान्ता बभुयुर्मानवा भुवि ।यान् यान् खादन्ति नागाश्च ते न जीवन्तिनारद ! ॥
मन्त्रांश्च ससृजे भीतः कश्यपः ब्रह्मणार्थितः ।वेदबीजानुसारेण चोपदेशेन ब्रह्मणः ॥
मन्त्राधिष्ठातृदेवीन्तां मनसां ससृजे ततः ।तपसा मनसा तेन बभूव मनसा च सा ॥
”तस्यास्तपस्यादि यथा, --“कुमारी सा च सम्भूय जगाम शङ्करालयम् ।भक्त्या संपूज्य कैलासे तुष्टाव चन्द्रशेखरम् ॥
दिव्यं वर्षसहस्रञ्च तं सिषेवे मुनेः सुता ।आशुतोषो महेशश्च ताञ्च तुष्टो बभूव ह ॥
महाज्ञानं ददौ तस्यै पाठयामास साम च ।कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ! ॥
लक्ष्मीमाया कामबीजं ङेऽन्तं कृष्णपदन्तथा ।त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम् ॥
सर्व्वपूज्यञ्च स्तवनं ध्यानं भुवनपावनम् ।पुरश्चर्य्याक्रमञ्चापि वेदोक्तं सर्व्वसम्मतम् ॥
प्राप्ता मृत्युञ्जयाज्ज्ञानं परं मृत्युञ्जयं सती ।जगाम तपसे साध्वी पुष्करं शङ्कराज्ञया ॥
त्रियुगञ्च तपस्तप्त्वा कृष्णस्य परमात्मनः ।सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् ॥
दृष्ट्वा कृशाङ्गीं बालाञ्च कृपया च कृपानिधिः ।पूजाञ्च कारयामास चकार च स्वयं हरिः ॥
वरञ्च प्रददौ तस्यै पूजिता त्वं भवे भव ।वरं दत्त्वा च कल्याण्यै सद्यश्चान्तर्दधे विभुः ॥
प्रथमे पूजिता सा च कृष्णेन परमात्मना ।द्वितीये शङ्करेणैव कश्यपेन सुरेण च ॥
मनुना मुनिना चैव नागेन मानवादिना ।बभूव पूजिता सा च त्रिषु लोकेषु सुव्रता ॥
”तस्या विवाहः स्वामिकर्त्तृकत्यागश्च यथा, --“जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा ।अयाचितो मुनिश्रेष्ठो जग्राह ब्रह्मणाज्ञया ॥
कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ।सुष्वाप देव्या जघने वटमूले च पुष्करे ॥
निद्रां जगाम च मुनिः स्मृत्वा निद्रेशमीश्वरम् ।जगामास्तं दिनकरः सायंकाल उपस्थितः ॥
सचिन्त्य मनसा तत्र मनसा सा प्रतिष्ठिता ।धर्म्मलोपभयेनैव चकारालोचनं सती ॥
अकृत्वा पश्चिमां सन्ध्यां नित्याञ्चैव द्बिजन्मनाम् ।ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम ॥
नोपतिष्ठति यः पूर्व्वां नोपास्ते यस्तु पश्चिमाम् ।स च एवाशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् ॥
वेदोक्तमपि संचिन्त्य बोधयामास तं मुनिम् ।स च बुद्धा मुनिश्रेष्ठश्चुकोप तां दृशा मुनिः ॥
जरत्कारुरुवाच ।कथं मे सुव्रते ! साध्वि ! निद्राभङ्गः कृतस्त्वया ।व्यर्थं व्रतादिकं तस्या या भर्त्तुश्चापकारिणी ॥
तपश्चानशनञ्चैव व्रतं दानादिकञ्च यत् ।भर्त्तुरप्रियकारिण्याः सर्व्वं भवति निष्फलम् ॥
यया प्रियः पूजितश्च श्रीकृष्णः पूजितस्तया ।पतिव्रताव्रतार्थञ्च पतिरूपी हरिः स्वयम् ॥
सर्व्वदानं सर्व्वयज्ञः सर्व्वतीर्थनिषेवणम् ।सर्व्वं व्रतं तपः सर्व्वमुपवासादिकञ्च यत् ॥
सर्व्वधर्म्मश्च सत्यञ्च सर्व्वदेवप्रपूजनम् ।तत्सर्व्वं स्वामिसेवायाः कलां नार्हन्ति षोड-शीम् ॥
