मनः (manaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiदिल
Wordnet
Sanskrit मतम्, अभिप्रायः, सम्मतिः, दृष्टिः, बुद्धिः, पक्षः, भावः, मनः, धी, मतिः, आकुतम्, आशयः, छन्दः
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
"सर्वेषां मतेन इदं कार्यं सम्यक् प्रचलति।"
चित्तम्, मनः
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
"कः जानाति अन्यस्य चित्तम्।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritमनः, [स्] (मन्यते बुध्यतेऽनेनेति । मन् +“सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इतिअसुन् ।) लिङ्गशरीरावयवविशेषः । यथा ।सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरी-राणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धि-मनसी कर्म्मन्द्रियपञ्चकं वायुपञ्चकञ्चेति । मनोनाम सङ्कल्पविकल्पात्मिका अन्तःकरणवृत्तिः ।मनस्तु कर्म्मोन्द्रियैः सहितं सत् मनोमयकोशोभवति । इति वेदान्तसारः ॥
ज्ञानेन्द्रियविशेषः ।तत्तु बुद्धीन्द्रियाणां षण्णां प्रधानं श्रीकृष्ण-विभूतिश्च । यथा, --“इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥
”इति भगवद्गीता ॥
तच्च गभस्थस्य सप्तमे मासि जायते । इतिसुखबोधः ॥
(“पञ्चमे मनः प्रतिबुद्धतरं भवति ।”इति सुश्रुते शारीरस्थाने तृतीयेऽध्याये ॥
* ॥
)तत्पर्य्यायः । चित्तम् २ चेतः ३ हृदयम् ४स्वान्तम् ५ हृत् ६ मानसम् ७ । इत्यमरः ।१ । ४ । ३१ ॥
अनङ्गकम् ८ अङ्गम् ९ । इतिशब्दरत्नावली ॥
अपि च ।“मनो महान् मतिर्ब्रह्मा पूर्व्वुद्धिः ख्याति-रीश्वरः ।प्रज्ञा संवित् चितिश्चव स्मृतिश्च परिपठ्यते ।पर्य्यायवाचकाः शब्दा मनसः परिकीर्त्तिताः ॥
”इति महाभारते मोक्षधर्म्मः ॥
* ॥
न्यायमते अस्य गुणाः । परत्वम् । अपरत्वम् ।संख्या । परिमितिः । पृथक्त्वम् । संयोगः ।विभागः । वेगश्च । मनोग्राह्याणि यथा ।सुखम् । दुःखम् । इच्छा । द्वेषः । मतिः ।यत्नश्च । इदं परमाणुस्वरूपम् । शिरोमणि-मते वायवीयपरमाणुरूपम् । यथा, --“परापरत्वं संख्याद्याः पञ्च वेगश्च मानसे ।मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥
अयौगपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते ॥
”इति भाषापरिच्छेदः ॥
जन्यज्ञानसामान्यं प्रति त्वङ्मनोयोगः कार-णम् । यथा, तत्रैव ।“त्वचो योगो मनसा ज्ञानकारणम् ॥
”तस्य नवगुणा यथा, --“धैर्य्योपपत्तिव्यक्तिश्च विसर्गः कल्पना क्षमा ।सदसच्चाशुता चैव मनसो नव वै गुणाः ॥
”इति मोक्षधर्म्मः ॥
अस्य व्याख्या । धैर्य्यम् १ उपपत्तिः ऊहापोह-कौशलम् २ व्यक्तिः स्मरणम् ३ विसर्गः विप-रीतसर्गो भ्रान्तिः ४ कल्पना मनोरथवृत्तिः ५क्षमा ६ सत् वैराग्यादि ७ असत् रागद्वेषादि ८आशुता अस्थिरत्वम् ९ । इति तट्टीका ॥
* ॥
अस्य चातुर्विध्यं यथा, --“मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् ।संशयो निश्चयो गर्व्वः स्मरणं विषया अमी ॥
”इति वेदान्तः ॥
तस्य अध्यात्मत्वादि यथा, --“अध्यात्मं मन इत्याहुः पञ्चभूतात्मधारकम् ।अधिभूतञ्च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम् ॥
”इति महाभारते आश्वमेधिकपर्व्व ॥
तस्य स्वरूपं यथा, --“अनिरूप्यमदृश्यञ्च ज्ञानभेदं मनः स्मृतम् ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥
तस्य प्राशस्त्याप्राशस्त्यानुमापकानि यथा, --“जनानां हृदयं सद्यः सुव्यक्तं वचनेन वै ।शिष्ये कलत्रे कन्यायां दौहित्रे बान्धवेऽपि च ॥
