मन (mana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Englishमन r. 4th cl. (मन्यते) (उ, ) मनु r. 8th cl. (मनुते)
1 To know, to understand.
2 To regard, to mind.
3 To think, to conceive. r. 10th cl. (मानयते)
1 To be dull or insensible.
2 To be proud.
3 To oppose, to stop. r. 1st and 10th cls. (मनति मानयति) To honour, to
respect, to worship.
With अनु prefixed, To assent to, to agree.
With अभि, To desire.
With अव, To disrespect.
With सम, To concur, to agree.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishHindi
Hindiध्यान रहे
Shabdartha Kaustubha
Kannadaमन - ज्ञाने (दिवा० आत्म० सक० अनि०) मन्यते । मेने । मन्ता । मंस्यते । अमन्यत । मन्येत ।
कन्नडार्थः - > ತಿಳಿ /ಊಹಿಸು
प्रयोगाः - > "मन्येऽमुना कर्णलतामयेन पाशद्वयेन च्छिदुरेतरेण । एकाकिपाशं वरुणं विजिग्येऽनङ्गीकृतायासतती रतीशः ॥"
उल्लेखाः - > नैष० ७-६४
मन - ज्ञाने (दिवा० आत्म० सक० अनि०) मन्यते । मेने । मन्ता । मंस्यते । अमन्यत । मन्येत ।
कन्नडार्थः - > ಅಭಿಪ್ರಾಯ ಪಡು /ಭಾವಿಸು
प्रयोगाः - > "मन्यसेऽरिवधः श्रेयान् प्रीतये माकिनामिति"
उल्लेखाः - > माघ० २-१०६
मन - ज्ञाने (दिवा० आत्म० सक० अनि०) मन्यते । मेने । मन्ता । मंस्यते । अमन्यत । मन्येत ।
कन्नडार्थः - > ತಿಳಿದುಕೋ /ನಂಬು /ಎಣಿಸು
प्रयोगाः - > "अमंस्त चानेन परार्घ्यजन्मना स्थितेरभेत्ता स्थितिमन्तमव्ययम्"
उल्लेखाः - > रघु० ३-२७
मन - ज्ञाने (दिवा० आत्म० सक० अनि०) मन्यते । मेने । मन्ता । मंस्यते । अमन्यत । मन्येत ।
कन्नडार्थः - > ಕಲ್ಪಿಸು /ಚಿಂತಿಸು /ಭಾವಿಸು
प्रयोगाः - > "अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे"
उल्लेखाः - > कुव०
Edgerton Buddhist Hybrid
Englishधातुपाठः (Krishnacharya)
Sanskrit मन्
मन
ज्ञाने
दिवादिः
सकर्मकः
अनिट्
आत्मनेपदी
मन्यते
अनुदात्तोपदेशः
धातुप्रदीपः
Sanskritमनँ मन ज्ञाने
- मन्यते मेने मन्ता मत्वा मतमस्य मतिः दर्शनीयमानी भार्य्यायाः शूरम्मन्यः शूरमानी मनः 61
मनँ मन स्तम्भे
- मानयते अन्यत्र मन्यते मनुते 170
शब्दकल्पद्रुमः
Sanskritमन, अर्च्चे । गर्व्वे । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-सक०-गर्व्वे अक०-सेट् ।) मनति । इतिदुर्गादासः ॥
मन, क ङ गर्व्वके । इति कविकल्पद्रुमः ॥
(चुरा०-आत्म०-अक०-स्तम्भने सक०-सेट् ।) कङ, मानयते । गर्व्वकोऽहङ्कारः । मनस्तम्भने ।इति प्राञ्चः । मानयते शत्रुं बली स्तभ्नाती-त्यर्थः । इति रमानाथः । इति दुर्गादासः ॥
मन, त् क धृतौ । इति कविकल्पद्रुमः ॥
(अदन्तचुरा०-पर०-सक०-सेट् ।) दन्त्यनोपधः । मन-यति । इति दुर्गादासः ॥
मन, य औ ङ बोधे । इति कविकल्पद्रुमः ॥
(दिवां-आत्म०-सक०-अनिट् ।) य ङ, मन्यते ।औ, अमंस्त । इति दुर्गादासः ॥
मनः, [स्] (मन्यते बुध्यतेऽनेनेति । मन् +“सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इतिअसुन् ।) लिङ्गशरीरावयवविशेषः । यथा ।सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरी-राणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धि-मनसी कर्म्मन्द्रियपञ्चकं वायुपञ्चकञ्चेति । मनोनाम सङ्कल्पविकल्पात्मिका अन्तःकरणवृत्तिः ।मनस्तु कर्म्मोन्द्रियैः सहितं सत् मनोमयकोशोभवति । इति वेदान्तसारः ॥