सुपुण्ये भारते वर्षे पतिसेवां करोति या ।वैकुण्ठं स्वामिना सार्द्धं सा याति ब्रह्मणःशतम् ॥
विप्रियं कुरुते भर्त्तुर्विप्रियं वदति प्रियम् ।असत्कुलप्रजाता या तत्फलं श्रूयतां सति ! ॥
कुम्भीपाकं व्रजेत् सा च यावच्चन्द्रदिवाकरौ ।ततो भवति चाण्डाली पतिपुत्त्रविवर्जिता ॥
इत्युक्त्वा च सुनिश्रेष्ठो बभूव स्फुरिताधरः ।चकम्पे मनसा साध्वी भयेनोवाच तं पतिम् ॥
मनसोवाच ।सन्ध्यालोपभयेनैव निद्राभङ्गः कृतस्तव ।कुरु शास्तिं महाभाग ! दुष्टाया मम सुव्रत ! ॥
शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति च ।स व्रजेत् कालसूत्रञ्च स्वामिनश्च विशेषतः ॥
इत्युक्त्वा मनसादेवी स्वामिनश्चरणाम्बुजे ।पपात भक्त्या भीता च रुरोद च पुनः पुनः ॥
कुपितञ्च मुनिं दृष्ट्वा श्रीसूर्य्यः शप्तुमुद्यतम् ।तत्राजगाम भगवान् सन्ध्यया सह नारद ! ॥
तत्रागत्य मुनिश्रेष्ठमुवाच भास्करः स्वयम् ।विनयेन च भीतश्च तया सह यथोचितम् ॥
श्रीसूर्य्य उवाच ।सूर्य्यास्तसमयं दृष्ट्वा धर्म्मलोपभयेन च ।बोधयामास त्वां विप्र ! नाहमस्तं गतस्तदा ॥
क्षमस्व भगवन् ! ब्रह्मन्मां शप्तुं नोचितं मुने ! ॥
ब्राह्मणानाञ्च हृदयं नवनीतसमं तथा ।तेषां क्षणार्द्धं क्रोधश्च ततो भस्म भवेज्जगत् ॥
पुनः स्रष्टुं द्बिजः शक्तो न तेजस्वी द्विजात्परः ।ब्राह्मणो ब्रह्मणो वंशः प्रज्वलन् ब्रह्मतेजसा ॥
श्रीकृष्णं भावयेन्नित्यं ब्रह्मज्योतिः सनातनम् ।सूर्य्यस्य वचनं श्रुत्वा द्विजः शान्तो बभूव ह ॥
सूर्य्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् ।तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ॥
रुदन्ती शोकयुक्ता च हृदयेन विदूयता ।सा सस्मार गुरुं शम्भुमिष्टदेवं हरिं विधिम् ॥
कश्यपं जन्मदातारं विपत्तौ भयकर्षिता ।तत्राजगाम भगवान् गोपीशः शम्भुरेव च ।विधिश्च कश्यपश्चैव मनसा परिचिन्तितः ॥
दृष्ट्वा विप्रोऽभीष्टदेवं निर्गुणं प्रकृतेः परम् ।तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः ॥
नमश्चकार शम्भुञ्च ब्रह्माणं कश्यपन्तदा ।कथमागमनं देवा इति प्रश्नं चकार सः ॥
ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम् ।समुवाच नमस्कृत्य हृषीकेशपदाम्बुजम् ॥
ब्रह्मोवाच ।यदि त्यक्ता धर्म्मपत्नी धर्म्मिष्ठा मनसा सती ।कुरुष्वास्यां सुतोत्पत्तिं स्वधर्म्मपालनाय वै ॥
यती वा ब्रह्मचारी वा भिक्षुर्व्वनचरोऽपि वा ।जायायाञ्च सुतोत्पत्तिं कृत्वा पश्चात् त्यजेन्मुने ! ॥
अकृत्वा तु सुतोत्पत्तिं वैरागी यस्त्यजेत् प्रियाम् ।स्रवेत्तपस्तत्पुण्यञ्च चालन्याञ्च यथा जलम् ॥
”तस्याः पुत्त्रोत्पत्तिर्यथा, --“ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः ।चकार तन्नाभिस्पर्शं योगेन मन्त्रपूर्व्वकम् ॥
तस्यै शुभाशिषं दत्त्वा ययुर्देवा मुदान्विताः ।मुदान्विता च मनसा जरत्कारुर्मुदान्वितः ॥
मुनेः करस्पर्शमात्रात् सद्यो गर्भो बभूव ह ।मनसाया मुनिश्रेष्ठ ! मुनिश्रेष्ठ उवाच ताम् ॥