पुत्त्रे पौत्त्रे च वचसि प्रतापे यशसि श्रियाम् ।बुद्धौ वारिणि विद्यायां ज्ञायते हृदयं नृणाम् ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १ अध्यायः ॥
तस्य बन्धमोक्षहेतुत्वं यथा, --“मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।बन्धस्य विषयासङ्गि मुक्तेर्न्निर्व्विषयं तथा ॥
”इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥
(“अतीन्द्रियं पुनर्मनः सत्त्वसंज्ञकं चेत्याहुरेकेतदर्थात्मसम्पदायत्तचेष्टम् । चेष्टाप्रत्ययभूत-मिन्द्रियाणाम् । स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचर-णाच्चानेकमेकस्मिन् पुरुषे सत्त्वरजस्तमः सत्त्व-गुणयोगाच्च न चानेकत्वं नानेकं ह्येककालमने-केषु प्रवर्त्तते ॥
तस्मान्नैककाला सर्व्वेन्द्रिय-प्रवृत्तिः । यद्गुणञ्चाभीक्ष्णं पुरुषमनुवर्त्तते सत्त्वंतत्सत्त्वमेवोपदिशन्ति ऋषयो बाहुल्यानुशयात् ॥
मनःपुरःसराणीन्द्रियाण्यर्थग्रहणसमर्थानिभवन्ति ॥
”“मनसस्तु चिन्त्यमर्थः । तत्र मनसो बुद्धेश्चत एव समानातिहीनमिथ्यायोगाः प्रकृति-विकृतिहेतवो भवन्ति ॥
” इति चरके सूत्र-स्थाने अष्टमेऽध्याये ॥
“लक्षणं मनसो ज्ञानस्याभावो भाव एव वा ।सति ह्यात्मेन्द्रियार्थानां सन्निकर्षेण वर्त्तते ॥
वैधृत्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्त्तते ।अणुत्वमथचैकत्वं द्वौ गुणौ मनसः स्मृतौ ॥
चिन्त्यविचार्य्यमूह्यञ्च ध्येयं सङ्कल्प्यमेव च ।यत्किञ्चिन्मनसो ज्ञेयं तत् सर्व्वं ह्यर्थसंज्ञकम् ॥
इन्द्रियाभिग्रहः कर्म्म मनसस्तस्य निग्रहः ।ऊहो विचारश्च ततः परं बुद्धिः प्रवर्त्तते ॥
इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते ।कल्प्यते मनसाप्यूर्द्धं गुणतो दोषतो यथा ॥
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका ।व्यवस्यते तथा वक्तुं कर्त्तुं वा बुद्धिपूर्व्वकम् ॥
या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्त्तते ।याति सा तेन निर्द्देशं मनसा च मनोभवा ॥
बुद्धीन्द्रियमनोर्थानां विद्याद् योगधरं परम् ॥
”इति चरके शारीरस्थाने प्रथमेऽध्याये ॥
सत्त्वगुणयुक्तस्य मनसो गुणा यथा, --“आस्तिक्यं प्रविभज्य भोजनमनुत्तापश्च तथ्यंवचोमेधाबुद्धिधृतिक्षमाश्च करुणा ज्ञानञ्च निर्द्द-म्भता ।कर्म्मानिन्दितमस्पृहञ्च विनयो धर्म्मः सदैवा-दरा-देते सत्त्वगुणान्वितस्य मनसो गीता गुणाज्ञानिभिः ॥
”अस्ति धर्म्ममोक्षपरलोकादिकमिति बुद्ध्याचरतीत्यास्तिकस्तस्य भाव आस्तिक्यं अनु-त्तापः अक्रोधः धृतिः भूतप्रेतस्मरक्रोधलोभा-द्यावेशराहित्यं ज्ञानमात्मज्ञानम् । निर्द्दम्भताकपटाभावः कर्म्म अनिन्दितं अस्पृहं निष्कामञ्च ॥
रजोगुणयुक्तस्य मनसो गुणा यथा, --“क्रोधस्ताडनशीलता च बहुलं दुःखं सुखे-च्छाधिकादम्भः कामुकताप्यलीकवचनं चाधीरता-हङ्कृतिः ।ऐश्वर्य्यादभिमानितातिशयितानन्दोऽधिकश्चा-टनंप्रख्याता हि रजोगुणेन सहितस्यैते गुणा-श्चेतसः ॥
”अलीकवचनं मिथ्याकथनं अटनं पृथ्वीपरि-भ्रमणम् ॥
अथ तमोगुणयुक्तस्य मनसो गुणायथा, --“नास्तिक्यं सुविषन्नतातिशयितालस्यञ्च दुष्टामतिःप्रातिर्निन्दितकर्म्मशर्म्मणि सदा निद्रालुताह-र्न्निशम् ।अज्ञानं किल सर्व्वतोऽपि सततं क्रोधान्धतामूढताप्रख्याता हि तमोगुणेन सहितस्यैते गुणा-श्चेतसः ॥
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
* ॥
सर्व्वे सान्ता अदन्ताश्चेति प्रमाणात् अका-रान्त मनशब्दोऽप्यस्ति । यथा, उत्तरगीता-याम् । १३ । अध्याये ।“मनस्थं मनमध्यस्थं मध्यस्थं मनवर्ज्जितम् ।मनसा मनमालोक्य स्वयं सिद्ध्यन्ति योगिनः ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