ज्ञानेन्द्रियविशेषः ।तत्तु बुद्धीन्द्रियाणां षण्णां प्रधानं श्रीकृष्ण-विभूतिश्च । यथा, --“इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥
”इति भगवद्गीता ॥
तच्च गभस्थस्य सप्तमे मासि जायते । इतिसुखबोधः ॥
(“पञ्चमे मनः प्रतिबुद्धतरं भवति ।”इति सुश्रुते शारीरस्थाने तृतीयेऽध्याये ॥
* ॥
)तत्पर्य्यायः । चित्तम् २ चेतः ३ हृदयम् ४स्वान्तम् ५ हृत् ६ मानसम् ७ । इत्यमरः ।१ । ४ । ३१ ॥
अनङ्गकम् ८ अङ्गम् ९ । इतिशब्दरत्नावली ॥
अपि च ।“मनो महान् मतिर्ब्रह्मा पूर्व्वुद्धिः ख्याति-रीश्वरः ।प्रज्ञा संवित् चितिश्चव स्मृतिश्च परिपठ्यते ।पर्य्यायवाचकाः शब्दा मनसः परिकीर्त्तिताः ॥
”इति महाभारते मोक्षधर्म्मः ॥
* ॥
न्यायमते अस्य गुणाः । परत्वम् । अपरत्वम् ।संख्या । परिमितिः । पृथक्त्वम् । संयोगः ।विभागः । वेगश्च । मनोग्राह्याणि यथा ।सुखम् । दुःखम् । इच्छा । द्वेषः । मतिः ।यत्नश्च । इदं परमाणुस्वरूपम् । शिरोमणि-मते वायवीयपरमाणुरूपम् । यथा, --“परापरत्वं संख्याद्याः पञ्च वेगश्च मानसे ।मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥
अयौगपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते ॥
”इति भाषापरिच्छेदः ॥
जन्यज्ञानसामान्यं प्रति त्वङ्मनोयोगः कार-णम् । यथा, तत्रैव ।“त्वचो योगो मनसा ज्ञानकारणम् ॥
”तस्य नवगुणा यथा, --“धैर्य्योपपत्तिव्यक्तिश्च विसर्गः कल्पना क्षमा ।सदसच्चाशुता चैव मनसो नव वै गुणाः ॥
”इति मोक्षधर्म्मः ॥
अस्य व्याख्या । धैर्य्यम् १ उपपत्तिः ऊहापोह-कौशलम् २ व्यक्तिः स्मरणम् ३ विसर्गः विप-रीतसर्गो भ्रान्तिः ४ कल्पना मनोरथवृत्तिः ५क्षमा ६ सत् वैराग्यादि ७ असत् रागद्वेषादि ८आशुता अस्थिरत्वम् ९ । इति तट्टीका ॥
* ॥
अस्य चातुर्विध्यं यथा, --“मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् ।संशयो निश्चयो गर्व्वः स्मरणं विषया अमी ॥
”इति वेदान्तः ॥
तस्य अध्यात्मत्वादि यथा, --“अध्यात्मं मन इत्याहुः पञ्चभूतात्मधारकम् ।अधिभूतञ्च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम् ॥
”इति महाभारते आश्वमेधिकपर्व्व ॥
तस्य स्वरूपं यथा, --“अनिरूप्यमदृश्यञ्च ज्ञानभेदं मनः स्मृतम् ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥
तस्य प्राशस्त्याप्राशस्त्यानुमापकानि यथा, --“जनानां हृदयं सद्यः सुव्यक्तं वचनेन वै ।शिष्ये कलत्रे कन्यायां दौहित्रे बान्धवेऽपि च ॥
पुत्त्रे पौत्त्रे च वचसि प्रतापे यशसि श्रियाम् ।बुद्धौ वारिणि विद्यायां ज्ञायते हृदयं नृणाम् ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १ अध्यायः ॥
तस्य बन्धमोक्षहेतुत्वं यथा, --“मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।बन्धस्य विषयासङ्गि मुक्तेर्न्निर्व्विषयं तथा ॥
”इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥
(“अतीन्द्रियं पुनर्मनः सत्त्वसंज्ञकं चेत्याहुरेकेतदर्थात्मसम्पदायत्तचेष्टम् । चेष्टाप्रत्ययभूत-मिन्द्रियाणाम् । स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचर-णाच्चानेकमेकस्मिन् पुरुषे सत्त्वरजस्तमः सत्त्व-गुणयोगाच्च न चानेकत्वं नानेकं ह्येककालमने-केषु प्रवर्त्तते ॥
तस्मान्नैककाला सर्व्वेन्द्रिय-प्रवृत्तिः । यद्गुणञ्चाभीक्ष्णं पुरुषमनुवर्त्तते सत्त्वंतत्सत्त्वमेवोपदिशन्ति ऋषयो बाहुल्यानुशयात् ॥
मनःपुरःसराणीन्द्रियाण्यर्थग्रहणसमर्थानिभवन्ति ॥
”“मनसस्तु चिन्त्यमर्थः । तत्र मनसो बुद्धेश्चत एव समानातिहीनमिथ्यायोगाः प्रकृति-विकृतिहेतवो भवन्ति ॥
” इति चरके सूत्र-स्थाने अष्टमेऽध्याये ॥
“लक्षणं मनसो ज्ञानस्याभावो भाव एव वा ।सति ह्यात्मेन्द्रियार्थानां सन्निकर्षेण वर्त्तते ॥
वैधृत्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्त्तते ।अणुत्वमथचैकत्वं द्वौ गुणौ मनसः स्मृतौ ॥
चिन्त्यविचार्य्यमूह्यञ्च ध्येयं सङ्कल्प्यमेव च ।यत्किञ्चिन्मनसो ज्ञेयं तत् सर्व्वं ह्यर्थसंज्ञकम् ॥
इन्द्रियाभिग्रहः कर्म्म मनसस्तस्य निग्रहः ।ऊहो विचारश्च ततः परं बुद्धिः प्रवर्त्तते ॥
इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते ।कल्प्यते मनसाप्यूर्द्धं गुणतो दोषतो यथा ॥
जायते विषये तत्र या बुद्धिर्निश्चयात्मिका ।व्यवस्यते तथा वक्तुं कर्त्तुं वा बुद्धिपूर्व्वकम् ॥
या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्त्तते ।याति सा तेन निर्द्देशं मनसा च मनोभवा ॥
बुद्धीन्द्रियमनोर्थानां विद्याद् योगधरं परम् ॥
”इति चरके शारीरस्थाने प्रथमेऽध्याये ॥
सत्त्वगुणयुक्तस्य मनसो गुणा यथा, --“आस्तिक्यं प्रविभज्य भोजनमनुत्तापश्च तथ्यंवचोमेधाबुद्धिधृतिक्षमाश्च करुणा ज्ञानञ्च निर्द्द-म्भता ।कर्म्मानिन्दितमस्पृहञ्च विनयो धर्म्मः सदैवा-दरा-देते सत्त्वगुणान्वितस्य मनसो गीता गुणाज्ञानिभिः ॥
”अस्ति धर्म्ममोक्षपरलोकादिकमिति बुद्ध्याचरतीत्यास्तिकस्तस्य भाव आस्तिक्यं अनु-त्तापः अक्रोधः धृतिः भूतप्रेतस्मरक्रोधलोभा-द्यावेशराहित्यं ज्ञानमात्मज्ञानम् । निर्द्दम्भताकपटाभावः कर्म्म अनिन्दितं अस्पृहं निष्कामञ्च ॥
रजोगुणयुक्तस्य मनसो गुणा यथा, --“क्रोधस्ताडनशीलता च बहुलं दुःखं सुखे-च्छाधिकादम्भः कामुकताप्यलीकवचनं चाधीरता-हङ्कृतिः ।ऐश्वर्य्यादभिमानितातिशयितानन्दोऽधिकश्चा-टनंप्रख्याता हि रजोगुणेन सहितस्यैते गुणा-श्चेतसः ॥
”अलीकवचनं मिथ्याकथनं अटनं पृथ्वीपरि-भ्रमणम् ॥
अथ तमोगुणयुक्तस्य मनसो गुणायथा, --“नास्तिक्यं सुविषन्नतातिशयितालस्यञ्च दुष्टामतिःप्रातिर्निन्दितकर्म्मशर्म्मणि सदा निद्रालुताह-र्न्निशम् ।अज्ञानं किल सर्व्वतोऽपि सततं क्रोधान्धतामूढताप्रख्याता हि तमोगुणेन सहितस्यैते गुणा-श्चेतसः ॥
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
* ॥
सर्व्वे सान्ता अदन्ताश्चेति प्रमाणात् अका-रान्त मनशब्दोऽप्यस्ति । यथा, उत्तरगीता-याम् । १३ । अध्याये ।“मनस्थं मनमध्यस्थं मध्यस्थं मनवर्ज्जितम् ।मनसा मनमालोक्य स्वयं सिद्ध्यन्ति योगिनः ॥
”)
वाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritमनँ मन ज्ञाने