”जरत्कारुरुवाच ।गर्भेणानेन मनसे ! तव पुत्त्रो भविष्यति ।जितेन्द्रियाणां प्रवरो धार्म्मिको वैष्णवाग्रणीः ॥
तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ।वरो वेदविदाञ्चैव ज्ञानिनां योगिनान्तथा ॥
स च पुत्त्रो विष्णुभक्तो धार्म्मिकः कुलमुद्धरेत् ।नृत्यन्ति पितरः सर्व्वे यज्जन्ममात्रतो मुदा ॥
पतिव्रता सुशीला या सा प्रिया प्रियवादिनी ।धर्म्मिष्ठपुत्त्रमाता च कुलजा कुलपालिका ॥
हरिभक्तिप्रदो बन्धुस्तमिष्टं तत्सुखप्रदम् ।यो बन्धच्छित् स च पिता हरेर्वर्त्म प्रदर्शकः ॥
सा गर्भधारिणी या च गर्भवासविमोचनी ।विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ॥
गुरुश्च ज्ञानदाता च तज्ज्ञानं कृष्णभावनम् ।आब्रह्मस्तम्बपर्य्यन्तं यतो विश्वं चराचरम् ॥
आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः ।वेदजं योगजं यद्यत्तत्सारं हरिसेवनम् ॥
तत्त्वानां सारभूतञ्च हरिरन्यद्विडम्बनम् ।दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः ।ज्ञानात् प्रमुच्यते बन्धात् स रिपुर्यो हि बन्धदः ॥
विष्णुभक्तियुतं ज्ञानं न ददाति हि यो गुरुः ।स रिपुः शिष्यघाती च यो हि बन्धान्न मोचयेत् ॥
जननीगर्भजात् क्लेशाद् यमताडनजात्तथा ।न मोचयेद् यः स कथं गुरुस्तातो हि बान्धवः ॥
परमानन्दरूपञ्च कृष्णमार्गमनश्वरम् ।न दर्शयेद् यः स कथं कीदृशो बान्धवो नृणाम् ॥
भज साध्वि ! परं ब्रह्माच्युतं कृष्णञ्च निर्गुणम् ।निर्मूलञ्च पुरा कर्म्म भवेद् यत्सेवया ध्रुवम् ॥
मया च्छलेन त्वं त्यक्ता क्षम देवि ! मम प्रिये ! ।क्षमायुतानां साध्वीनां सत्त्वात् क्रोधो न विद्यते ॥
पुष्करं तपसे यामि गच्छ देवि ! यथासुखम् ।श्रीकृष्णचरणाम्भोजध्यानविच्छेदकातरः ॥
धनादिषु स्त्रियां प्रीतिः प्रवृत्तिवर्त्म गच्छताम् ।श्रीकृष्णचरणाम्भोजे निष्पृहाणां मनोरथाः ॥
जरत्कारुवचः श्रुत्वा मनसा शोककातरा ।सा साश्रुनेत्रा विनयादुवाच प्राणवल्लभम् ॥
मनसोवाच ।दोषेणाहं त्वया त्यक्ता निद्राभङ्गेण ते प्रभो ! ।यत्र स्मरामि त्वां बन्धो ! तत्र मामागमिष्यसि ॥
बन्धुभेदः क्लेशतमः पुत्त्रभेदस्ततः परः ।प्राणेशभेदः प्राणानां विच्छेदात् सर्व्वतः परः ॥
पतिः पतिव्रतानान्तु शतपुत्त्राधिकः स्मृतः ।सर्व्वस्मात्तु प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः ॥
पुत्त्रे यथैकपुत्त्राणां वैष्णवानां यथा हरौ ।नेत्रे यथैकनेत्राणां तृषितानां यथा जले ॥
क्षुधितानां यथान्ने च कामुकानां यथा स्त्रियाम् ।यथा परस्वे चौराणां यथा जारे कुयोषिताम् ॥
विदुषाञ्च यथा शास्त्रे बाणिज्ये बणिजां यथा ।तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो ! ॥
इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे ।क्षणं चकार क्रोडे तां कृपया स कृपानिधिः ॥
नेत्रोदकेन मनसां स्नापयामास तां मुनिः ।साश्रुणा च मुनेः क्रोडं सिषेच भेदकातरा ॥
तदा ज्ञानेन तौ द्वौ च विशोकौ च बभूवतुः ।स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः ॥
जगाम तपसे विप्रः स्वकान्तां सुप्रबोध्य च ।जगाम मनसा शम्भोः कैलासं मन्दिरं गुरोः ॥
पार्व्वती बोधयामास मनसां शोककर्षिताम् ।शिवश्चातीव ज्ञानेन शिवेन च शिवालये ॥
सुप्रशस्तदिने साध्वी सुषुवे मङ्गलक्षणे ।नारायणांशं पुत्त्रञ्च ज्ञानिनां योगिनां गुरुम् ॥
गर्भस्थितो महाज्ञानं श्रुत्वा शङ्करवक्त्रतः ।स बभूव च योगीन्द्रो योगिनां ज्ञानिनां गुरुः ॥
जातकं कारयामास वाचयामास मङ्गलम् ।वेदांश्च पाठयामास शिवाय च शिवः शिशोः ॥
रत्नत्रिकोटिलक्षञ्च ब्राह्मणेभ्यो ददौ शिवः ।पार्व्वती च गवां लक्षं रत्नानि विविधानि च ॥
शम्भुश्च चतुरो वेदान् वेदाङ्गानीतराणि च ।बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् ॥
भक्तिरस्ति स्वकान्ते चाभीष्टदेवे गुरौ हरौ ।यस्याश्च तेन त्वत्पुत्त्रो बभूवास्तीक एव च ॥
जगाम तपसे विष्णोः पुष्करं शङ्कराज्ञया ।संप्राप्य च महामन्त्रं तपश्च परमात्मनः ॥
दिव्यं वर्षत्रिलक्षञ्च तपस्तप्त्वा तपोधनः ।आजगाम महायोगी नमस्कर्त्तुं शिवं प्रभुम् ॥
शङ्करञ्च नमस्कृत्य कृत्वा च बालकं पुरः ।सा चाजगाम मनसा कश्यपस्याश्रमं पितुः ॥
तां सपुत्त्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः ।शतलक्षञ्च रत्नानां ब्राह्मणेभ्यो ददौ मुने ! ॥
ब्राह्मणान् भोजयामास सोऽसंख्यान् श्रेयसेशिशोः ।अदितिश्च दितिश्चान्या मुदं प्रापुः परन्तथा ॥
सा सपुत्त्रा च सुचिरं तस्थौ तातालये तदा ।तदीयं पुनराख्यानं वक्ष्यामि तन्निशामय ॥
”तस्या माहात्म्यं यथा, --“अथाभिमन्युतनये ब्रह्मशापः परीक्षिते ।बभूव सहसा ब्रह्मन् ! दैवदोषेण कर्म्मणा ॥
सप्ताहे समतीते तु तक्षकस्त्वाञ्च भोक्ष्यति ।शशाप शृङ्गी नृपतिं कौशिक्याश्च जलेन च ॥
राजा श्रुत्वा तत्प्रवृत्तिं गङ्गाद्वारं जगाम सः ।तत्र तस्थौ च सप्ताहं शुश्राव धर्म्मसंहिताम् ॥
सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि ।धन्वन्तरिर्नृपं भोक्तुं ददर्श गामुको नृपम् ॥
तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् ।धन्वन्तरिर्मणिं प्राप तक्षकः स्वेच्छया ददौ ॥
स ययौ तं गृहीत्वा च तुष्टः प्रहृष्टमानसः ।तक्षको भक्षयामास नृपञ्च मञ्चकस्थितम् ॥
राजा जगाम वैकुण्ठं स्मारं स्मारं हरिं गुरुम् ।सत्कारं कारयामास पितुर्जन्मेजयः शुचा ॥
राजा चकार यज्ञञ्च सर्पसत्रं ततो मुने ! ।प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा ॥
स तक्षकश्च भीतश्च महेन्द्रं शरणं ययौ ।सेन्द्रञ्च तक्षकं हन्तुं विप्रवर्गः समुद्यतः ॥
अथ देवाश्च मुनयश्चाययुर्मनसान्तिकम् ।तान्तुष्टाव महेन्द्रश्च भयकातरविह्वलः ॥
तत आस्तीक आगत्य यज्ञञ्च मातुराज्ञया ।महेन्द्रतक्षकप्राणान् ययाचे भूमिपं वरम् ॥
ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया ।यज्ञं समाप्य विप्रेभ्यो दक्षिणाञ्च ददौ मुदा ॥
विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम् ।मनसां पूजयामासुस्तुष्टुवुश्च पृथक् पृथक् ॥