- मन्यकर्मणि (2317) इति चतुर्थी-न त्वा तृणाय मन्ये एहि मन्ये प्रहासे लृट् (8146), प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च (14106) एहि मन्ये रथेन यास्यसि, न यास्यसि यातस्ते पिता मन्यतेः (द्र0 3282 काशिका) णिनिः-शोभनमानी मनः पुंवच्चात्र (द्र0 6336)-पट्वीं मन्यते, पटुमानी आत्ममाने खश्च (3283)-शूरमानी, शूरंमन्यः संज्ञायां समज (3399) इति क्यप्-मन्या कृकाटिका मतिबुद्धि (32188) इति वर्तमाने क्तः-राज्ञां मतः मतिः शॄस्वृस्निहि (उ0 110) इति मनुः यजमनि कमिमनि (उ0 173) इति मन्तुः (उ0 320) इति युच्-मन्युः फलिपाटि (उ0 118) इति मधु मनेर्दीर्घश्च (उ0 364) इति सः-मांसम् मनेरुच्च (उ0 4123) मुनिः असुन् (द0 उ0 949)-मनस् वनिमनिभ्यां चिद् वा (द0 उ0 899)-मठरो मूढः गुधृविपचिवचि (द0 उ0 889) इति त्रन्-मन्त्रः तनादौ मनु अवबोधने (89)-मनुते चुरादौ मन स्तम्भे (10155)-मानयते, मानः 64
मनँ मन स्तम्भे
- (अर्थविवरणम्) स्तम्भो गर्वः
मानयते वृषलः पक्षे मनतीति चन्द्रः दिवादौ (466) मन्यते, तनादौ (89) मनुते 176
धातुवृत्तिः
Sanskritमनँ मन (अर्थः) ज्ञाने
न त्वं तृणाय मन्ये, न त्वां तृणं मन्ये, "मन्यकर्मण्यनादरे विभाषा प्राणिषु'' इति कर्मणि वा चतुर्थी इह चानुवाद्ये कर्मणि व्यवस्थितविभाषाविज्ञानात् चतुर्थी न भवति अप्राणिष्वित्यपास्य [अनावादिषु]इति वार्तिकं पठितम् तेन न त्वां नावं मन्ये यावत्तीर्णं न नाव्यम्, न त्वामन्नं मन्यं यावन्न भुक्तं श्राद्धम् इत्यत्राप्राणित्वेऽपि द्वितीयैव भवति तथा प्राणित्वेऽपि न त्वां श्वानं मन्ये, न त्वां शुने मन्ये इत्यत्र उभयं भवति ( मेनेमन्ता मंस्यते मन्यताम् अमन्यत मन्येत, मंसीष्ट अमंस्त, अमंसाताम् ) एहिमन्ये ओदनं भोक्ष्यसे इति नहि ( 1 ) भोक्ष्यसे भुक्तस्सोऽतिथिभिः, अत्र "प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च'' इति प्रहासे परिहासे गम्यमाने मन्योपपदे धातावुत्तमविषये मध्यमः, मन्यतेश्च मध्यमविषये उत्तमः "एकवच्च'' इति वचनात् द्विबह्वोरप्येकवचनमेव दर्शनीयमानीभार्यायाः, "मन'' इति कर्मण्युपपदे मन्यतेर्णिनिः भार्याया इति कर्मणि षष्ठी तत्सापेक्षस्यापि दर्शनीयशब्दस्य गमकत्वात्समासः " ( सूत्रम्) क्यङ्मानिनोश्च (इति सूत्रम्) '' इति क्यङन्ते मानिन्शब्दे चोत्तरपदे पुंवद्भावः पण्डितमात्मानं मन्यते देवदत्तः (पण्डितमानी, पण्डितम्मन्यः) " ( सूत्रम्) आत्ममाने खश्च (इति सूत्रम्) '' इति कर्मण्युपपदे आत्ममाने वर्तमानान्यतोर्णिनिः खश्च आत्मनो मानआत्ममानः, कर्मणि षष्ठ्यास्समासः आत्मा च स्वः, स च संन्निधानान्मन्तैव, तस्य चात्मस्वरूपेण कर्तृत्वम् पण्डितत्वादिस्वरूपेण कर्मत्वमिति न विरोधः खशश्शित्त्वात् श्यन्, खित्त्वान्मुम् (मन्या, ) पश्चादूग्रीवाशिरा "संज्ञायां समजनिषद'' इत्यादिना क्यप् अन्यत्रक्तिनि ( मतिः, ) "मन्त्रे वृष'' इति क्तिनो वचनमुदात्तमात्रार्थेःन तु भाषायां तन्निवृत्त्यर्थम् ( वैमत्यं, विमतिमा साम्मत्यं, सम्मतिमा, ) दृढादिषु "वेर्यातलाभमतिमनशारदानां समो मतिमनसोः''इति पाठात् ष्यञिमनिचौ "इगन्ताच्च लघुपूर्वात्'' इत्यणपि भवति, ( वैमतं, साम्मतम् )इति त्वतलौ तु सर्वत्रैवेष्येते इतृयुदाहार्यौ ( राज्ञां मतः, ) "मतिबुद्धि'' इति वर्तमाने क्तः "क्तस्य च वर्तमाने'' इति कर्तरि षष्ठी मतस्य करणं ( मत्यम्, ) तच्च भावः, साधनं वा "मतजनहलात्'' इति यत् ( मनः, ) असुन् मन एव ( मानसम्, ) प्रज्ञादित्वात् स्वार्थेऽण् असुमनास्सुमना भवति ( सुमनायते ) इत्यादौ भृशादित्वात् क्यङ्सलोपौ तत्र हि सूद्दुरभिभ्यः परो मनशब्दः पठ्यते ( वैमनस्यं विमनसिमा साम्मनस्यं सम्मनसिमा, ) "वेर्यातलाभमतिमनशारदानां समो मतिमनसोः'' इति ष्यञिमनिचौ त्रतलौ चोदाहार्यौ ( विमनीकरोति, ) "अरुर्मनश्चक्षुः'' इत्यादिना च्विः सलोपश्च मनसादेवो नाम कश्चित्, "मनस्संज्ञायाम्'' इत्युत्तरपदे तृतीयाया अलुक् "दिवः कर्म च'' इति करणत्वात्तृतीया संज्ञासमावेशेन कर्मत्वमपीति दीव्यतेः कर्मण्यण्भवतीति दीव्यतावुक्तम् (मनसाज्ञायी, ) "अज्ञायिनि च" इत्यलुक् लुकि तु मन आज्ञायीति स्यात् (वाङ्मनसम्) "अचतुर'' इत्यादिना द्वन्द्वेऽजन्तो निपातितः ( मधुः, ) "फलिपाटिनमि'' इत्यादिना उप्रत्ययो धकारश्चान्त्यादेशः ( मधुरः ) "उषसुषि'' इत्यादिना मत्वर्थे रः इह मधुशब्दो रसनाग्राह्यो माधुर्याख्यरसे वर्तते तेन मधुरं मध्वित्यपि भवति इह च न भवति मध्वस्मिन् घटे ऽस्ति मधुरो घट इति इदं च "तदस्यास्त्यस्मिन्'' इति विवक्षानियमार्थस्य इतिशब्दस्यानुवर्तनाल्लभ्यते ( मनुः, ) "शृस्वृष्णिहि'' इत्यादिना उप्रत्ययः मनोस्स्त्री ( मनायी, मनावी, मनुः ) "मनोरौ वा'' इति ङीप्यैकार औकारो वान्तादेशः ( मनुष्यो, मानषुः, ) "मनोर्जातावञ्यतौ षुक्च'' इति अञ्यतौ षुक्चागमः जाताविति वचनाद् इह अपत्यग्रहणं व्युत्पत्तिमात्रार्थम् तेन मानुषाइत्यत्र "यञञोश्च'' इत्यपत्यस्याञो विधीयमानो बहुषु लुङ् न भवति ( मानुषी ) गौरादित्वान्डीष् "हलस्तद्धितस्य'' इति ईति परतस्तद्धितयकारस्य लोपः ( मानुष्यकम्, ) "गोत्रोक्ष'' इत्यादिना समूहे वुञ् अपत्ये त्वणि (मानवा) इति मनुष्या अप्यपत्यत्वारोपेण मानवा इत्युच्यन्ते यदा मानवस्य कुत्सादि विवक्ष्यते तदा
अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः नकारस्य च मूर्धंन्यस्तेन सिद्ध्यति माणवः
इति नकारस्य णत्वम् अण्तु सामान्येनैव सिद्धः माणव एव ( माणवकः, ) संज्ञायां कन् ( माणव्यम्, ) "ब्राह्मणमाणव'' इति समूहे यत् ( माणवीनम्, ) "माणवचरक'' इति हितार्थे खञ् ( माणव्यम्, ) ब्राह्मणादित्वात् ष्यञ् ( मुनिः, ) "मनेरुच्चोपधायाः'' इतीन्प्रत्ययः, उपधायाश्चोकारः ( मौनम्, ) "इगन्ताच्च'' इति भावेऽण् मनु अवबोधन इति तनादौ 68
मनँ मन (अर्थः) स्तम्भे
( मानयते ) मन्यते ज्ञाने अवबोघने मनुते 175
कृदन्तरूपमाला
Sanskrit1 {@“मन ज्ञाने”@} 2 ‘स्तम्भे मानयते, ज्ञाने मन्यते मनुते पदम्।।
पूजायाम् मानयेन्मानेत्, यौ मीमांसेत तङ्सनोः।’ 3 इति देवः।
मानकः-निका, मानकः-निका, 4 मिमंसकः-सिका, 5 मम्मनकः-मंमनकः-निका
मन्ता-त्री, मानयिता-त्री, मिमंसिता-त्री, मम्मनिता-मंमनिता-त्री
-- मानयन्-न्ती, मानयिष्यन्-न्ती-ती
-- -- 6 मन्यमानः, मानयमानः, मिमंसमानः, मंमन्यमानः
मंस्यमानः, मानयिष्यमाणः, मिमंसिष्यमाणः, मंमनिष्यमाणः
7 सुमत्-सुमतौ-सुमतः, हरिमत्
-- -- मतम्- 8 राज्ञां मतः-मतवान्, मानितः, मिमंसितः, मंमनितः-तवान्
मनः, 9 दर्शनीयमानी 10, 11 पण्डितम्मन्यः 12 -पण्डितमानी, 13 14 शूरमानी, 15 कालिम्मन्या, 16 दिवामन्या-दोषामन्यम्, 17 गाम्मन्यः, 18 स्त्रियम्मन्यः-स्त्रींम्मन्यः, 19 नरम्मन्यः, 20 भुवम्मन्यः, 21 इत्येव न्याय्यम् इति ‘इच एकाचः--’ 22 इति सूत्रभाष्यवाक्यम् ‘तस्मात् श्रिमन्य- मित्येव भवितव्यम्।’ इत्याकारकमवलम्ब्य सिद्धान्तकौमुद्यामुक्तम्।
प्रकृतसूत्रे उद्द्योते नागेशभट्टैस्तु उपात्तभाष्यवाक्यस्य एकदेश्युक्तित्वं प्रसाध्य, श्रियम्मन्यम् इत्येव प्रामाणिकं रूपमिति स्थापितम्।
भट्टिकाव्येऽपि 23 श्रियम्मन्यपदस्य प्रयुक्तत्वात् नागेशपक्ष एव ज्यायानिति भाति।]] श्रिमन्यं 24, 25 उपकुम्भम्मन्यः, 26 श्रियम्मन्या, श्रीमन्मन्यः, रजनिम्मन्यः, 27 साधुम्मन्यः, 28 पटुमानिनी, 29 मेनका, मानः, मिमंसुः, मम्मनः
मन्तव्यम्, मानयितव्यम्, मिमंसितव्यम्, मम्मनितव्यम्
मननीयम्, माननीयम्, मिमंसनीयम्, मम्मननीयम्
मान्यम्, मान्यम्, मिमंस्यम्, मम्मन्यम्
ईषन्मनः-दुर्मनः-सुमनः
-- -- मन्यमानः, मान्यमानः, मिमंस्यमानः, मम्मन्यमानः
मानः, मानः, मिमंसः, मम्मनः
मन्तुम्, मानयितुम्, मिमंसितुम्, मम्मनितुम्
30 मन्या, 31 सुमत्, मतिः, 32 मन्तिः, अनुमतिः, मानना, मिमंसा, मम्मना
मननम्, माननम्, मिमंसनम्, मम्मननम्
मत्वा
मानयित्वा, मिमंसित्वा, मम्मनित्वा
अनुमत्य, अनुमान्य, अनुमिमंस्य, अनुमम्मन्य
33 मानम् २, मत्वा २, मानम् २, मानयित्वा २, मिमंसम् २, मिमंसित्वा २, मम्मनम् २
मम्मनित्वा २
34 मुनिः, 35 मनुः-मनुष्यः-मनुषी, 36 मन्तुः, 37 मन्युः, 38 मन्त्रः, 39 मठरः, 40 मांसम्, 41 मधु, 42 मनः।
01 (१२१७)
02 (४-दिवादिः-११७६। सक। अनि। आत्म।)
03 (श्लो। १२५-१२६)
04 [[१। सन्नन्तात् ण्वुलि, द्विर्वचनादिकेषु कृतेषु ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनेन धातुनकारस्यानुस्वारे रूपमेवम्। एवमेव सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
05 [[२। यङन्ते सर्वत्र द्विर्वंचनादिकेषु कृतेषु, अभ्यासे, ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः, तस्य च पदान्तवद्भाववचनात् परसवर्णविकल्पः। तेन रूपद्वयम्।]]
06 [[३। शतरि, दिवादित्वात् शपोऽपवादः श्यन्प्रत्ययोऽत्रेति ज्ञेयम्।]]
07 [[४। क्विपि, ‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति’ (६-४-३७) इत्यनुनासिकलोपः। ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्।]]
08 [[५। अनुदात्तोपदेशत्वादस्य धातोर्निष्ठायामनुनासिकलोपे, रूपाण्यूह्यानि। राज्ञां मतः इत्यत्र ‘मतिबुद्धिपूजार्थेभ्यः--’ (३-२-१८८) इति बुद्ध्यर्थकत्वादस्य वर्तमाने कर्तरि क्तः। ‘क्तस्य च वर्तमाने’ (२-३-६७) इति कर्तरि षष्ठी।]]
09 [[६। दर्शनीयां मन्यते इत्यर्थे कर्मण्युपपदे ‘मनः’ (३-२-८२) इत्यनेनात्र णिनिः। ‘भार्यायाः’ इत्यत्र कर्मणि षष्ठी। भार्याशब्दसापेक्षस्यापि दर्शनीयशब्दस्य गमकत्वात् समासः। ‘क्यङ्मानिनोश्च’ (६-३-३६) इत्यनेन मानिन्शब्द उत्तरपदे दर्शनीयाशब्दस्य पुंवद्भावः।]]
10 [भार्यायाः]