शक्रः सम्भृतसम्भारो भक्तियुक्तः सदा शुचिः ।मनसां पूजयामास तुष्टाव परमादरम् ॥
दत्त्वा षोडशोपचारं बलिञ्च तत्प्रियं तदा ।प्रददौ परितुष्टश्च ब्रह्मविष्णुशिवाज्ञया ॥
संपूज्य मनसादेवीं प्रययुः स्वालयञ्च ते ।इत्येवं कथितं सर्व्वं किं भूयः श्रोतुमिच्छसि ॥
”इन्द्रकृतमनसापूजास्तोत्रे यथा, --नारद उवाच ।“केन तुष्टाव स्तोत्रेण महेन्द्रो मनसां सतीम् ।पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः ॥
श्रीनारायण उवाच ।सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी ।रत्नसिंहासने देवीं वासयामास भक्तितः ॥
स्वर्गगङ्गाजलेनैव बहुकुम्भस्थितेन च ।स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः ॥
वाससी वासयामास वह्रिशुद्धे मनोहरे ।सर्व्वाङ्गे चन्दनं दत्त्वा पाद्यार्ध्यं भक्तिसंयुतः ॥
गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम् ।संपूज्यादौ देवषट्कं पूजयामास तां सतीम् ॥
ओँ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवञ्च मन्त्रतः ।दशाक्षरेण मूलेन ददौ सर्व्वं यथोचितम् ॥
दत्त्वा षोडशोपचारं दुर्लभं दुर्लभां हरिः ।भक्त्या च पूजयामास ब्रह्मणा प्रेरितो मुदा ॥
वाद्यं नानाप्रकारञ्च वादयामास तत्र वै ।बभूव पुष्पवृष्टिश्च नभसो मनसोपरि ॥
देवविप्राज्ञया तत्र ब्रह्मविष्णुशिवाज्ञया ।तुष्टाव साश्रुनेत्रश्च पुलकाञ्चितविग्रहः ॥
महेन्द्र उवाच ।देवि ! त्वां स्तोतुमिच्छामि साध्वीनां प्रवरांवराम् ।परात्पराञ्च परमां नहि स्तोतुं क्षमोऽधुना ॥
स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतत्परम् ।न क्षमः प्रकृतं वक्तुं गुणानां तव सुव्रते ! ॥
शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्ज्जिता ।न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥
त्वं मया पूजिता साध्वी जननी च यथादितिः ।दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥
त्वया मे रक्षिताः प्राणाः पुत्त्रदाराः सुरेश्वरि ! ।अहं करोमि त्वां पूज्यां प्रीतिश्च वर्द्धते मम ।नित्या यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके ! ।तथापि तव पूजाञ्च वर्द्धयामि त्त सर्व्वतः ॥
ये त्वामाषाढसंक्रान्त्यां पूजयिष्यन्ति भक्तितः ।पञ्चम्यां मनसाख्यायामीशां त्वां वा दिने दिने ॥
पुत्त्रपौत्त्रादयस्तेषां वर्द्धन्ते च धनानि च ।यशस्विनः कीर्त्तिमन्तो विद्यावन्तो गुणान्विताः ॥
ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ।लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ॥
त्वं स्वयं स्वर्गलक्ष्मीश्च वैकुण्ठे कमलालया ।नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ॥
तपसा तेजसा त्वाञ्च मनसा ससृजे पिता ।अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥
मनसा देवितुं शक्ता स्वात्मना सिद्धयोगिनी ।तेन त्वं मनसादेवी पूजिता वन्दिता भवे ॥
यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् ।तेन त्वां मनसां देवीं प्रवदन्ति पुराविदः ॥