11 [[७। पण्डितमात्मानं मन्यते इत्यर्थे, ‘आत्ममाने खश् च’ (३-२-८३) इति पाक्षिकः खश्। पक्षे णिनिः। खशः शित्त्वात् विकरणप्रत्ययः श्यन्प्रवृत्तः। ‘अरुर्द्विषद- जन्तस्य--’ (६-३-६७) इति पूर्वपदस्य मुम्।]]
12 [[आ। ‘अखण्ड्यमानं परिखण्ड्य शक्रं त्वं पण्डितंमन्यमुदीर्णदण्डः।’ भ। का। १२। १७।]]
13 [पृष्ठम्०९९९+ ३५]
14 [[आ। ‘राममुच्चैरुपालब्ध शूरमानी कपिप्रभुः। व्रणवेदनया ग्लायन् साधुम्मन्यमसाधुवत्।।’ भ। का। ६। १२८।]]
15 [[१। कालीमात्मानं मन्यते इत्यर्थे खश्प्रत्यये, श्यनि च कृते, ‘स्त्रियाः पुंवत्--’ (६-३-३४) इति प्राप्तं पुंवद्भावं परत्वाद् बाधित्वा, ‘खित्यनव्ययस्य’ (६-३-६६) इति ह्रस्वः। तेन कालिम्मन्या इति सिद्ध्यति।]]
16 [[२। ‘दिवा’ इत्यधिकरणशक्तिप्रधानमव्ययम्। एवम्भूतस्याप्यस्य वृत्तिविषये कर्मत्वं बोध्यम्। तेन दिवा मन्यते इत्यर्थेऽत्र खशि, अव्ययत्वादुपपदस्य मुम्, ह्रस्वश्च नेति ज्ञेयम्। एवमेव दोषामत्त्यम् इत्यत्रापि ज्ञेयम्।]]
17 [[३। अत्रापि पूर्ववत् गाम् आत्मानं मन्यते इत्यर्थे खशि, ‘इच एकाचोऽम्प्रत्ययवच्च’ (६-३-६८) इत्यनेन खिदन्ते परे एकाचः पूर्वपदस्य ‘गो’ इत्यस्य अम् इत्यागमो भवति, स च ‘--प्रत्ययवच्च’ (६-३-६८) इति वचनात् स्वादिप्रत्ययवद् भवति। तेन ‘औतोऽम्शसोः’ (६-१-९३) इत्यनेन प्रत्ययाश्रित आकारोऽत्र भवति। तेन गाम्मन्यः इति रूपं सिद्ध्यति।]]
18 [[४। स्त्रियमात्मानं मन्यते इत्यर्थे खशि, पूर्ववत् ‘इच एकाचः--’ (६-३-६८) इति अमागमे, ‘वाऽम्शसोः’ (६-४-८०) इति विकल्पेन इयङ्। इयङ्पक्षे स्त्रियम्मन्यः, इति रूपम्। इयङभावपक्षे ‘अमि पूर्वः’ (६-१-१०७) इति पूर्वरूपे स्त्रीम्मन्यः इति रूपम्।]]
19 [[५। नरं आत्मानं मन्यते इत्यर्थे खशि, अमागमे, ‘ऋतो ङिसर्वनामस्थानयोः’ (७-३-११०) इति गुणे नरम्मन्यः इति रूपम्। अत्र ‘--प्रत्ययवच्च’ (६-३-६८) इति वचनात् मुमपवादतया प्रवृत्तस्यामः प्रत्ययत्वम्। प्रत्ययत्वादेव सर्वनामस्थान- संज्ञा, तदाश्रितो गुणश्चात्रेति ज्ञेयम्।]]
20 [[६। भुवमात्मानं मन्यते इत्यर्थे खशि, अमि, ‘अचि श्नुधातु--’ (६-४-७७) इत्यादिना उवङत्रेति ज्ञेयम्।]]
21 [[७। श्रियमात्मानं मन्यते इत्यत्र श्रिमन्यं [ब्राह्मणकुलम्]
22 (६-३-६८)
23 (५-७१)
24 [कुलम्]
25 [[८। कुम्भस्य समीपे उपकुम्भम्। ‘अव्ययं विभक्ति--’ (२-१-६) इत्यादिना सामीप्ये अव्ययीभावसमासे, ‘अव्ययीभावश्च’ (१-१-४१) इत्यनेन अव्ययी- भावसमासस्याव्ययत्वम्। ‘अव्ययीभावस्याव्ययत्वे प्रयोजनं लुङ्मुखस्वरोपचाराः’ (वा। १-१-४१) इति वचनात् उपकुम्भमात्मानं मन्यते इत्यर्थेऽव्ययत्वाभावात् मुमागमोऽत्रेति ज्ञेयम्। स्पष्टमिदं प्रकृतसूत्रे (१-१-४१) भाष्यादौ।]]
26 [[B। ‘मिथ्यैव श्रीः श्रियम्मन्या क्षीमन्मन्यो मृषा हरिः।’ भ। का। ५। ७१।]]
27 [पृष्ठम्१०००+ ३०]
28 [[१। पट्वीमात्मानं मन्यते इत्यर्थे, पाक्षिके णिनिप्रत्यये ‘स्त्रियाः पुंवत्--’ (६-३-३४) इति पुंवद्भावे रूपमेवम्। पक्षे पटुम्मन्या इत्यपि भवति।]]
29 [[२। ‘आशिषि च’ (३-१-१५०) इति वुन्प्रत्यये, ‘प्रत्ययस्थात्--’ (७-३-४४) इति प्राप्तस्येत्वस्य ‘आशिषि वुनश्च न’ (वा। ७-३-४५) इति निषेधः। ‘आशीरर्थेऽके मनेः एत्वं वाच्यम्’ इति वचनेन एकारः इति प्र। कौमुद्यामुक्तम्। मेनका = अप्सरोविशेषः।]]
30 [[३। स्त्रियाम्, ‘संज्ञायां समजनिषदनिपतमन--’ (३-३-९९) इत्यादिना संज्ञायां क्यपि रूपमेवम्। ‘मन्या = गलपार्श्वशिरा (सिरा), मन्यन्तेऽनयेति कृत्वा। तया हि क्रुद्धो ज्ञायते।’ इति पदमञ्जरी। न्यासकारस्तु ‘संज्ञायाम्’ इत्युक्तत्वात् अझलादित्वेऽपि प्रत्ययस्थं कित्त्वमाश्रित्यानुनासिकलोपे तुकि च मत्या इति रूपमनुमेने। ‘मन्या = पश्चाद्ग्रीवासिरा।’ इति मा। धा। वृत्तिः। ‘सुमत्’ इति सम्पदादित्वात् (३-३-९४) क्विपि अनुनासिकलोपे, तुकि च रूपम्। सुमत् = लक्ष्मीः।]]
31 [[आ। ‘पुरोहिताऽमात्यमुखाश्च योधा विवृद्धमन्युप्रतिपूर्णमन्याः।।’ भ। का। ३। २८।]]
32 [[४। क्तिचि रूपमेवम्। ‘न क्तिचि दीर्घश्च’ (६-४-३९) इत्यनेन क्तिचि अनुनासि- कलोपदीर्घयोर्निषेधः। मतिः इत्यत्र तु क्तिनि अनुनासिकलोपो भवत्येव। ‘मन्त्रे वृषेषपचमन--’ (३-३-९६) इत्यनेन मन्त्रे एव मन्यतेः क्तिन्विधानात् लोके न मतिरित्यस्य प्रयोग इति न मन्तव्यम्। उदात्तस्वरार्थं सूत्रस्यास्य (३-३-९६) प्रवृत्तेः।]]
33 [पृष्ठम्१००१+ २७]
34 [[१। ‘मनेरुच्च’ (द। उ। १-५१) इति इन्प्रत्यये अकारस्य उकारादेशे च रूपमेवम्। मुनिः = ऋषिः।]]
35 [[२। औणादिके उप्रत्यये रूपमेवम्। मन्यते मनुते वा मनुः। मनुशब्दात् ‘मनोर्जा- तावञ्यतौ षुक् च’ (४-१-१६१) इति अञ् यत् इत्येतौ प्रत्ययौ भवतः
\n\n तत्सन्नियोगेन षुगागमश्च। मानुषः, मनुष्यः इति जातिशब्दौ एतौ। स्त्रियाम्, ‘हयगवयमुकयमत्स्यमनुष्याणामप्रतिषेधः’ (वा। ४-१-६३) इति प्रतिप्रसवेन ङीपि, ‘हलस्तद्धितस्य’ (६-४-१५०) इति यलोपे मनुषी इति रूपम्।]]
36 [[३। ‘कमिमनि--’ (द। उ। १-१२५) इति तुप्रत्यये रूपमेवम्। ‘मन्तुः पुंस्यपराधे- ऽपि मनुष्येऽपि प्रजापतौ’ इति मेदिनी इति अमरकोशव्याख्याने (२। २६)।]]
37 [[४। ‘यजिमनि--’ (द। उ। १-१३४) इति युच्प्रत्यये रूपमेवम्। मन्युः = दैन्यम्, यागः, अन्तर्गतः क्रोधश्च।]]
38 [[५। ‘गुधृवीपचिवचियमिमनि--’ (द। उ। ८। ८९) इति त्रप्रत्यये रूपमेवम्। ‘वेदभेदे गुह्यवादे मन्त्रः--’ इति अमरः (३। १६७)।]]
39 [[६। ‘वनिमनिभ्याम्--’ (द। उ। ८। ९९) इति अरप्रत्यये ठकारे चान्तादेशे रूपमेवम्। मठरः = ज्ञानी, गोत्रं च। मूढः इति क्षीरस्वामी।]]
40 [[७। ‘मनेर्दीर्घश्च’ (द। उ। ९। २३) इति सप्रत्यये दीर्घे च रूपमेवम्। मन्यते तदिति मांसम् = पिशितम् इत्यर्थः।]]
41 [[८। ‘फलिपाटिनमिमनि--’ (द। उ। १। १०३) इति उप्रत्यये धकारादेशे च रूपम्। मन्यते तदतिशयेन इति मधु = माध्वी।]]
42 [[९। ‘असुन्’ (द। उ। ९। ४९) इति असुन्प्रत्यये रूपमेवम्।]]
1 {@“मन स्तम्भे”@} 2 आकुस्मीयः।
‘स्तम्भः = गर्वः…।
पक्षे मनतीति चन्द्रः’ इति क्षीरस्वामी।
‘स्तम्भे मानयते, ज्ञाने मन्यते मनुते पदम्।।’ 3 इति देवः।
मानकः-निका, मिमानयिषकः-षिका
मानयिता-त्री, मिमानयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकगालयतिवत् 4 ज्ञेयानि।
5
01 (१२१८)
02 (१०-चुरादिः-१७१०। अक। सेट्। आत्म।)
03 (श्लो। १२५)
04 (३८८)
05 [पृष्ठम्१००२+ ३०]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