सत्त्वरूपा च देवि ! त्वं शश्वत्सत्त्वनिषेवया ।यो हि यद् भावयेन्नित्यं स तत् प्राप्नोति तत्समः ॥
इन्द्रश्च मनसां ज्ञात्वा गृहीत्वा भगिनीञ्चताम् ।प्रजगाम स्वभवनं भूषावासःपरिच्छदाम् ॥
पुत्त्रेण सार्द्धं सा देवी चिरं तस्थौ पितुर्गृहे ।भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्व्वतः ॥
गोलोकात् सुरभी ब्रह्मन् ! तत्रागत्य सुपूजि-ताम् ।तां स्नापयित्वा क्षीरेण पूजयामास सादरम् ॥
ज्ञानञ्च कथयामास गोप्यं सर्व्वसुदुर्लभम् ।तया देव्या पूजिता सा स्वर्लोकञ्च पुनर्ययौ ॥
इदं स्तोत्रं पुण्यबीजं तां संपूज्य च यः पठेत् ।तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥
विषं भवेत् सुधातुल्यं सिद्धस्तोत्रो यदा भवेत् ।पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।सर्पशायी भवेत् सोऽपि निश्चितं सर्पवाहनः ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४६ अध्यायः ॥
धन्वन्तरिकृतमनसाध्यानपूजादि यथा, --धन्वन्तरिरुवाच ।“इहागच्छ जगद्गौरि ! गृहाण मम पूजनम् ।पूज्या त्वं त्रिषु लोकेषु परा कश्यपकन्यके ! ॥
त्वया जितं जगत् सर्व्वं देवि ! विष्णुस्वरूपया ।तेन तेऽस्त्रप्रयोगश्च न कृतो रणभूमिषु ॥
इत्युक्त्वा संयतो भूत्वा भक्तिनम्रात्मकन्धरः ।गृहीत्वा शुक्लकुसुमं ध्यानं कर्त्तुं समुद्यतः ॥
चारुचम्पकवर्णाभां सर्व्वाङ्गसुमनोहराम् ।ईषद्धास्यप्रसन्नास्यां शोभितां सूक्ष्मवाससा ॥
कवरीभारशोभाढ्यां रत्नाभरणभूषिताम् ।सर्व्वाभयप्रदां देवीं भक्तानुग्रहकातराम् ॥
सर्व्वविद्याप्रदां शान्तां सर्व्वविद्याविशारदाम् ॥
नागेन्द्रवाहिनीं देवीं भजे नागेश्वरीं पराम् ॥
ध्यात्वैवं कुसुमं दत्त्वा नानाद्रव्यसमन्वितम् ।दत्त्वा षोडशोपचारं पूजयामास तां प्रिये ! ॥
स्तोत्रञ्चकार भक्त्या च पुलकाञ्चितविग्रहः ।पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकन्धरः ॥
* ॥
धन्वन्तरिरुवाच ।नमः सिद्धिस्वरूपायै सिद्धिदायै नमो नमः ।नमः कश्यपकन्यायै वरदायै नमो नमः ॥
नमः शङ्करकन्यायै शङ्करायै नमो नमः ।नमस्ते नागवाहिन्यै नागेश्वर्य्यै नमो नमः ॥
नमो नागभगिन्यै च योगिन्यै च नमो नमः ।नमोऽस्तीकजनन्यै च जनन्यै जगतां नमः ॥
नमो जरत्कारुनाम्ने जरत्कारुस्त्रियै नमः ॥
नमश्चिरं तपस्विन्यै सुखदायै नमो नमः ।नमस्तपःस्वरूपायै फलदायै नमो नमः ॥
सुशीलायै च साध्व्यै च शान्तायै ते नमो नमः ।इत्येवमुक्त्वा भक्त्या च प्रणनाम प्रयत्नतः ॥
तुष्टा देवी वरं दत्त्वा सत्वरं स्वालयं ययौ ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे धन्वन्तरिदर्प-भङ्गमनसाविजयो नाम ५१ अध्यायः ॥
* ॥
(कामरूपस्थितनदीविशेषः । यथा, कालिका-पुराणे । ७४ । ३३ ।“ततस्तु मनसा नाम नदी पुण्यतमा परा ।सरित्सा मनसाख्या तु तृणबिन्द्ववतारिता ॥
वैशाखं सकलं मासं यस्यां स्नात्वा नरोत्तमः ।विष्णुलोकमवाप्यैव ततो मोक्षमवाप्नुयात् ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
